________________
क्तचामरैर्विद्रुममयैः प्रतिगृहमुच्छ्रितैर्मकराकैः सदनयष्टिकेतुभिः प्रकाशितमकरध्वजपूजा, सतत प्रवृत्ताध्ययनध्वनिधौतकल्मषा, स्तिमितमुरजरवगम्भीरगर्जितेषु सलिलसीकरासारस्तंबकरचितदुर्दिनेषु पर्यस्तरविकिरणरचितसुरचापचारुषु धारागृहेषु मत्तमयूरैर्मण्डलीकृतशिखण्डैस्ताण्डवव्यसनिभिराबध्यमानकेकाकोलाहला, विकचकुवलयकान्तैरुत्फुल्लकुमुदधवलोदरैरनिमिषदर्शनरमणीयैराखण्डललोचनैरिव सहससंख्यैरुद्भासिता सरोभिः, अविरलकदलीव -
***********
त्यस्तैः प्रकाशिता प्रकटीकृता मकरध्वजस्य कंदर्पस्य पूजार्चा यस्यां सा । अथ च सदनयष्टिमदनयष्टयोः साम्यं प्रदर्शनाह - रणितेति । रणिताः रणरणशब्दं कुर्वाणाः सौभाग्यघण्टाः सुभगताहेतोयस्ता घण्टाबृहत्किङ्किण्यो येषु तैः । आलोहीति । आलोहितं रक्तमंशुक तस्य पताका वैजयन्त्यो येषु तैः । आबद्धेति । आबद्धानि बद्धानि रक्तचामराणि लोहितवालव्यजनानि येषु तैः । विद्रुमेति । विद्रुममयैः विद्रुमं प्रवालं प्रचुरं येषु तैः । प्रतिगृहं प्रतिसद्मोच्छ्रितैरूर्वीकृतैः । मकरो मत्स्यस्तस्याङ्कश्चिद्रं येषु तैः । एवंप्रकारेणैव वसन्ते कामपूजा जनैः क्रियत इति तदुत्प्रेक्षा । सततमिति । सततं निरन्तरं प्रवृत्तः प्रसृतोऽध्ययनस्य शास्त्रपाठस्य ध्वनिः शब्दस्तेन धौत क्षालितं कल्मषं पातकं यस्यां सा । पुनः प्रकारान्तरेण नगरी विशिनष्टि - धारेति । धारागृहेषु यन्त्रगृहेषु मत्तमयूरैरुन्मदकलापिभिराबध्य
या क्रियमाणः केका मयरस्य वाण्यस्तासां कोलाहलः कलकलो यस्याम । यन्त्रगृहाणां जलधरसादृश्यं विशेषमुखेन दर्शयन्नाह - स्तिमितेति । स्तिमितो निश्चलो यो मुरजस्य मृदङ्गस्य रवः शब्दः स एव गम्भीरं गर्जितं स्तनितं येषु । सलिलेति । सलिलस्य जलस्य सीकरा वातास्तवारिविप्रुषस्तेषामासारो वेगवर्षो येष्वेवंविधाः स्तबका गुच्छकास्तै रचितं प्रारब्धं दुर्दिनं येषु ते तथा तेषु । आसारस्य स्तबका समासो वा । पर्यस्तेति । पर्यस्ता निपतिता ये रविकिरणाः सूर्यरश्मयस्तै रचितं, विहितं यत्सुरचन्द्रधनुस्तेन चारुषु मनोहरेषु । रविकिरणानां द्रव्यान्तरसंयोगेन विविधवर्णत्वोपपत्तेरुत्प्रेक्षा । अथ मयूरान्विशिनष्टि - मण्डलेति । मण्डलीकृता वर्तुलीकृताः शिखण्डा बर्हाणि यैः । नृत्यप्रारम्भे मयूरकलापो मण्डलाकृतिः स्यादिति सर्वप्रसिद्धिः । अत एव ताण्डवव्यसनिभिनृत्यरसिकैः । पुनः कीदृशी । सरोभिस्तटाकैउद्भासिता उपशोभिता । अथ च सरोविशेषणानि - विकचेति । विकचानि विकस्वराणि कुवलयान्युत्पलानि तैः कान्तैर्मनोहरैः । उत्फुल्लेति । उत्फुल्लानि विनिद्राणि यानि कुमुदानि कमलानि तद्वद्धवलं शुभ्रमुदरं मध्यभागो येषां तैः । कैरिव । सहससंख्यैराखण्डलस्येन्द्रस्य लोचनैरिव । अथोभौ विशेषयन्नाह - अनिमिषेति । अनिमिषा मत्स्यास्तेषां दर्शन विलोकनं तेन रमणीयैर्मनोहरैः । पक्षेऽनिमिषं पक्ष्मपातरहितं यद्दर्शनमीक्षणं तेन रमणीयैः मनोहरैः । गृहवर्णनद्वारा तां पुनर्विशिनष्टि . दिशीति । दिशि दिशि प्रतिदिशं दन्तवलभिकाभिर्गजदन्तनिर्मितच्छदिभिराधारभूताभिर्धवलीकृता । अथ वलभीविशेषणानि - अविरलेति । अविरलानि निबिडानि यानि कदलीवनानि रम्भावनानि तैः कलिताभिः । - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 पर्यस्तैः काचकपाटादिषु निपतितै रविकिरणैर्नानावर्णशालिनः सुरपतिधनुषः संसिद्धिः स्वाभाविक्येव, न तत्र संभावनेति नोटप्रेक्षा । किन्तु समग्रे वाक्यार्थे-अन्योन्याश्लिष्टकेकाकोलाहलेन मयूराणां मुरजरवादौ मेघगर्जनादिभ्रान्तिः प्रतीयत इति वस्तुना भ्रान्तिमदलंकारध्वनिः । 2 अत्र आखण्डलोचनैः सह सरसां साम्यात्पूर्णोपमा । तेन सर्वाणि विशेषणान्युभयसंबद्धानि । ततश्च - विकचकुवलयवत्कान्तैः (इति लोचनपक्षे), उत्फुल्लैःकुमुदैर्धवलानि मध्यस्थलानि येषां तैः (इति सरःपक्षे) व्याख्यानमप्यत्र योजनीयम् । 3 अविरलं यत्कदलीवनं पताकासमूहस्तेन कलिताभिः फेनपुञ्जपाण्डुराभिः दन्तवलभिकाभिः उपरितलगतलघुगृहैः ('अटारी हिन्दी) 'शुद्धान्ते वलभी चन्द्रशाले सौधो वेश्मनि' इति रभसः । 'यस्यामसेवन्त नमवलीकाः समं वधूभिर्वलभीर्युवानः इति माघश्च । कदली पताका । कदली वैजयन्त्यां च रम्भायां हरिणान्तरे' इति विश्वः ।
पाटा०- १ प्रतिभवनम्. २ मकराङ्कितैः. ३ मदन. ४ आसाररचित. ५ पर्यन्त. ६ दिवसकरकिरणस्तबकरचित. ७ चारुधारा ८ मयुरमण्डलैरामण्डलीकृत. ९ केकारव. १० कमल.
उज्जयिनी
। पूर्वभागः ।