________________
रेणेवोद्धृतसमग्रसागररत्नसारेण संगृहीतगारुडेनापि भुजंगभीरुणा खलोपजीविनापि प्रणयिजनोपजीव्यमानविभवेन वीरेणापि विनयवता प्रियंवदेनापि सत्यवादिनाभिरूपेणापि स्वदारसंतुष्टेनातिथिजनाभ्यागमार्थिनापि परप्रार्थनानभिज्ञेन कामार्थपरेणापि धर्मप्रधानेन महासत्त्वेनापि परलोकभीरुणा सकलविज्ञानविशेषविदा वेदान्येन देक्षेण स्मितपूर्वाभिभाषिणा परिहासपेशलेनोज्ज्वलवेषेण शिक्षिताशेषदेशभाषेण वक्रोक्तिनिपुणेनाख्यायिकाख्यानपरिचयचतु -
***********
धायकेनेत्यर्थः । मन्दरेति । मन्दरो मेरुस्तेनेव । तदुभयं विशिनष्टि - उद्धृतेति । उर्ध्वं धृतानि समग्राण्यखिलानि सागरवत्समुद्रवद्रत्नेषु साराणि मुख्यरत्नानि येन । पक्ष उद्धृतानि बहिर्नीतानि समग्राणि सागरात्समुद्राद्रत्नसाराणि चतुर्दशरत्नानि येन । संगृहीतेनेति । संगृहीत गारुडं रत्नं गारुडशास्त्रं वा येनैवंभूतेनापि भुजंगभीरुणेति विरोधः । तत्परिहारस्तु भुजंगो गणिकापतिधूर्ती वेत्यर्थात् । खलेति । खलं दुर्जनमुपजीवतीत्येवंशीलेनापि प्रणयिजनेन सज्जनजनेनोपजीव्यमानो भोग्यमानो विभवो यस्येति विरोधः । तत्परिहारस्तु खलं नवीनधान्यस्थापनस्थलमित्यर्थात्तदुपजीविना तदाश्रयेणाजीविकां कुर्वाणेत्यर्थः । वीरेति । वीरेणापि सुभटेनापि विनयवता नमनशीलेनेति विरोधः । तत्परिहारस्तु वीरेण विराजमानेनेत्यर्थात् । प्रियमिति । प्रियमेव वदतीति प्रियंवदस्तेनैवंभूतेनापि सत्यवादिनेति विरोधः । तत्परिहारस्तु प्रियो वल्लभो वदो वक्ता यस्येत्यर्थात् । 'अनुस्वारः श्लेषभङ्गकृन्न भवति' इति प्राञ्चः । अभीति । अभिरूपेणाप्यतिसुन्दरेणापि स्वस्य दाराः स्त्रियस्तेष्वेव (स्त्री तस्या) संतुष्टेन संतोषिणेति विरोधः । तत्परिहारस्त्वभिरूपेण पण्डितेनेत्यर्थात् । 'कृतिकृष्ट्यभिरूपधीराः' इति कोशः । अतिथीति । अतिथिजनोऽभ्यागतजनस्तस्याभ्यागम आगमनं तदर्थिनापि परेषु यत्प्रार्थनं याचनं तत्रानभिज्ञेनाकुशलेनेति विरोधः । तत्परिहारस्तु साधुर्जनाभ्यागमस्यार्थिना वाञ्छकेनेत्यर्थात् । कामेति । कामः स्त्रीषु रति, अर्थो द्रव्यम् तत्परेण तदासक्तेनापि धर्मप्रधानेनेति विरोधः । तत्परिहारस्तु कामो वाञ्छितो योऽर्थः पदार्थस्तत्परेण तत्साधकेनेत्यर्थात् । महेति । महासत्त्वेनापि महासत्त्ववतापि परे शत्रवस्तेषां लोकः समूहस्तस्माद् भीरुणा साशकेनेति विरोधः । तत्परिहास्तु परलोको भवान्तरमित्यर्थात् । सकलेति । सकल समग्रं यद्विज्ञानं शिल्पादि तस्य यो विशेषस्तारतम्यं तद्विदा तद्बत्रा । वदान्येन दानतत्परेण प्रियंवदेन च । 'प्रियंवदो दानशीलः स वदान्यः' इति कोशः । दक्षेण चतुरेण । स्मितेति । अदृष्टरदं हास्यं स्मितं तत्पूर्वं यथा स्यात्तथाभिभाषिणा जल्पकेन । परीति । परिहासो नर्मवचस्तेन पेशलेन सुन्दरेण । 'पेशलं हृद्य सुन्दरम्' इति कोशः । उज्ज्वलेति । उज्जवलो निर्मलो वेषो नेपथ्यं यस्य स तेन । शिक्षितेति । शिक्षिताभ्यस्ताशेषाणां समग्राणां देशानां जनपदानां भाषा वाग्येन स तथा तेन । वक्रोक्तीति । वक्रोक्तिः कुटिला वचनपद्धतिस्तत्र निपुणेन दक्षेण । आख्यायीति । 'आख्यायिका पुरावृत्तमाख्यानं सांप्रतं च तत्' इति कोशः । तत्र यः परिचयः संस्तवस्तत्र - टिप्प० - 1 उद्धृतं धनद्वारा संगृहीतं समस्तसागररत्नानां सारमुत्कृष्टांशो येन (विलासि०), इति तु सरलीकरणं व्याख्यायाः । 2 वीरेणापि विनयवता शिक्षावतेति परिहार उचितः । 3 प्रियंवदत्वेपि मितभाषित्वात्परिहारः सरलः । 4 अभि अभिमतं रूपं यस्य तेन (रूपपक्षपातिना) । रुपैकपक्षपातिनः कुरूपभार्यत्वे सति सुरूपाऽन्यस्त्रीगामितया स्वदारसंतुष्टत्वं विरुद्धमिति व्याख्यान संभाव्यते । 5 अतिथयोपि परे एवेति विरोधः, परेषु अर्थप्रार्थनाऽनभिज्ञेनेति तत्परिहारः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ उद्धतसमस्त. २ भुजंग; भुजंगसङ्ग. ३ सकलोपजीविना; कलोपजीविना. ४ विज्ञानविदा. ५ विद्यावदातेन दानशीलेनादीनेन. ६ दक्षिणेन.
उज्जयिनी
पूर्वभागः ।
113)