________________
भवनैः, सकल्पवृक्षेव सत्पुरुषैः, दर्शितविश्वरूपेव चित्रभित्तिभिः, संध्येव पद्मरोगानुरागिणी, अमराधिपमूर्तिरिव मखशतानलधूमपूता, पशुपतिलास्यक्रीडेव सुधाधवलाट्टहासा, वृद्धेव जातरूपक्षया, गरुडमूर्तिरिवाच्युतस्थितिरमणीया, प्रभातवेलेव प्रबुद्धसर्वलोका, शबरवसतिरिवार्बलम्बितचामैरनागदन्तधवलगृहा, शेषतनुरिव सदासन्नवसुधाधरा, जलधिमथनवेलेव महाघोषपूरितदिगन्तरा, प्रस्तुताभिषेकभूमिरिव संनिहितकॅनकघटकसहसा, गौरीव महासिंहासनोचितमूर्तिः, अदितिरिव देवकुलसहससेव्या, महावराहलीलेव दर्शितहि -
***********
1
कैः महाभवनैरुत्तुङ्गगृहैः सद्मनामतिदैर्घ्येण शाखापुरोपमानम् । सकल्पेति । सह कल्पवृक्षेण पारिजातेन वर्तमानेव । कैः । सत्पुरुषैर्महापुरुषैः । दातृत्वातिशयसाम्यात्कल्पवृक्षसाम्यम् । दर्शितेति । दर्शितानि प्रकाशितानि विश्वरूपाणि समग्ररूपाणि यया सेव । काभिः । चित्रभित्तिभिरालेख्यसहितकुड्यैः । चित्रस्य सकलबस्तुप्रकटनसामर्थ्यात्तदुत्प्रेक्षा । संध्येव पितृप्रसूरिव । पद्मेति । पद्मरागो मणिस्तस्यानुरागो रक्तिमा यस्यां सा । अनेन रत्नबाहुल्यं दर्शितम् । पक्षे पद्मरागवदनुरागो यस्यामिति विग्रहः । अमरेति । अमराधिपः शतमखस्तस्य मूर्तिरिव मखानां शतं तस्य योऽनलो वह्निनस्तस्य यो धूमो दहनकेतनस्तेन पूता पवित्रा । एतेन याज्ञिकानां बाहुल्यमाविष्कृतम् । क्षे मखशतं शताश्चमेधाः । शेषं पूर्ववत् । पश्चिति । पशुपतिरीश्वरस्तस्य लास्यक्रीडेव । नृत्यक्रीडेव । सुधेति । सुधा गृहधवलीकरणद्रव्यं तेन धवला विपर्णय एव अट्टहासो हास्यं यस्यां सा । पक्षे सुधामृतं तद्बद्धवलः शुभ्रोऽट्टहासो महाहासो यस्यामिति विग्रहः । वृद्धेव स्थविरेव । जातेति । जातरूपस्य सुवर्णस्य क्षया गृहाणि यस्यां सा । 'वसतिः शरणं क्षयः' इति कोशः । पक्षे जातो रूपस्य क्षयो नाशो यस्यामिति विग्रहः । गरुडेति । गरुडो गरुत्मांस्तस्य मूर्तिरिव । अच्युतेति । न च्युताच्युता सर्वदा स्थिरा य स्थितिर्मर्यादा तया रमणीया मनोहारिणी । पक्षेऽच्युतस्य कृष्णस्य या स्थितिरवस्थानं तेन रमणीया । प्रभातेति । प्रभातं प्रत्यूषस्तस्य बेलाम्भसो वृद्धिः (?) सेव । प्रबुद्धेति । प्रबुद्धा विशेषाभिज्ञाः सर्वलोकाः समग्रजना यस्यां सा । पक्षे प्रबुद्धाः सुप्तोत्थिताः । शेषं पूर्ववत् । शबरेति । शबरा भिल्लास्तेषां वसतिर्निवासस्थलं सेव । अवलेति । अवलम्बितान्यालम्बितानि चामराणि बालव्यजनानि येष्वेवंविधा नागदन्ता दन्तका येष्वेवंभूतानि धवलगृहाणि राजगृहाणि यस्यां सा । पक्षेऽवलम्बितानि चामराणि नागदन्ता गजदन्तास्तैर्धवलीकृतानि गृहाणि यस्यामिति विग्रहः । शेषतनुरिति । शेषो नागाधिपस्तस्य तनुरिव शरीरमिव । सदेति । सन्तः शोभना आसन्ना समीपस्था वसुधाधराः पर्वता यस्यां सा । पक्षे सदा सर्वकालमासन्नां समीपवर्तिनी वसुधां पृथ्वीं धारयति सा तथा । जलधीति । जलधिः समुद्रस्तस्य मथन आलो या वेला सेव । महेति । महाघोषा महत्य आभीरपल्लिकास्ताभिः । पूरितानि चितानि दिगन्तराणि यस्यां सा । 'घोषस्त्वाभीरपल्लिका' इति कोशः । पक्षे महाघोषो महारवः । शेषं पूर्ववत् । प्रस्त्विति । प्रस्तुतः प्रारब्धो योऽभिषेकोऽभिषिञ्चनं तस्य या भूमिः पृथ्वी सेव । संनिहितेति । संनिहिता समीपस्थाः कनकर्घटकाः सौवर्णिकास्तेषां सहस्रं यस्यां सा तथा । एतेन जनालंकारबाहुल्यं सूचितम् । पक्षे संनिहिता आसन्नवर्तिनः कनकघटकसहसाः सुवर्णकुम्भसहसा यस्यामिति विग्रहैः । गौरीवेति । गौरी पार्वती सेव । महेति । महासिंहासनं महासुवर्णासनं तत्रोचिता योग्या मूर्तिर्यस्या इति विग्रहः । अदीति । अदितिर्देवमाता सेव देवकुलानां देवगृहाणां सह सेव्यं यस्यां सा, देवकुलसहसैः सेव्या सेवनीया । देवमातृत्वात् । महावराहेति । महावराह आदिवराहस्तस्य लीला क्रीडा सेव । दर्शितेति । दर्शितो दृग्विषयीकारितो हिरण्यस्य
1
-
टिप्पo - 1 सुधया धवलानाम् अट्टानामट्टालिकानां हासः प्रकाशो यस्यां सा, इत्यर्थः । 2 'कनकघटसहसा' इति पाठे तु अभिषेकभूमौ स्नानीयघटसहसम्, नगर्यां तु मङ्गलार्थं द्वारेषु स्थापितं घटसहसं बोध्यम् । 3 गौरीपक्षे महासिंहरूपे आसने उचितेत्यर्थः ।
पाठा० - १ रागारुणा. २ आलम्बित ३ चारुचामर. ४ जलनिधि. ५ भूमी; वेलेव. ६ सदासंनिहित. ७ घट; कलश.
उज्जयिनी
पूर्वभागः ।
115