________________
भरणभृतस्तारकाकपालशकलालंकृतादम्बरतलात्त्र्यम्बकोत्तमाङ्गादिव गङ्गा सागरानापूरयन्ती हंसधवला धरण्यामपतज्ज्योत्स्ना । हिमकरसरसि विकचपुण्डरीकसिते चन्द्रिकाजलपानलोभादवतीर्णो निश्चलमूर्तिरमृतपङ्कलग्न ईवादृश्यत हरिणः । तिमिरजलधरसमयापगमानन्तरमभिनवसितसिन्दुवारकुसुमपाण्डुरैरर्णवागतैरवगाह्यन्त हंसैरिव कुमुदसरांसि चन्द्रपादैः । विगलितसकलोदयरागं रजनिकरबिम्बमम्बरापगावगाहधौतसिन्दूरमैरावतकुम्भस्थलमिव तत्क्षणमलक्ष्यत । शनैःशनैश्च दूरोदिते भगवति हिमततिसुति, सुधाधूलिपटलेनेव धंवलीकृते -
***********
चन्द्राभरणभृत्तस्मात् । तारकेति । तारका एव कपालशकलानि कर्परखण्डानि तैरलंकृतं भूषितं यस्मात् । अम्बरतलादित्यवधी पञ्चमी । त्र्यम्बकोत्तमाङ्गादिवेश्वरमौलेरिव गङ्गा जाह्नवी । सागरानिति । अगस्त्यगण्डूषेण शुष्कान् सागरान् समुद्रानापूरयन्ती परिपर्णी कुर्वती । चन्द्रोदयेन सागराणां पूरणं प्रसिद्धम् । हंसवद्धवला शुभ्रा ज्योत्स्ना चन्द्रिका धरण्यां पृथिव्यामपतत्पपातेत्यर्थः । अथ च चन्द्रमृगोऽतादृशाऽभूदित्याह - हिमकरेति । हिमकरश्चन्द्रः स एव सरस्तस्मिन् । तदेव विशिनष्टि - विकचेति । विकचानि विकस्वराणि यानि पुण्डरीकाणि तद्वत्सिते शुभ्रे । अन्यदपि सरो विकचपुण्डरीकैः सितं भवति अतस्तदुपमानम् । चन्द्रिकेति । चन्द्रिका ज्योत्सना सैव जलं पानीयं तस्य पानमास्वादनं तस्य लोभो गर्धस्तस्मादवतीर्णो मध्यप्रविष्टः । निश्चलेति । निश्चला निस्पन्दा मूर्तिर्यस्य स तथा । अमृतेति । कृष्णात्वसाम्यात्कलङ्क एंवामृतपङ्कस्तत्र लग्न इवान्तनिर्गीण इव हरिणो मृगोऽदृश्यतालक्ष्यत । चन्द्रोदयजनितं शोभातिशयं वर्णयन्नाह - तिमिरेति । कृष्णत्वसाम्यात्तिमिरमेव जलधरसमयस्तस्यापगमानन्तरं निवृत्त्यनन्तरम् । अभीति । अभिनवानि प्रत्यग्राणि सितानि शुभ्राणि यानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि पुष्पाणि तद्वत्पाण्डुरैः शुभैरर्णवः समुद्रस्तत्रागतैः प्राप्तैश्चन्द्रपादैः शशिकिरणहँसैरिव मरालैरिव कुमुदसरासि कैरवोपलक्षिततटाकान्यवागाह्यन्तालोड्यन्त । अतः श्वेतत्वसाधाद्धंसचन्द्रपादयोरुपमानोपमेयभावः । पुनरवस्थान्तरं वर्णयन्नाहविगलीति । विगलितो विलयं प्राप्तो यः सकलः समग्र उदयसंबन्ध्युद्गमनक्षणजन्मा रागो रक्तिमा यस्मिन्नेवंभूतं रजनिकरबिम्बं चन्द्रमण्डलं तत्क्षणमिव तत्काल इवालक्ष्यत जनैरेक्ष्यत । किमिव । अम्बरेति । अम्बरस्य व्योम्नो या आपगा नदी तस्या अवगाह आलोडनं तेन धौतं क्षालितं सिन्दूरं नागजं यस्यैवंविधं यदैरावतस्य हस्तिमल्लस्य कुम्भस्थलं तदिव । अतिवर्तुलत्वसाम्याच्चन्द्रबिम्बस्य कुम्भस्थलोपमानम् । अथ मुनिवृतं निरुपयन्ननाह - शनैरिति । हारीतो मुनिः कृताहारं विहितभोजनं मां वैशम्पायनमादाय गृहीत्वा पितरं जाबालिमुनिमित्यवोचदित्यन्वयः । कस्मिन्सति । शनैः शनैः स्वल्पप्रयत्नेन दूरोदिते दूरं गते भगवति चन्द्रे । हिमेति । हिमं प्रालेय तस्य ततिर्वीथी तस्यां सुति साविणि । चन्द्रस्य विशेषणम् । सुधेति । श्वेतत्वसाम्यात्सुधैव धूलिपटलं पांसुकसमूहस्तेनेव चन्द्रातपेन शशिन आलोकेन जगति लोके धवलीकृते सति शुभ्रीकृते सति । पुनः केषु सत्सु । निशामुखसमीरणेषु प्रदोषकालीनवायुषु प्रवहत्सु वहमानेषु सत्सु । अथ -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 'रगाह्यन्त' इत्यपि पाठः । तद्वत् 'अवागाह्यन्त' इति वक्तव्यमप्युचितं स्यात् । 2 निश्चलमूर्तिहरिणः चन्द्रबिम्बगतचिह्नरूपो मृगः अमृतमेव पङ्कस्तत्र लग्न इव अलक्ष्यत । अन्योऽपि जलपानलोभादवतीर्णो मृगः पङ्कमग्नो निश्चलमूर्तिस्तिष्ठति । कलङ्क एव हरिणत्वाऽऽरोपात् । 3 'हिमसुति' इत्यपि पाठः । हिमं सवति इति हिमसत् (क्विप्) तस्मिन्निति विग्रहः ।
पाठा० - १ सागरम्. २ आलक्ष्यत. ३ समयादनन्तरम्. ४ सिन्धुवार. ५ गगनागतैः. ६ अगाह्यन्त; अगृह्यन्त. ७ हिमसुति; हिमदीधितो. ८ धवलीकृते जगति.
रात्रिवर्णनम्
पूर्वभागः ।
107