________________
जत् । उद्यत्सप्तर्षिसार्थस्पर्शपरिजिहीर्षयेवं संहृतपादः पारावतपादपाटलरागो रविरम्बरतलावालम्बत । आलोहितांशुजालं जलशयनमध्यगतस्य मधुरिपोर्विगलन्मधुधारमिव नाभिनलिनं प्रतिमागतमपरार्णव सूर्यमण्डलमलक्ष्यत । विहायाम्बरतलमुन्मुच्य च कमलिनीवनानि शकुनय इव दिवसावसाने तरुशिखरेषु पर्वताग्रेषु च रविकिरणाः स्थितिमकुर्वत । आलग्नलोहितातपच्छेदा मुनिभिरालम्बितलोहितवल्कला इव तरवः क्षणमदृश्यन्त । अस्तमुपगते च भगवति सहसदीधितावपरार्णवतलादुल्लसन्ती विद्रुमलतेव पॉटला संध्या समदृश्यत । यस्यामाबध्यामानध्यानम्, एकदेशदुह्यमानहोमधेनुदुग्धधाराध्वनितधन्यतरातिमनोहरम्, अग्नि -
***********
आतप आलोको यस्य स तथा तनिमानं तनो वस्तनिमा तमभजत् । क्षीणत्वं प्रापेत्यर्थः । उद्यदिति । उद्यदुदयं प्राप्नुवन्त्यः सप्तर्षिसार्थः सप्तर्षिसमूहस्तेन यः स्पर्शः संबन्धस्तस्य या परिजिहीर्षा परिहर्तुमिच्छा तया संहृताः संकोचिताः पादा येन स तथा । पारावत इति । पारावतः कलरवस्तस्य पादौ चरणौ तद्वत्पाटलः श्वेतरक्तो रागो यस्मिन्नेवंविधो रविः सूर्यः । अम्बरतलादित्यवधौ पञ्चमी । अवालम्बताललम्बे । तदनन्तरमालोहितांशुजालमीषद्रक्तकिरणसमूह सूर्यमण्डलं रविबिम्बमलक्ष्यतैक्ष्यत । कमिव । अपरेति । अपरार्णवे पश्चिमसमुद्रे प्रतिमागतं स्वमूर्तिरूपेणागतं बहिनिःसृतं जलशयनमध्यगतस्य मधुरिपोः कृष्णस्य नाभिनलिनमिव नाभिपद्ममिव । तदेव विशिनष्टि - विगलदिति । विगलन्ती सवन्ती मधुधारा परागश्रेणिर्यस्मात्स तत् तथा । विहायेति । अम्बरतलमाकाशतलं विहाय त्यक्त्वा कमलिनीवनानि नलिनीखण्डान्युन्मुच्य च शकुनय इव पतत्रिण इव दिवसावसाने सायंकाले तरुशिखरेषु वृक्षाग्रेषु च रविकिरणाः सूर्यरश्मयः स्थितिमवस्थानमकुर्वत कृतवन्तः । तत्कालीनतरुशोभामाह - आलग्नेति । आलग्नेषत्संबन्धं प्राप्ता लोहितातपस्य रक्तालोकस्य मध्ये मध्ये छेदा रचनाविशेषा येषां ते तथा । अत एव 'भक्तिच्छेदैरिव विरचितां भूमिमङ्गे गजस्य' इति । मुनिभिस्तपस्विभिरालम्बिता आश्रिता अत एव लोहितवल्कला इव तरवो वृक्षाः क्षणं स्वल्पकालमदृश्यन्तावालोक्यन्त । संध्यावस्था प्रदर्शयन्नाह - अस्तेति । अस्तमुपगतेऽऽदृश्यतां प्राप्ते भगवति सहसदीधितावपरार्णवतलात्पश्चिमसमुद्रतलादुल्लसन्त्यूर्ध्वमागच्छन्ती विद्रुमलतेव रक्तकन्दवल्लीव पाटला श्वेतरक्ता संध्या सायंकालं समदृश्यत समालोक्यत । यस्यामिति । यस्यां संध्यायामेवंविधमाश्रमपदमभवत् । बभूवेत्यर्थः । कीदृशम् । आबध्येति । आबध्यमानं क्रियमाणं ध्यानमेकप्रत्ययसंततिर्यस्मिन् । अनस्तं गत एव सूर्ये संध्यावन्दनाघयोरुक्तत्वाद्ध्यानग्रहणम् । एकेति । एकदेश एकस्मिन्प्रदेशे दुह्यमाना या होमधेनवो होमार्थं गावस्तासां दुग्धधारा पयः श्रेणी तत्र यद्ध्वनितं शब्दितं तेन धन्यतरं सदतिमनोहरमतिचारु । अग्नीति ।
- - - - - - - - - - - - -- - - - - -- - - - - टिप्प० -1 पाद (किरण) द्वारा पूज्यानामृषीणां स्पर्शजनितोऽपराधो माऽस्त्विति हेतुना उपसंहृतपादः (किरणः) सूर्योऽम्बरादलम्बतेत्युत्प्रेक्षा । किरणचरणयोभेदेऽपि 'पाद'शब्दश्लेषेणाऽभेदाध्यवसायादतिशयोक्तिः । पारावतपादवत् पाटलो रागो यस्येत्युपमा च । जगद्वन्यस्य रवेः कान्तौ पारावतपादसादृश्यकल्पनादुपमाऽनौचित्यं तु न शङ्कनीयम्, सायं तेजोविरहितरक्तिमसादृश्येन स्वेर्मन्दप्रभताऽतिशयव्यञ्जनात् । 2 प्रतिबिम्बरूपेण पतितं सूर्यमण्डलं मधुरिपोर्नाभिपद्ममिवाऽऽलक्ष्यतेत्यर्थः । 3 आलग्नाः लोहितातपच्छेदा येषु ईदृशा आश्रमतरवः, मुनिभिरालम्बितानि उपरिस्थापितानि लोहितवल्कलानि येषु ईदृशा इव अलक्ष्यन्तेत्युत्प्रेक्षा।
पाठा० - १ सार्थपरि. २ एव. ३ चरण. ४ अलम्बत. ५ शयनगतस्य. ६ मधुभिदः, ७ नलिनम्. ८ आलक्ष्यत; अवैश्यत; अद्रक्ष्यत. ९ धरणितलम् धरातलम्. १० उन्मुच्य कमलिनी. ११ वनानि च. १२ तपोवनतरु. १३ रक्तातप; रक्तातपगभस्ति. १४ आलम्बिताः. १५ आलोहित. १६ आश्रमतरवः. १७ अशोभन्त; अलक्ष्यन्त. १८ तटात्. १९ उपसर्पन्ती. २० आपाटला. २१ ध्वनितमनोहरम् ; ध्वनिमनोहरम्. २२ अग्निहोत्रवेदी.
(104
कादम्बरी।
कथामुखे