________________
मवहत् । अपहाय मुनिहृदयानि सर्वमन्यदन्धकारतां तिमिरमनयत् । क्रमेण च रविरस्तं गत इत्युदन्तमुपलभ्य जातवैराग्यो धौतदुकूलवल्कलधवलाम्बरः सतारोन्तःपुरःपर्यन्तस्थिततनुस्तिमिरतमालवृक्षलेखं सप्तर्षिमण्डलाध्युषितमरुंधतीसंचरण'तमुपहिताषाढमालक्ष्यमाणमूलमेकान्तस्थितचारुतारकामृगममरलोकाश्रममिव गगनतलममृतदीधितिरध्यतिष्ठत् । चन्द्रा -
***********
रुपायाः संध्याया विनाशो ध्वंसस्तेन दुःखिता कष्टं प्राप्ता विभावरी रजन्यभिनवं प्रत्यग्रं तिमिरोद्गमं ध्वान्तोदयं कृष्णाजिनमिवासितचर्मवदवहत् । नीलसाम्यात्तिमिरोद्गमस्य कृष्णाजिनसाधर्म्यम् । तिमिरोद्गमस्य कृत्यं व्याख्यापयन्नाह - अपहेति । तिमिरं ध्वान्तं मुनिहृदयानि तपस्विचेतांसि स्वप्रकाशात्मकप्रकाशवन्तीत्यतस्तिमिरस्यावकाशाभावादन्यत्सर्वं प्रौढप्रकाशहीनं वस्तुजातमन्धकारतामचाक्षुषतामनययापयत् । तदुत्तरकालं चन्द्रेऽपि मित्रवियोगावस्थां वर्णयन्नाह - क्रमेणेति । क्रमेण परिपाट्या रविः सूर्योऽस्तं गतोऽदृश्यता प्राप्त इत्युदन्तमिति वृत्तान्तमुपलभ्य प्राप्तोऽमृतदीधितिश्चन्द्रः । अमरेति । अमरा वसिष्ठादयो मुनयस्तेषां लोकः समुदायस्तस्याश्रमो मुनिस्थानं तदिव गगनतलमम्बरतलमध्यतिष्ठदधितस्थौ । कीदृक्सूर्यः । जातेति । जातं समुत्पन्नं वैराग्यं विरक्तता यस्मिन्स तथा तम् । पक्षे विशिष्टो रागो विरागस्तस्य भावस्तत्त्वम् । धौतेति । धौतं क्षालितं दुकूलवल्कलमेव धवलं शुभ्रमम्बरं वस्त्रं यस्मिन् । पक्षे दुकूलवल्कलवत् धवलं शुभ्रमम्बरमाकाशं यस्मिन् । सतारेति । तारः शक्तिविशेषः प्रणवो ब्रा च । तदुक्तमन्यत्र 'इदं तारत्रयं प्रोक्तमगम्यागमनादृते । एतद्वृत्तौ ‘तारत्रयं प्रणवशतत्रयम्' इत्याह विज्ञानेश्वरः । तया सह वर्तमानं यदन्तःपुरमिति पुरस्य शरीरस्यान्तर्मध्यं कुण्डलिनी नाडीविशेषः । 'क्वचिदमाद्यन्तस्य परत्वम्' इति पुरस्य परनिपातः । तस्यां पर्यन्तः सहसारं कमलं तत्र योगसामर्थ्यात्स्थितं लैङ्गिक तनुर्यस्य स तथा । पक्षे तारा अश्विन्यादयस्ताभिः सह वर्तमानं यदन्तःपुरमवरोधस्तस्य पर्यन्तः संनिधिस्तत्र स्थिता तनुः शरीरं यस्य स तथा । अथाश्रमसाम्येन गगनतल विशेषयन्नाह - तिमिरेति । श्यामत्वसाम्यात्तिमिरवच्छ्यामा ये तमालवृक्षास्तेषां लेखा पङ्क्तिर्यस्मिन् । पक्षे तिमिराण्येव तमालवृक्षा इति विग्रहः । शेष पूर्ववत् । सप्तर्षीति । सप्तर्षिसदृशा ये ऋषयो नारदाद्यास्तेषां मण्डलं समूहः । 'मण्डलं श्वसमूहयोः' इति धरणिः । तेनाध्युषितमाश्रितम् । पक्षे सप्तर्षयः सप्ततारकाः । शेषं प्राग्वत् । अरुंधतीति । अरुंधती वसिष्ठपत्नी तस्यां संचरणं परिभ्रमणं तेन पतं पवित्रम । पक्षेऽरुंधती ताराविशेषः शेषं प्राग्वत । उपहितेति । उपहितःसंनिहित आषाढः पालाशदण्डो यस्मिन । 'पालाशो दण्ड आषाढः' इत्यभिधानचिन्तामणिः । पक्ष अषाढा पूर्वाषाढानक्षत्रम् । आलक्ष्येति । आसमन्ताल्लक्ष्यमाणानि विलोक्यमानानि मूलानि वसुधान्तर्गतवृक्षप्रदेशा यस्मिन् । पक्षे मूलं मूलनक्षत्रम् । शेषं प्राग्वत् । एकान्तेति । एकान्ते विजने स्थिताश्चारयो मनोहराकृतयस्तारकामृगाः श्वेतमृगा यस्मिन् । पक्षे तारकारुपं मृगो मृगनक्षत्रम् । तस्यामेव विभावर्यां चन्द्रे जातवैराग्योपमानमम्बरमण्डले चाश्रमरूपकमुक्त्वा ज्योत्स्नायां गङ्गारूपकोपयोगिगगनतले त्र्यम्बकोत्तमाङ्गोपमानमाह - चन्द्रेति । चन्द्रमेवाभरणं बिभर्तीति -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 सितारान्तःपुरः, पर्यन्तस्थिततनुतिमिरतमालवनलेखम् इत्यपि पाठोऽवलोक्यते साधुः । सतारं सप्रणवम् अन्तःपुरं हृदयमध्यं यस्य सः ध्याननिष्ठ इत्यर्थः पक्षे-ताराः (अश्चिन्यादयः) एव अन्तःपुराणि स्त्रियः तैः सहितः (अमृतदीधितिः) । पर्यन्ते प्रान्तभागे स्थिता तनुतिमिरवत् स्वल्पान्धकारवत् तमालवनानां लेखा यस्मिन् तम् (आश्रमम्), पक्षे- पर्यन्ते स्थितं तनतिमिरं निजोदयेन विरलमन्धकार तमालवनरेखेव यत्र तत् (गगनतलम्) इति तद्व्याख्या ।
पाठा० - १ शापदग्धमिव भयाविहायेव. २ मुनिजनहृदयानि. ३ उपगतः; उपागत. ४ समुपजात. ५ अन्तःपुर. ६ तनुतिमिर. ७ वन. ८ पवित्रितम्, पवित्रम्. ९ उपलक्ष्यमाण. १० तारकमृगम्. ११ गगनम्.
106
कादम्बरी।
कथामुखे-)