________________
लेन सबहुमानमवनिपतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् - 'देव, महतीयं कथा । यदि कौतुकमाकर्ण्य
ताम् -
अस्ति पूर्वापरजलनिधिवेलावनलग्ना मध्यदेशालंकारभूता मेखलेव भुवः वनकरिकुलमदजलसेकसंवर्धितैरतिविकचधवलकुसुमनिकरमत्युच्चतया तौरकागणमिव शिखरप्रदेशसंलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकलकुररकुलदश्यमानमरिचपल्लवा, करिकलभकरमृदिततमालकिसलयामोदिनी, मधुमदोपरक्तकेरलीकपोलच्छेविना संचरद्वनदेवताचरणालक्तकरसरञ्जितेनेव पल्लवचैयेन संच्छादिता, शुककुलदलितदाडिमीफलद्रवार्द्रीकृततलैरतिचपलकँपिकम्पितर्कक्कोलच्युतपल्लवफलशबलैरनवरतनिपतितकुसुमरेणुपांसुलैः पथिकजनरचितलवङ्गपल्ल
*****
***:
तत्र बन्धनमवस्थानम् । कथं वा चाण्डालहस्तगमनम् । इहास्मिन्प्रदेशे कथं वागमनमिति । तदनन्तरं वैशम्पायनः । तु पुनरर्थे । उपजातं समुत्पन्नं कुतूहलं यस्यैवंभूतेन अवनिपतिना पृथ्वीपतिना सबहुमानं सह बहुमानेनादरेण वर्तमानं यथा स्यात्तथेति क्रियाविशेषणम् । स्वयं नान्तरा पृष्ट आक्षिप्तः सन्प्रश्नानन्तरं मुहूर्तमिव घटिकाद्वयमिव ध्यात्वा ध्यानं कृत्वा सादरं आदरेण सह यथा स्यात्तथाब्रवीदुवाच । तत्किम् । हे देव, यत्पृष्टं तद्विषयिणी महती कथेयम् । यदि च किं तदिति तच्छ्रवणे कौतुकं तदाकर्ण्यतां श्रूयताम् -
-
-
I
अस्तीति । नामेति प्रसिद्धम् । विन्ध्याटव्यस्तीत्यन्वयः । इतोऽटवीं विशेषयन्नाह - पूर्वेति । पूर्वश्चापरश्च पूर्वापरौ यौ जलनिधी समुद्रौ तयोर्यद्वेलावनं तटकाननं तावत्पर्यन्तं लग्ना संबद्धा । मध्येति । सह्यहिमालययोर्मध्यं मध्यदेशस्तस्यालंकारभूता । भूषणरूपेत्यर्थः । अत एव मध्यभूषणरूपत्वाद्भुवः पृथिव्या मेखलेव काञ्चीव । पादपैर्वृक्षैरुपशोभिता द्योतमाना । अथ पादपान्विशेषयन्नाह - वनेति । बने कानने करिणो गजास्तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकः सिञ्चनं तेन सम्यग्वर्धिता वृद्धिं प्राप्तास्तैः । अतीति । अतिविकचान्यत्यन्तं विकसितानि यानि धवलानि शुभ्राणि कुसुमानि पुष्पाणि तेषां निकरः समूहस्तम् । कीदृशम् । अत्यन्तमुच्चतया शिखरप्रदेशः प्रान्तदेशस्तत्र संलग्नमत एवोच्चत्वाच्छुभ्रत्वाच्च तारकाणां गणमिव नक्षत्राणां समूहमिवोद्वहद्भिर्धारयद्भिः । पुनरवीं विशिनष्टि - मदेति । मदेन कला मनोज्ञा ये कुररा मत्स्यनाशनास्तेषां कुलानि तैर्दश्यमाना आस्वाद्यमाना मरिचवृक्षस्य पल्लवा यस्यां सा । करीति । करिणां गजानां कलभास्त्रिंशदब्दकास्तेषां कराः शुण्डादण्डास्तैर्भृदितानि मर्दितानि यानि तमालवृक्षस्य किसलयानि तेषामामोदः परिमलो विद्यते यस्यां सा । मध्विति । मधु कापिशायनं तस्य यो मद आवेशस्तेनोपरक्ता लोहितैवंभूता या केरली केरलदेशोद्भवा स्त्री तस्याः कपोलौ गल्लापरप्रदेशौ तयोश्छविरिव छविर्यस्य स तेन । केरलदेशोद्भवा स्त्री स्वभावतो रक्तवर्णा कोमलाङ्गी, मधुमदात्तु विशेषतो रक्तेति भावः । केनेव । संचरन्त्य इतस्ततो गच्छन्त्यो या वनदेवता अरण्याधिष्ठात्र्यस्तासां चरणानां योऽलक्तकरसो यावकद्रवस्तेन रञ्जितेनेव रक्तीकृतेनेव पल्लवानां किसलयानां चयेन समूहेन संच्छादिताच्छादिता । विराजितेति । लता वल्लयस्तासां मण्डपैर्जनाश्रयैर्विराजितोपशोभमाना । अथ मण्डपान्विशेषयन्नाह - शुकेति । शुककुलैर्दलितानि विदारितानि यानि दाडिमीफलानि तेषां द्रवो रसस्तेनार्द्रीकृतमार्द्रतामुपनीतं तलं मध्यभागो येषां ते तथा तैः । अतीति । अतिचपला अत्यन्तं चञ्चला ये कपयो गोलाङ्गूलास्तैः कम्पिता धूनिता ये कक्कोलाः कोशफलवृक्षास्तेभ्यश्च्युतैः पतितैः पल्लवफलैः शबलाः कर्बुरास्तैः । अनवरतेति । अनवरतं निरन्तरं निपतितानि यानि कुसुमानि पुष्पाणि तेषां रेणवः परागधूलयस्तैः पांसुलाः सरजस्कास्तैः । पथिकेति ।
टिप्प० 1 सेचनमित्यर्थः ।
पाठा० - १ कौतूहलम् २ वेलावलग्ना. ३ तारांगणम्. ४ देशलग्न. ५ कोमलच्छविना. ६ प्रचयेन. ७ कपिकुल ८ कङ्कोल; कम्पिल्ल. ९ धूलीलतावनद्धकुसुम.
विन्ध्याटवी
पूर्वभागः ।
39