________________
कल्पान्तप्रदोषसंध्येव'प्रनृत्तनीलकण्ठा पल्लवारुणा च, अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणीपरिगता च, प्रावृडिव घनश्यामलानेकशतहूदालंकृता च, चन्द्रमूर्तिरिव सततमृक्षसार्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृगबालव्यजनोपशोभिता समदगजघटापरिपालिता च, गिरितनयेव स्थाणुसंगता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचरपरिगृहीता च, कामिनीव चन्दनमृगमदपरिमलवाहिनी रुचिरागुरुतिलकभूषिता च, -
***********
अत एव ‘कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः ख्यातौ तस्य सखायौ द्वौ विपुलाचलसंज्ञको । शशो मन्त्रिवरस्तस्य' इति बृहत्कथायां कथा निबद्धा । पक्षे संनिहिताः समीपवर्तिनो विपुलाः पृथुला अचलाः पर्वता यस्यां सा तथा । शशो मृदुलोमको लोध्रवृक्षो वा तेनोपगता सहिता च । 'शशो लोधे नृभेदे च पशौ' इत्यनेकार्थः । कल्पान्तेति । कल्पान्तस्य युगान्तस्य प्रदोषो रजनीमुखं तस्य या संध्या सायकालस्तद्वदिव । उभयोः सादृश्यमाह-प्रनृत्ता नीलकण्ठा मयूरा यस्यां सा तथा । सस्तैः पल्लवैः किसलयैररुणा चेति । पक्षे प्रनृत्तो नीलकण्ठो महादेवो यस्याम् । पल्लववदरुणा रक्ता चेत्यर्थः । अमृतेति । अमृताय सुधायै यन्मथनं विलोडनम् । क्षीरसमुद्रस्येति शेषः । तत्र वेलाम्भसो वृद्धिः समयो वा । तद्वदिव । उभयोः सादृश्यमाह - श्रीति । श्रीद्रुमाः श्रीवृक्षास्तैरुपशोभिता वरुणानां वृक्षविशेषाणां समूहो वारुणं तेन परि सामस्त्येन गता प्राप्ता चेत्यर्थः । पक्षे श्रीद्रुमौ लक्ष्मीकल्पद्रुमौ ताभ्यामुपशोभिता वरुणस्येदं वारुणं मयं तेन परिगता सहिता च । समुद्रप्रभवत्वात्तस्येति भावः । प्रावृड्वर्षास्तद्वदिव । उभयोः सादृश्यमाह - घनेति । घनं निबिडं श्यामला । अत्यन्तकृष्णेत्यर्थः । अनेकशतसंख्याका ये हूदा ग्रहाः (?) तैरलंकृता च । पक्षे घनैर्मेधैः श्यामला अनेका भिन्नाभिन्नस्वरूपाः शतहूदा जलबालिकास्ताभिरलंकृता चेति विग्रहः । चन्द्रस्य कुमुदबान्धवस्य मूर्तिरिव शरीरमिव । उभयोः साम्यमाह - सततेति । ऋक्षा भल्लूकास्तेषां सार्थः समुदायस्तेनानुगता, तथा हरिणै गैरध्यासिताश्रिता च । पक्षे सततं निरन्तरमृक्षाणि नक्षत्राणि तेषां सार्थः समुदायस्तेनानुगता सहानुयाता हरिणेन मृगेणाध्यासिता च । राज्यस्थिती राज्यमर्यादा सेव । उभयोः साम्यमाह - चमरेति । चमराश्चमर्यः, मृगा हरिणाः बालव्यजनानि चामराणि तैरुपशोभिता, सह मदेन वर्तमानाः समदा ये गजा हस्तिनस्तेषां घटाः समुदायास्ते परिपालिता यया सा । अथ च तादृशी राज्यस्थितिरित्युभयोः साम्यम् । गिरिति । गिरेहिमाचलस्य तनया पार्वती तद्वदिव । उभयोः सादृश्यमाह - स्थाण्विति । स्थाणवः कीलकाः संगताः प्राप्ता यया सा, मृगपतयः सिंहास्ते सेविता आश्रिता यया सेति विग्रहः । पक्षे स्थाणुर्महादेवस्तेन संगता मिलिता, तथा मूर्तिमान्सिंहो मृगपतिस्तेन सेविता । सिंहवाहनत्वादिति भावः । जानकीति । जानकी सीता तद्वदिव । उभयोः साम्यमाह - प्रसूतेति । प्रसूताः कुशानां दर्भाणां लवा यया सा निशाचरैरुलूकादिभिः परिगृहीता स्वीकृता । पक्षे प्रसूतौ जनितौ कुशलवाभिधानौ सुतौ यया सा, निशाचरेण रावणेन परिगृहीता । स्वस्थानं नीतेत्यर्थः । कामिनीति । कामिनी श्रृङ्गारनायिका सेव । उभयोः सादृश्यमाह - चन्दनमिति । चन्दनं वृक्षः, मृगमदो गन्धधूली तयोः संसर्गायः परिमलस्तं वहतीति सा तथा रुचिरो योऽगुरुवृक्षस्तथा तिलकवृक्षश्च ताभ्यां भूषिता शोभिता चेति । पक्षे चन्दनं च मृगमदश्च तयोरनुलेपनवशात्परिमलस्तं वहतीत्येवंशीला । रुचिरस्य शोभनस्यागुरोः काकतुण्डस्य तिलकेन पुण्ड्रेण भूषिता शोभिता चेति विग्रहः । सेति । प्रियोत्कण्ठया व्रजति या नारी सोत्कण्ठिता तद्वदिव । उभयोः सादृश्यमाह - - - - - -
- - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 वारुणीपरिगतेत्येव पाठः । विन्ध्याटवी श्रीद्धमैर्बिल्ववृक्षरुपशोभिता, वारुणी पश्चिमां दिशं परिगता भारतपश्चिमपर्यन्तगामित्वात् । अमृतमथनवेला तु लक्ष्मीकल्पद्रुमाभ्यां उपशोभिता, वारुण्या समुद्रमथनोत्थया मदिरया युक्ता इत्यर्थः । 2 अगाधजलाशयाः । 'तत्रागाधलजो हृदः' इत्यमरः । 3 विद्युत इत्यर्थः । 4 चमरमृगाणां वालाश्चामराणि व्यजनानि तालवृन्तानि तैरुपशोभिता इत्यर्थः ।
पाठा० - १ प्रनृत्यत्; प्रवृत्त. २ वारुण. ३ पतिगृहीता. ४ कृष्णागरु.
विन्ध्याटवी
( पूर्वभागः ।