________________
रण्याक्षपाता, केद्रूरिवानन्दितभुजंगलोका, हरिवंशकथेवानेकबालक्रीडारमणीया, प्रकटाङ्गनोपभोगाप्यखण्डितचरित्रा, रक्तवर्णापि सुधाधवला, अवलम्बितमुक्ताकलापापि विहारभूषणा, बहुप्रकृतिरपि स्थिरा, विजितामरलोकद्युतिरवन्तीषूज्जयिनी नाम नगरी ।
यस्यामुत्तुङ्गसौधोत्सङ्गसंगीतसङ्गिनीनामङ्गनानामतिमधुरेण गीतरवैणाकृष्यमाणाधोमुखरथतुरंगः पुरः पर्यस्तरथपताकापटः कृतमहाकालप्रणाम इव प्रतिदिनं लक्ष्यते गच्छन्दिवसकरः । यस्यां च संध्यारागारुणा इव सिन्दूरमणिकुट्टिमेषु, प्रारब्धकमलिनीपरिमण्डला इव
-
***********
सुवर्णस्य येऽक्षाः पाशास्तेषां पातो यस्यां सा । पक्षे हिरण्यदैत्य॑स्याक्षाणामिन्द्रियाणां पातो नाशो यस्याम् । कद्रूरिति । कद्रूर्नागमाता सेव । आनन्दितेति । आनन्दितः प्रमोदं प्रापितो भुजंगलोको गणिकापतिजनो यस्यां सा । पक्षे भुजंगलोकः सर्पसमुदायः । हरिवंशेति । हरिवंशनाम्नो ग्रन्थस्य या कथा प्रबन्धः सेव । अनेकेति । अनेकेषां बालानां शिशूनां या क्रीडा खेलनं तया रमणीया मनोहरा | पक्षेऽनेका बह्वयो बालनाम्नो नृपस्य क्रीडोद्यानगमनादिरूपा तया मनोहरा चित्ताकर्षिणी । प्रकारान्तरेण पुनस्तामेव वर्णयन्नाह प्रकटेति । प्रकटं स्पष्टमङ्गनायाः स्त्रिय उपभोगो यस्यामेवंभूताप्यखण्डितचरित्रेति विरोधः । तत्परिहारस्तु प्रकटाङ्गनानामुपभोगस्ताम्बूलादिरित्यर्थादखण्डितं चरित्र लोकप्रशंसारूपस्यामित्यर्थाद्वा । रक्तेति । रक्तवर्णाप्यरुणवर्णापि सुधा पूर्वव्याख्यातवद्भवलेति विरोधः । तत्परिहारस्तु रक्ता अनुरक्ता वर्णा ब्राह्मणादयो यस्यामित्यर्थात् । अवेति । अवलम्बित आलम्बनीकृतो मुक्ताकलापो मुक्ताप्रालम्वो ययैवंभूतापि विगतस्त्रुटितो रतादौ यो हारः स एव भूषणमलंकृतिर्यस्यामिति विरोधः । तत्परिहारस्तु विहारा जैनप्रासादा इत्यर्थात् । ‘विहारो जिनसह्यनि’ इति कोशः । बह्विति । बह्वी प्रकृतिर्यस्यामेवंविधापि स्थिरेति विरोधः । तत्परिहारस्तु बह्वयः प्रकृतयः पौरलोकाः । विजीति । विशेषेण जिता अमरलोकस्य देवलोकस्य द्युतिः कान्तिर्यया सा । अवन्तीषु मालवेषु । अन्चयस्तु प्रागेवोक्तः ।
यस्यामिति । यस्याम् उज्जयिन्याम् । उत्तुङ्गेति । उत्तुङ्गमुच्चं सौधं धवलं गृहं तस्योत्सङ्ग उपरिप्रदेशस्तस्मिन्यत्संगीतं गीतनृत्यादि तत्र सङ्गिनीनां व्यासक्तानामङ्गनानां स्त्रीणामतिमधुरेणातिमिष्टेन गीतरवेण गानस्वरेणाकृष्यमाणा अधोमुखा अवाङ्मुखा रथस्य स्यन्दनस्य तुरंगा अश्वा यस्य सः । पुरोऽग्रे पर्यस्तः क्षिप्तो रथस्य पताकापटो वैजयन्तीपटो येनैवंभूतो गच्छन्न्रजन्दिवसकरः सूर्यः । आकृष्यमाणाधोमुखरथतुरगव्याजेन कृतो विहितो महाकालस्य ज्योतिर्लिङ्गात्मकशंकरस्य प्रणामो येनैवंभूत इव प्रतिदिनमहर्निशं लक्ष्यते दृश्यते । जनैरिति शेषः । यस्यां चेति । यस्यामुज्जयिन्यां रविगभस्तयः सूर्यकिरणाः । सिन्दूरेति । सिन्दूरमणयो मणिविशेषास्तेषां कुट्टिमेषु तदारुण्यप्रतिबिम्बात्संध्यारागेणारुणा इव । संलक्ष्यन्त इति क्रियायाः पूर्वतः परतो वा राजन्त इति क्रियायाः सर्वत्रानुषङ्गः । किरणेषु मरकतहरितप्रतिबिम्बादाह - प्रारब्धेति । प्रारब्धमाचरितं कमलिनीषु परिमण्डलं लुठनं यैस्ते तादृशा इव । मरकतवेदिकाखश्मगर्भघटित
टिप० - 1 दर्शितो हिरण्याक्षस्य तदाख्यस्य दैत्यस्य पातो विनाशो यस्यामित्यर्थस्य हार्दम् । 2 विटजन इति सरलोऽर्थः । 3 यदुवंशीयानां बालानां नानाविधक्रीडाकथाभी रमणीयेति स्पष्टोऽर्थः । 4 दुश्चरित्रत्वेन लज्जासंकोचाद्य भावादभिव्यक्तः अङ्गनानामुपभोगो यस्यामेवं सत्वेपि अखण्डितचरित्रत्वं विरुद्वम् । परिहारस्तुप्रकटः सौरभोद्गारादिना अङ्गनानां ताम्बूलाद्युपभोग इति ।
116
-
पाटा० - १ आस्तीकतनुरिव २ उत्संगीतसंगिनीनाम्; उत्सङ्गसंगिनीनाम्. ३ कृष्यमाणा. ४ पुरपर्यस्त. ५ प्रतिदिवसम् ६ आलक्ष्यते ७ भगवान्दिवस. ८ नीलकमलिनी. ९ परिमलिनी; परिमिलना; परिमलना; परिमला; परिमीलना.
कादम्बरी ।
कथायाम्