________________
नकलिताभिरमृतफेनपुञ्जपाण्डुराभिर्दिशि दिशि दन्तवलभिकाभिर्धवलीकृता, यौवनमदमत्तमालवीकुचकलशलुलितसलिलया भगवतो महाकालस्य शिरसि सुरसरितमालोक्योपजातेय॑येव सततसमाबद्धतरंगभृकुटिलेखया खमिव क्षालयन्त्या सिप्रया परिक्षिप्ता, सकलभुवनख्यातयशसा हरजटाचन्द्रेणेव कोटिसारेण मैनाकेनेवाविदितपक्षपातेन मन्दाकिनीप्रवाहेणेव प्रकटितकनकपद्मराशिना स्मृतिशास्त्रेणेव सभावसथकूपप्रपारामसुरसँदनसेतुयन्त्रप्रवर्तकेन मन्द
***********
अमृतेति । अमृतस्य पीयूषस्य यः फेनपुञ्जो डिण्डीरपिण्डस्तद्वत्पाण्डुराभिः शुभ्राभिः । सिप्रावर्णनद्वारा नगरी वर्णयन्नाह - यौवनेति । यौवनमतेन तारुण्याभिमानेन मत्ता उच्छृङ्खला या मालव्यो मालवदेशोद्भवाः स्त्रियस्तासां कुचा एव कलशास्तैलुलितमान्दोलितं सलिलं यस्याः सा तया । भगवत इति । भगवतो महाकालस्य महाकालाभिधानस्येवरस्य शिरसि मस्तके सुरसरितं गङ्गामालोक्य निरीक्ष्य सततं निरन्तरं समाबद्धा सम्यक्प्रकारेणाबद्धा बन्धं प्रापिता ये तरंगाः कल्लोलास्त एव भृकुटिपङ्क्तिर्यया सा तथोपजातेययेवोत्पन्नासूययेव । एतेन सपत्नीदर्शनेन भृकुटिविकारो दर्शितः । खमिति । खमाकाशं क्षालयन्त्येव निर्मलं कुर्वत्येवंविधया सिप्रया सिप्रानद्या परिक्षिप्ता परिवेष्टिता । इभ्यजनवर्णनद्वारा नगरी विशेषयन्नाह-विलासिजनेनाधिष्ठितेति दूरेणान्वयः । तत्र विलासिनीनां जनो, विलासी यो जन इत्येवं समासभेदेन द्वयोर्ग्रहणम् । अथ विलासिजनविशेषणानिकीदृशेनेव विलासिजनेन । हरजटाचन्द्रेणेवेश्वरजटास्थनिशानाथेनेव । उभयं विशिनष्टि - सकलेति । सकलं समग्रं यद्भुवन विश्वं तत्र ख्यातं प्रसिद्धं यशः कीर्तिर्येषां ते तथा । पक्षे यशः कान्तिर्यस्येति विग्रहः । कोटीति । कोटिः संख्याविशेषस्तावत्प्रमाणं सारं द्रव्यं येषां ते तथा । 'सारो द्रव्यं बलं सारम्' इत्यनेकार्थः । पक्षे कोटिरग्रभागस्तेन सारः प्रधानः । पनः केनेव । मैनाकेनेव हिमाचलात्मजेनेव । उभयं विशिनष्टि - अविदितेति । अविदितोऽननभतः पक्षयोः पातश्छेदो स तथा तेन । इन्द्रेण सर्वेषां भूभृतां पक्षच्छेदो विहितः; परं मैनाकस्य न कृत इति प्रसिद्धिः । पक्षेऽविदितोऽज्ञातः पक्षपातोऽसदङ्गीकारो येन । मन्दाकिनीति । मन्दाकिनी गङ्गा तस्यां प्रवाहो रयस्तेनेव । उभयं विशेषयन्नाह - प्रकटितेति । प्रकटिता प्रकाशिता कनकस्य सुवर्णस्य । पद्मेति । पदैकदेशे पदसमुदायोपचारात्पद्मरागमणीनां राशयः समूहा येन स तथा तेन । पक्षे कनकपद्मानां राशयः कमलसमूहाः । स्मृतीति । स्मृतिर्धर्मसंहिता तल्लक्षणेन शास्त्रेणेव । उभयं विशिनष्टि - सभेति । सभा संसदावसथं छात्रव्रतिनां वेश्म सामान्यतो गृहं वा, कूप उदपानः, प्रपा पानीयशाला, आरामः कृत्रिमं वनम्, सुरसदनं देवगृहम्, सेतुः पालिः, यन्त्रोऽरघट्टकादिगृहायाश्रमस्थत्वात् एतेषां प्रवर्तकेन प्रयोजकेन । पक्षे धर्मजनकत्वात्तद्वि -
-
-
-
-
-
-
-
-
-
- टिप्प०.-1 'उपजातेययेव आबद्धतरंगभ्रकुटिलेखया' इति क्रमेण व्याख्यानमुचितम्, सेर्ण्यत्वे एव भ्रकुटिबन्धौचित्यात् । अत्र कार्येण (भ्रकुटिबन्धेन) शिप्राया सपत्नीव्यवहारसमारोपात् रूपकगर्भा समासोक्तिः, 'समुपजातेययेव"खमिव क्षालयन्त्या' इत्युप्रेक्षाद्वयेन अङ्गभूतेन संकीर्यते । 2 स्वर्गङ्गा इत्यर्थः, तस्यामेव कनककमलसद्भावात् । 3 वस्तुतस्तु - प्रकटितः कनकानां सुवर्णानां पद्मराशिः 'पद्म' संख्यकपुञ्जो येन । कोटि-अर्बुदवत् 'पद्म' इति संख्या । एतेन अप्रकटः (गुप्तः) धनराशिस्तु विलासिजनस्य न जाने कियान् स्यादिति व्यङ्ग्यम् ।
पाठ० - १ कदलिताभिः. २ दिशि दन्त. ३ क्षुभित. ४ आलोक्यमुपजात. ५ समुपजातेया. ६ समाबद्धभृकुटि; आबद्धतरंगभृकुटी. ७ निखिलभुवनतल. ८ सदने.
(112
कादम्बरी ।
कथामुखे