________________
चन्द्रातपेन जगति, अवश्यायजलबिन्दुमन्दगतिषु विघटमानकुमुदवनकषायपरिमलेषु समुपोढनिद्राभरालसतारकैरन्योन्यग्रथितपक्ष्मपुटैरारब्धरोमन्थमन्थरमुखैः सुखासीनैराश्रममृगैरभिनन्दितागमनेषु प्रवहत्सु निशामुखसमीरणेषु, अर्धयाममात्रावखण्डितायां विभावर्यां हारीतः कृताहारं मामादाय सर्वेस्तैर्महामुनिभिरुपसृत्य चन्द्रातपोद्भासिनि तपोवनैकदेशे वेत्रासनोपविष्टमनतिदूरवर्तिना जालपादनाम्ना शिष्येण दंर्भपवित्रधवित्रपाणिना मन्दमुपवीज्यमानं पितरमवोचत्-हैं तात, सकलेयमाश्चर्यश्रवणकुतूहलाकलितहृदया समुपस्थिता तापसपरिषदाबद्धमण्डला प्रतीक्षते । व्यपनीतश्रमश्च कृतोऽयं पतत्त्रिपोतः । तदावेद्यतां यदनेन कृतम् ।
***********
वायूनां विशेषणानि - अवश्यायेति । अवश्यायो हिमं तस्य जलबिन्दवः पानीयविग्रुषस्तैर्मन्दा मन्थरा गतिर्गमनं येषां ते । विघटेति । विघटमानानि विकास प्राप्यमाणानि यानि कुमुदवनानि तेषां कषायस्तुवरो गन्धो येषु ते । अभिनन्दितमिति । अभिनन्दितं श्लाघितमागमनं येषां ते तथा । कैः । आश्रममृगैर्मुनिस्थानस्थहरिणैः । अथ च तेषां विशेषणानि - समुपोटेति । समुपोढा समयक्प्रकारेणोपोढा या निद्रा प्रमीला तस्या भरः संभारस्तेनालसा मन्थरा तारका कनीनिका येषां ते तथा तैः । अन्योन्येति । अन्योन्यं परस्परं ग्रथितानि मिलितानि पक्ष्म नेत्ररोम तेषां पुटानि येषां ते तथा तैः । आरब्ध इति । आरब्धो यो रोमन्थश्चर्वणं तेन मन्थराण्यलसानि मुखानि येषां ते तथा तैः । सुखेति । सुखेन यदृच्छयासीनैरुपविष्टैः । अर्धेति । त्रियामाशयेनार्धयाममात्रमर्धप्रहरमात्रमवखण्डितं खण्डनां प्राप्तं यस्याः सा तथा तस्मिन् । तस्यामर्धप्रहरन्यूनायामित्यर्थः । एवंविधायां विभावर्या रजन्यां सर्वैस्तैर्महामुनिभिर्महातपस्विभिरुपसृत्यागत्य । कस्मिन् । चन्द्रेति । चन्द्रातपेन निशापतिप्रकाशेनोद्भासत उत्प्राबल्येन शोभत इत्येवंशीलः स तथा तस्मिन् । तप इति । तपोवनस्य मुनिस्थानस्यैकदेशोऽन्यतरप्रदेशस्तस्मिन्नधिकरणीभूते । अथ जाबालिमुनि विशेषयन्नाह - वेत्रेति । वेत्रासनमासन्दी तत्रोपविष्टमासीनम् । अनतीति । अनतिदूरवर्तिना नातिसमीपवर्तिना । जालेति । जालपाद इति नाम यस्य स तथा तेन शिष्येण विनेयेन । दर्भेति । दर्भ कुशस्तद्वत्पवित्रं यद्धवित्रं मृगचर्मनिर्मितं तालवृन्तं पाणौ हस्ते यस्य स तथा तेन । 'धवित्रं मृगचर्मणः' इति कोशः । मन्दं यथा स्यात्तथोपवीज्यमानं दूरीक्रियमाणमक्षिकम् । अन्वयस्तु पूर्वमुक्तः । तदनुसारेण किमुवाचेत्याह-हे तात हे पितः, सकला समग्रेयं प्रत्यक्षगता तापसपरिषत्तपस्विसंसत्समुपस्थितागता । आश्चर्येति । आश्चर्यस्याद्भुतवस्तुनो यच्छ्रवणमाकर्णनं तत्र यत्कुतूहलं चित्तवृत्तिविशेषस्तेनाकलितं व्याप्तं हृदयं चेतो यस्याः सा । परिषद्विशेषणम् । आबद्धेति । आबद्धमारचितं मण्डलं यया सा । प्रतीक्षत इति । भवन्तमिति शेषः । भवद्विलम्बेन विलम्ब इत्यर्थः । कदाचिच्छुककृतोऽपि स्यादित्यत आह - व्यपनीतेति । अयं पतत्रिपोतः शुकशिशुळपनीतो दूरीकृतः श्रमो ग्लानिर्यस्यैवंभूतः कृतो विहितः । चेति पूर्वोक्तसमुच्चये । तदिति हेत्वर्थे । आवेद्यतामिति । यदनेन शुकेन कृतं विहितं तदावेद्यतां निवेद्यताम् ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 'सर्वेस्तैः सह मुनिभिः' इत्यपि पाठः । अन्यथा महामुनिभिरिति पाठस्वीकारे सहार्थस्याऽऽक्षेपः कर्तव्यःस्यात् । किञ्च महामुनिस्तत्र जाबालिरेव, न सर्वे । 2 'दर्भपवित्रपाणिना' इत्यपि पाटप्रचारः, तदपेक्षया टीकाकृता गृहीतः पाठः समीचीनतर एव । 3 रात्रिसंबन्धि दंश-मसकम् इत्यर्थः ।
पाठ० - १ बिन्दुपतनमन्द; बिन्दुपतनशीतेषु मन्द. २ खण्ड. ३ आगमेषु. ४ प्रवात्सु. ५ समीरेषु. ६ सह मुनिभिः. ७ वेत्रासने सुखोपविष्टम्. ८ नातिदूर. ९ पवित्रपाणिना. १० मन्दमन्दम्. ११ उवाच. १२ तात. १३ आकुलित. १४ प्रतीक्ष्यते. १५ किमनेन.
108
कादम्बरी।
कथामुखे