________________
अपरस्मिञ्जन्मनिकोऽयमभूद्रविष्यति चे' इति । एवमुक्तस्तु स महामुनिरग्रतः स्थितं मामवलोक्य ताश्च सर्वानेकाग्राज्वणपरान्मुनीन्बुद्ध्वा शनैःशनैरब्रवीत्-'श्रूयतां यदि कौतूहलम् -
कथारम्भः। अस्ति सकलत्रिभुवनललामभूता, प्रसवभूमिरिव कृतयुगस्य, आत्मनिवासोचिता भगवता महाकालाभिधानेन भुवनत्रयसर्गस्थितिसंहारकारिणा प्रमथनाथेनेवापरेव पृथिवी समुत्पादिता, द्वितीयपृथिवीशङ्कया जलनिधिनेव रसातलगंभीरेण परिखावलयेन परिवृता, पशुपतिनिवासप्रीत्या गगनपरिसरोल्लेखिशिखरमालेन कैलासगिरिणेव सुधासितेन प्राकारमण्डलेन 'परिवृता, प्रकटशङ्खशुक्तिमुक्ताप्रवालमरकतमणिराशिभिश्चामीकरचूर्णसिकतानिकरनिचितैरायामि -
***********
अस्माकमिति शेषः । अपरस्मिन्निति । एतद्भवापेक्षयापरजन्मनि भूते भविष्यति च कोऽयमभूत्कोऽयमग्रे भविष्यति चेति । एवमिति । एवं पूर्वोक्तप्रकारेणोक्तः प्रश्नविषयीकृतः । तु पुनरर्थे । स महामुनिः जाबालिमुनिरग्रतः पुरतः स्थितमासीनं मामवलोक्य निरीक्ष्य तान्सर्वान्समग्रानेकानानेकतानान् । श्रवणेति । श्रवणमाकर्णनं तस्मिन्परान्मुनींस्तपस्विनो बुद्ध्या ज्ञात्वा च अतिवृद्धत्वात्क्षीणत्वाच्च शनैः शनैर्मन्दस्वरेणाब्रवीदुवाच । किमुवाचेत्याह-श्रूयतामिति । यदि चेत्कौतूहलमाश्चर्यं तहिं श्रूयतामाकर्ण्यताम् । अनेनात्यादरः सूचितः ।
अस्तीति । उज्जयिनी नाम नाम्नी नगर्यस्तीति दूरेणान्वयः । अग्रे प्रथमान्तानि सर्वाण्यपि नगरीविशेषणानि । अन्येषां त्वन्यविभक्तिकानीति बोध्यम् । सकलेति । सकलं समग्रं यत्रिभुवनं त्रिविष्टपं तस्य ललामभूता तिलकभूता । प्रसवेति । कृतयुगस्य सत्ययुगस्य प्रसवभूमिरिव जन्मभूरिव । आत्मेति । भगवतेश्वरेणात्मनः स्वस्य यो निवासोऽवस्थानं तत्रोचिता योग्याऽपरेवैतद्भभिन्नैव पृथिवी वसुधा समुत्पादिता कृता । अथेश्वरं विशेषयन्नाह - महेति । महाकाल इत्यभिधानं नाम यस्य स तथा तेन । भुवनेति । भुवनत्रयस्य विष्टपत्रयस्य यः सर्ग सर्जनम्, स्थितिरवस्थानम्, संहारो विनाशः एतेषां कारिणा करणशीलेन । प्रमथेति । प्रमथा गणास्तेषां नाथेन स्वामिना । द्वितीयेति । द्वितीयैतद्व्यतिरिक्ता या पृथिवी तस्याः शङ्का आरेका तया जलनिधिनेव समुद्रेणेव परिखावलयेन खातिकामण्डलेन परिवृता परिवेष्टिता । परिखावलयं विशिनष्टि - रसेति । रसातलं पृथ्या अधोभागं यावद्गभीरेणालब्धमध्येन । पुनर्विशेषतो नगरी विशिनष्टि - प्राकारेति । प्राकारो वप्रस्तस्य मण्डलेन वलयेन परिवृता परिवेष्टिता । पशुपतिरिति । पशुपतिरीश्वरस्तस्य निवासोऽवस्थितिस्तेन या प्रीतिः स्नेहस्तयाकैलासगिरिणेव रजताद्रिणेवेत्युपमानम् । वप्रकैलासौ युगपद्विशेषयन्नाह - गगनेति । गगनस्याकाशस्य यः परिसरः पर्यन्तभूः । पर्यन्तमभूः परिसरः' इत्यभिधानचिन्तामणिः । तदुल्लेखिनी तत्संघर्षकारिणी शिखरमाला सानुश्रेणिर्यस्य स तथा पक्षे गगनोल्लेखिनी शिखरमालाग्रमाला अर्थात्कपिशीर्षाणि यस्मिन् । 'शिखरं पुलकाग्रयोः' इत्यनेकार्थः । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन सितेन शुभ्रेण । पक्षे सुधावच्छुभ्रणेत्यर्थः । प्रकटेति । प्रकटाः स्पष्टाः शङ्खः कम्बुः, शुक्तिरब्धिमण्डूकी, मुक्ता मौक्तिकम्, प्रवालं हेमकन्दलः, मरकतमणिरश्मगर्भः; एतेषां राशयः समूहा येषु तैः । चामीकरेति । चामीकरचूर्णं पर्वतादौ 'चूकी' इति प्रसिद्धं तदेव सिक्तानिकरो वालुकासमूहस्तेन -
पाठा० - १ अन्यस्मिन्. २ को वायम्. ३ वा. ४ अग्रस्थितम्. ५ श्रवणतत्परान्. ६ शनैः. ७ कुतूहलम्. ८ अस्ति किल. ९ निवासोचिता महा. १० कारणेन. ११ नाथेनापरेव. १२ शङ्कया च जल. १३ गम्भीरेण. १४ जलपरिखा. १५ प्रीत्या च गगन. १६ गगनतलोल्लेखि. १७ गिरिणा सुधा. १८ परिगता. १९ वालुका. २० रचितैः.
उज्जयिनी
पूर्वभागः ।
1109)