________________
रेण सर्वलिपिज्ञेन महाभारतपुराणरामायणानुरागिणा बृहत्कथाकुशलेन द्यूतादिकलाकलापपारगेण श्रुतरागिणा सुभाषितव्यसनिना प्रशान्तेन सुरभिमासमारुतेनेव सततदक्षिणेन हिमगिरिकाननेनेवान्तःसरलेन लक्ष्मणेनेव रामाराधनानिपुणेन शत्रुघ्नेनेवाविष्कृतभरतपरिचयेन दिवसेनेव मित्रानुवर्तिना बौद्धेनेव सर्वास्तिवादशूरेण सांख्यागमेनेव प्रधानपुरुषोपेतेन जिनधर्मेणेव जीवानुकम्पिना विलासिजनेनाधिष्ठता, सशैलेव प्रासादैः, संशाखानगरेव महा -
***********
चतुरेणाभिज्ञेन । सर्वेति । सर्वाः समग्रा या लिपयोऽक्षरविन्यासास्तासां ज्ञेन तज्ज्ञानवता । महेति । महाभारत प्रसिद्धम्, पुराणं पञ्चलक्षण, रामायणं रामचरित्रम्, तत्रानुरागिणा कृतस्नेहेन । बृहदिति । बृहत्कथा वासिष्ठादिकथा तत्र कुशलेन तद्रहस्यवेदिना । द्यूतादीति । द्यूतादयो दुरोदरप्रभृतयो याः कला विज्ञानैकदेशास्तासां कलापः समूहस्तस्य पारगेण पारदृश्वना । श्रुतं शास्त्रमात्र तत्र रागिणाभ्यन्तरप्रीतिमता । सुभाषितेति । सुभाषितानि नाटकादीनि तत्र व्यसनिनासक्तचित्तेन प्रशान्तेन क्रोधनिर्मुक्तेन । केनेव । सुरभीति । सुरभिमासो वसन्तमासस्तस्य मारुतो वायुस्तेनेव । सततेति । सततं निरन्तरं दक्षिणा त्यागो यस्य स तथा तेन । पक्षे सततं दक्षिणेन दक्षिणादिग्गामिना । हिमेति । हिमगिरिस्तुहिनाचलस्तस्य काननं वनं तेनेव । अन्तरिति । अन्तर्मध्ये सरलेनाकुटिलेन । पक्षे सरला वृक्षविशेषाः । लक्ष्मणेति । लक्ष्मणः सौमित्रिस्तेनेव । रामेति । रामस्य दाशरथेर्यदाराधनं समुपासनं तत्र निपुणेन कुशलेन । पक्षे रामाणां स्त्रीणामाराधनं सेवनम् । शत्रुघ्नेति । शत्रुघ्नो रामानुजस्तेनेवाविष्कृतः प्रकटीकृतो भरते नाट्यशास्त्रे परिचयः परिचितिर्येन स तथा । पक्षे भरतः शत्रुघ्नभ्राता । दिवसेनेव वासरेणेव । मित्रमिति । मित्रं सुहृत्तदनुवर्तिना तच्चित्ताराधकेनेत्यर्थः । पक्षे मित्रः सूर्यस्तदनुवर्तिना तदायत्तेनेत्यर्थः । बौद्धेति । बौद्धः सुगतस्तेनेव । सर्वेति । सर्वस्य वस्तुनो योऽस्तिवादः सर्वमस्तीति ज़ल्पनं तत्र शूरेण धीरेण । कदाचिदपि नास्तीति न ब्रुवतेति भावः । पक्षे सर्वास्तिवादो बौद्धानां निकायभेदः स च शूरो यस्मिन् । अतः पर सिद्धान्ताभावात् । यद्वा सर्वेषां पदार्थानां सर्ववादिनां वा योऽस्तिवादोऽक्षणिकवादस्तत्र शूरेण तदवक्षेपकेण । सांख्येति । सांख्याः कापिलास्तेषामागमः सिद्धान्तस्तेनेव । प्रधानेति । प्रधाना मुख्या ये पुरुषाः पुमांसस्तैरुपेतेन सहितेन । पक्षे प्रधान सत्त्वादीनां साम्यावस्था, पुरुषश्चेतनारूप आत्मा । यदुक्तम् - 'अजामेकां लोहितशुक्लकृष्णाम्' 'अजो ह्येकः' इत्यादि । प्रधानश्चासौ पुरुषश्च तेनोपेतेन । जिनेति । जिनः सर्वज्ञस्तस्य धर्मो वृषस्तेनव । जीवेति । जीवे प्राणिन्यनुकम्पा यस्येत्यभङ्गश्लेषः । पुनः प्रकारान्तरेण नगरी वर्णयन्नाह - सशैलेति । सशैलेव सपर्वतेव । कैः । प्रासादैर्देवभूपसदनैः । अतिमहत्त्वाच्छैलसाम्यम् । सशाखेति । शाखानगरमुपपुरं तेन सह वर्तमानेव ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 गुणाढ्यकृतः प्राकृतग्रन्थ इत्पपि व्याख्या प्राप्यते । 2 सततं दक्षिणः उदारचरितस्तेनेति सरलोऽर्थः । 3 सर्वेषां भूतभौतिकाना वाह्याना चित्तचैतानाञ्चाभ्यन्तराणा पदार्थानाम् अस्तिवादे अस्तित्वभाषणे शूरेण, तदस्तित्वस्य युक्त्यादिना समर्थनानितान्तदक्षेण । तथा च शारीरकभाष्यम्'बौद्धसिद्धान्ते एते त्रयो वादिनो भवन्ति । केचित् सर्वास्तित्ववादिनः, केचिद्विज्ञानास्तित्वमात्रवादिनः, अन्ये पुनः सर्वशून्यत्ववादिनः । तत्र ये सर्वास्तित्ववादिनो बाह्यमाभ्यन्तरं च वस्त्वभ्युपगच्छन्ति भूतं भौतिक चित्तं चैत्तं चेति तांस्तावत् प्रति ब्रूमः । 4 इदं विशेषणमुभयत्रापि सममित्यर्थः ।
पाठा० - १ सर्वदा नास्तिबादशूरेण; सर्वास्तिवादशून्येन. २ पुरुषगुणोपेतेन विलासि. ३ सर्वजीवानुकम्पिना; सर्वभूतानुकम्पिना. ४ सशाखेव.
कादम्बरी।
कथायाम