________________
वसस्तरैरतिकठोरैनालिकेरकेतैकीकरीरॅबकुलपरिगतप्रान्तैस्ताम्बूलीलतावनद्धपूगखण्डमण्डितैर्वनलक्ष्मीवास भवनैरिव विरौजिता लतामण्डपैः, उन्मदमातङ्गकपोलँस्थलगलितसलिलसिक्तेनेवानवरतमेलालतावनेन मदगन्धिनान्धकारिता, नखमुखलग्नेभकुम्भमुक्ताफललुब्धैः शबरसेनापतिभिरभिहन्यमानकेसरिशता, प्रेताधिपनगरीव सदासंनिहितमृत्युभीषणा महिषाधिष्ठिता च, समरोद्यतपताकिनीव बौणासनारोपितशिलीमुखा विमुक्तेसिंहनादा च, कात्यायनीव प्रचलितखड्गभीषणा रक्तचन्दनालंकृता च, कर्णीसुतकथेव संनिहितविपुलाचला शशोपगता च,
***
****
पथिकजनैः पान्थलोकै रचितो निर्मितो लवङ्गपल्लवानां लवङ्गवृक्षविशेषकिसलयानां संस्तरः प्रस्तरो येषु तैः । अतीति । अतिकटोरा अत्यन्तकठिना नालिकेरा लाङ्गलीवृक्षाः केतक्यः क्रकचच्छदाः करीराः केसरा बकुलाश्च तैः परिगतो व्याप्तः प्रान्तो ऽन्त्यप्रदेशो येषां ते तथा तैः । ताम्बूलीति । ताम्बूली नागवल्ली सा चासौ लता चेति कर्मधारयः । तयावनद्धं बद्धं यत्पूगखण्डं क्रमुकवनं तेन मण्डितैः शोभितैः । कैरिव । वनेति । वनलक्ष्मीररण्य श्रीस्तस्या वासस्य वसतेर्भवनानि गृहाणि तैरिव । उन्मदेति । उन्मदा मत्ता ये मातङ्गा गजास्तेषां कपोलस्थलानि करटप्रदेशास्तेभ्यो गलितं च्युतं यत् सलिलं मदजलं तेन सिक्तेनेव सिञ्चितेनेव । अत एव मदगन्धिना मदस्य गन्ध इव गन्धो यस्मिन्नेतादृशेन । अनवरतं निरन्तरमेलानां चन्द्रवालानां लता वल्लयस्तासां वनं काननं तेनान्धकारिता श्यामीकृता । एलारजःसंबन्धाच्छ्यामतां प्रापितेत्यर्थः । नखेति । नखानां मुखान्यग्राणि तेषु लग्नान्यासक्तानि यानीभकुम्भमुक्ताफलानि गजमांसपि - ण्डरसोद्भवानि तेषु लुब्धैर्लोलुपैः शबराणां भिल्लानां सेनापतिभिः सैन्यनायकैरभिहन्यमानं व्यापाद्यमानं केसरिणां नखरायुधानां शतं यस्यां सा तथा । प्रेतेति । प्रेताधिपो यमस्तस्य नगरीव संयमिनीव सदा निरन्तरं सर्वदा संनिहितो निकटवर्ती मृत्युर्यमस्तेन भीषणा भयकारिणी । पक्षे सदा निकटस्थो यो मृत्युरजगरस्तेन भीषणा भयावहा । यद्वा । कारणे कार्योपचारान्मृत्युव्याघ्रादयस्तैर्भीषणेत्यर्थः । महिषेति । महिषैर्गवलैरधिष्ठिता व्याप्ता च । अथ यमपुरीपक्षे यमस्य वाहनं महिषस्तेनाधिष्ठिता सहिता । समरेति । समरे सङ्ग्राम उद्यता या पताकिनी सेना तद्वदिव । उभयोः साम्यमाह - बाणेति । बाणाख्ये वृक्षविशेषे समारोपिताः स्थापिताः शिलीमुखा भ्रमरा यया सा तथा । पक्षे बाणेषु शरेषु सम्यक्प्रकारेणारोपिताः शिलीमुखा लोहखण्डा यस्यामिति विग्रहः । विमुक्तेति । विमुक्तस्त्यक्तः । अर्थात्केसरिभिः । सिंहनादः केसरिध्वनिर्यस्यां सा तथा । पक्षे सुभटैर्विहितः सिंहनाद इव नादो यस्यामिति विग्रहः । कीदृशी । कात्यायनी सिंहयाना तद्वदिव । उभयोः साम्यमाह - प्रचलितेति । सेनाप्रकर्षेण प्रचलितो यः खड्गो गण्डकस्तेन भीषणा भयावहा । रक्तचन्दनं रक्ताङ्गं वृक्षविशेषस्तेनालंकृता च भूषिता च । पक्षे प्रचलितो यः खड्गः कौक्षेयकस्तेन भीषणा भयजनिका, रक्तमेव चन्दनं तेनालंकृता च । चर्चितेत्यर्थः । कर्णीसुतः कश्चित्क्षत्रियविशेषः तस्य कथा वृत्तान्तस्तद्वदिव । उभयोस्तुल्यतामाह - संनिहितेति । संनिहि समीपवर्तिनौ विपुलाचलौ विपुलाचलसंज्ञकौ सखायौ यस्यां सा तथा । शशस्तस्य मन्त्रिमुख्यस्तेनोपगता सहिता च ।
40
-
टिप्पo - 1 हिंसजन्तुद्वारा मरणं तेन भीषणेत्यर्थः । 2 बाणासनारोपितशिलीमुखा पाठः । बाणासु नीलझिण्टीषु असनेषु पीतशालेषु (वृक्षेषु) आरोपिताः कुसुमसौरभात् शिलीमुखा भ्रमरा यया, इति अटवीपक्षेऽर्थः । पक्षे तु बाणासनेषु धनुःषु आरोपिताः शिलीमुखा बाणा यया इत्यर्थः । टीकागृहीतपाठे तु हठादाकर्ष एवार्थस्येति विमृशन्तु ।
1
पाठा० - १ सस्तरैः. २ नारिकेल; करिकेसर. ३ केतकीपरिगत. ४ केसर. ५ भुवनैः ६ विराजितमण्डपैः ७ सवण; प्रसवण; सलिलप्रसवण. ८ मदसलिल. ९ निरन्तरमेला. १० सेनेव. ११ समारोपित; बाणासनारोपित. १२ विविक्त.
कादम्बरी ।
कथामुखे