________________
वेदिविकीर्यमाणहरित्कुशम्, ऋषिकुमारिकाभिरितस्ततो विक्षिप्यमाणदिग्देवताबलिसिक्थमाश्रमपदमभवत् । क्यापि विहृत्य दिवसावसाने लोहिततारका तपोवनधेनुरिव कपिला परिवर्तमाना संध्या तपोधनैरदृश्यत । अचिरप्रोषिते सवितरि शोकविधुरा कमलमुकुलकमण्डलुधारिणी हससितदुकूलपरिधाना मृणालधवलयंज्ञोपवीतिनी मधुकरमण्डलाक्षवलयमुहन्ती कमलिनी दिनपतिसमागमव्रतमिवाचरत् । अपरसागराम्भसि पतिते दिवसकरे वेगोत्थितमम्भःसीकरनिकरमिव तारागणमम्बरमधारयत् । अचिराच्च सिद्धकन्यकाविक्षिप्तसंध्यार्चनकुसुमशबलमिव तोरकितं वियदराजत । क्षणेन चोन्मुखेन मुनिजनेनो विप्रकीर्णैः प्रणामाञ्जलिसलिलैः क्षोल्यमान इवागलदखिलः संध्यारागः । क्षयमुपागतायां संध्यायां तद्विनाशदुःखिता कृष्णाजिनमिव विभावरी तिमिरोद्गममभिनव -
***********
अग्निवेद्यां वह्निस्थापनचतुरसभूमिकायां विकीर्यमाणा विक्षिप्यमाणा हरित्कुशा नीलदर्भा यस्मिन् । ऋषीति । ऋषिकुमारिकाभिर्मुनिपुत्रीभिरितस्ततो विक्षिप्यमाणानि समन्ताद्विकीर्यमाणानि दिग्देवतानां बलिसिक्थानि बलिसंबन्धिसिद्धानानि यस्मिंस्तत्तथा । पुनरवस्थान्तरमाह - क्वापीति । क्वापि कुत्रचित्प्रदेशे विहृत्य पर्यटनं कृत्वा दिवसावसाने दिनपर्यन्ते कपिला तपोवनधेनुरिव लोहिततारका परिवर्तमाना तपोधनैः मुनिभिः संध्या दृश्यतालोक्यत । गौरपि कपिलत्वाल्लोहिततारका रक्तकनीनिका । संध्या तु लोहिततारका रक्तनक्षत्रा तत्कालीनोद्गतनक्षत्राणां रक्तत्वात् । अतः संध्याधेन्वोः सादृश्यादुपमानोपमेयभावः । कमलिनीसूर्ययोर्नायिकानायकत्वेन तौ वर्णयन्नाह - अचिरेति । अचिरप्रोषिते तत्कालीनप्रोषिते गते सवितरि श्रीसूर्ये शोकेन विरहेण विधुरा विह्वला कमलिनी दिनपतिसमागमार्थं स्वकीयनायकस्यागमनहेतोतं नियमविशेषमाचरदिवाकरोदिव । कमलेति । संकुचितमुखसाम्यात्कमलमुकुलान्येव कमण्डलूनि तान्येव दधातीत्येवंशीला सा तथा । हंसेति । श्वेतसाम्यादसा एव सितदुकूलानि परिधानमधोंशुकं यस्याः सा तथा । मृणालेति । श्वेततन्तुसारूप्यान्मृणालान्येव धवलं शुभ्रं यज्ञोपवीतं यज्ञसूत्रं यस्याः सा तथा । मधुकरेति । नीलतीक्ष्णमुखसाम्यान्मधुकराणां भ्रमराणां यन्मण्डलं तदेवाक्षवलयं रुद्राक्षजपमालिका तदुद्वहन्ती धारयन्ती । अपरामवस्थां वर्णयन्नाह-अपरेति । अपरसागराम्भसि पश्चिमसमुद्रपानीये पतिते दिवसकरे सूर्ये वेगेन रभसोत्थितं प्रादुर्भूतमम्भःसीकरनिकरं पानीयपृषत्समूह तारांगणमिव नक्षत्रवृन्दमिवाम्बरमाकाशमधारयद् दधार । अतिश्चेतरूपत्वसाम्यात्ताराजलबिन्द्वोरूपमानोपमेयभावः । अचिराच्चेति । अचिरात् स्वल्पकालेन सिद्धा विद्यासिद्धास्तेषां कन्यकाः पुत्र्यस्ताभिर्विक्षिप्तानि विकीर्णानि यानि संध्यार्चनकुसुमानि सायंकालीनपूजार्थमानीतानि पुष्पाणि तैः शबलमिव कर्बुरमिव तारकितम् । 'तारकादिभ्य इतच्' । संजाततारकोदयं वियदाकाशमराजताशोभत । अतीतसंध्यावस्था प्रकटयन्नाह - क्षणेनेति । क्षणेन सपद्येव । च समुच्चये । उन्मुखेनोर्ध्वमुखेन मुनिजनेन तापसजनेनो विप्रकीर्णैर्ध्वं विक्षिप्तैः प्रणामाञ्जलिसलिलैर्नमस्कृतिसमयाञ्जलिपानीयैः क्षाल्यमान इव प्रक्षाल्यमानाऽगलत्तत्स्थानात्प्रच्युतः।
क्षयमिति । संध्यायां क्षयमुपगतायां विनाशं प्राप्तायाम् । तदिति । तस्यां स्वसानिध्यात्सखी - - - - - - --
- -- टिप्प० -1 अम्बरम् (कर्तृ) तारागणम् अम्भः सीकरमिवाऽधारयदित्युत्प्रेक्षा ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ विप्रकीर्यमाण. २ दिग्देवतार्चनबलिसिक्थकम्. ३ दिनावसाने. ४ मुनिभिः; मुदितैस्तपोधनैः. ५ प्रोषिते च सवितरि. ६ यज्ञोपवीता. ७ अक्षमालावलयम्. ८ रवि. ९ दिनकरे; दिवाकरे पतन; तत्पतन. १० पवनवेगोत्थितम्; पतङ्गवेगोत्थितम्; पतनवेगोत्थितम्. ११ अम्बरतलम्. १२ सतारम्. १३ प्रक्षाल्यमानः. १४ उपागतायां च संध्यायाम उपगताया च संध्यायाम.
रात्रिवर्णनम्
( पूर्वभागः ।
105