________________
भिरगस्त्यपरिपीतसलिलैः सागरैरिव महाविपणिपथैरुपशोभिता, सुरासुरसिद्धगन्धर्वविद्याधरोरगाध्यासिताभिश्चित्रशालाभिरविरतोत्सवप्रमदावलोकनकुतूहलादम्बरतलादवतीर्णाभिर्दिव्यविमानपङ्क्तिभिरिवालंकृता, मथनोद्धतदुग्धधवलितमन्दरद्युतिभिः कनकमयामलकलशशिखरैरनिलदोलायितसितध्वजैरुपरिपतदभ्रगङ्गरिव तुषारगिरिशिखरैरमरमन्दिरैर्विराजितश्रृङ्गाटका, सुधावेदिकोपशोभितोदपानैरनवरतचलितजलघटीयन्त्रसिच्यमानहरितोपवनान्धकारैः केतकीधूलिधूसरैरुपशल्यकैरुपशोभिता, मदमुखरमधुकरकुलान्धकारितनिष्कुटा, स्फुरदुपवनलताकुसुमपरिमलसुरभिसमीरणा, रणितसौभायघण्टेरालोहितांशुकपताकैराबद्धर -
***********
निचितैया॑प्तैः । आयेति । आयामो विस्तारो विद्यते येषु तैः । अगस्त्येति । अगस्त्यो घटोद्भवस्तेन परिपीतं सलिलं जलं येषां तैः सागरैरिव समुद्रैरिव । महेति । महत्यतिदीर्घा या विपणिः पण्यवीथिका तस्या ये पन्थानो मार्गास्तैरुपशोभिता विराजमाना । 'ऋक्-' इति सूत्रेण परयोऽकारान्तत्वम् । सुरेति । सुरा देवाः, असुरा दानवाः, सिद्धा विद्यासिद्धाः, गन्धर्वा देवगायनाः, विद्याधरा व्योमचारिणः, उरगा नागाः एतैरध्यासिताभिराश्रिताभिश्चित्रोपलक्षितशालाभिरलंकृता भूषिता । काभिरिव । दिव्यविमानपङ्क्तिभिरिव देवयानश्रेणिभिरिव । तस्याः कथमत्रागम इत्यारेकायामाह - अविरतेति । अविरतं निरन्तरं य उत्सवो महस्तस्मिन्याः प्रमदा योषितस्तासा यदवलोकनं निरीक्षणं तदेव यत्कुतूहलमाश्चर्यं तस्मादिति हेत्वर्थे पञ्चमी । अम्बरतलादाकाशादवतीर्णाभिरुत्तीर्णाभिः । आगताभिरिति यावत् । अमरेति । अमरमन्दिराणि देवप्रासादास्तैर्विराजितानि शोभमानानि श्रृङ्गाटकानि त्रिमार्गाश्लेषरूपाणि यस्यां सा तया । 'त्रिमार्गाश्लेषः श्रृङ्गाटः' इति कोशः । कैरिव । तुषारगिरिर्हिमाद्रिस्तस्य शिखरैः सानुभिरिव । देवगृह-गिरिशिखरयोः साम्यं प्रदर्शयन्नाहमथनेति । मथनं विलोडनं तत्रोद्धतः कृतप्रयत्नो दुग्धेन पयसा धवलितो धवलीकृतो यो मन्दरो मेरुस्तद्वद्युतिः कान्तिर्येषां तैः । कनकेति । कनकमयाः स्वर्णमया अमला निर्मला ये कलशा लघुकुम्भास्त एव शिखराण्यग्राणि येषां ते तथा तैः, पक्षे कलशवच्छिखराणि येषामिति विग्रहः । अनिलेति । अनिलैर्वायुभिर्दोलायिताः प्रेखावदाचरिताः सितध्वजाः श्वेतवैजयन्तो येषु तैः ।.कैखि । उपरिपतदभ्रगङ्गैरिवोपरिष्टात्पतन्ती सवन्त्यभ्रगङ्गा स्वधुनी येषु तैरिव । सुधेति । सुधा प्रागेव व्याख्याता तयोपलक्षिता या वेदिका पीठबन्धस्तयोपशोभिताः शोभा प्रापिता उदपानाः कूपा येषु तैः । 'कूपः स्यादुदपानोऽन्धुः इति कोशः । अनवरतेति । अनवरत निरन्तर चलितं भ्रामितं यज्जलघटीयन्त्रमरघट्टस्तेन । कारणेन कार्योपचारात् । सिच्यमानानि प्रोक्ष्यमाणानि यानि हरितानि नीलान्युपवनान्येवान्धकाराणि येषु तैः । केतकीति । केतक्या मालत्या या धूलिः परागस्तेन धूसरैर्मलिनैरेवंभूतैरुपशल्यैामसीमाभिः उपशोभिता विभूषिता । ‘ग्रामसीमा तूपशल्यम्' इति कोशः । मदेति । मदेन मधुपानेन मुखराणि वाचालानि यानि मधुकरकुलानि भ्रमरसमूहाः तैरन्धकारिता जनितान्धकारा निष्कुटा गृहारामा यस्यां सा । अनेनारामाणां शोभातिशयः सूचितः । स्फुरेति । स्फुरन्त्य उल्लसन्त्यो या उपवनलता उपवनव्रतत्यस्तासां कुसुमानि सुमनसस्तेषां परिमलेनामोदेन सुरभिर्घाणतर्पणः समीरणो वायुर्यस्यां सा । पुनः प्रकारान्तरेण नगरी विशिनष्टि - सदनेति । सदनस्य गृहस्य यष्टयः प्रसिद्धास्तासु स्थिताः केतवो वैजय - - - - - - - - - - - - - - - - - - -- - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 चतुष्पथानि ('चौराहे हिन्दी) । 2 कण्टकयुक्तवृक्षविशेषः केतका, यो हि सीमान्तभागे आरोप्यते । मालती तु 'जातिः, न सा कण्टकिनी, नापि वा सीमनि रोप्यते । न च तस्यां परागधूलिर्भवति । 3 'मदनयष्टिकेतुभिः' इत्येव पाठः । तद्व्याख्या तु-मदनवृक्षनिर्मितकन्दर्पध्वजैः प्रकाशिता सूचिता मकरध्वजस्य कामस्य पूजा यस्यां सा, कामपूजायां तादृशध्वजोच्छ्रयणस्य शास्त्रोक्तत्वात् ।
पाठा० - १ अनवरत. २ उत्सवावलोकन. ३ मन्थन. ४ दुग्धसिन्धुधवल. ५ विभूषिता. ६ मधुकरपटलान्धकारित.
(1101
कादम्बरी ।
। कथामुखे