________________
मरकतवेदिकासु, गंगनपर्यस्ता इव वैडूर्यमणिभूमिषु, तिमिरपटलविघटनोद्यता इव कृष्णागुरुधूममण्डलेषु, अभिभूततारकापङ्क्तय इव मुक्ताप्रालम्बेषु, विकचकमलचुम्बिन इव नितम्बिनीमुखेषु, प्रभातचन्द्रिकामध्यपतिता इव स्फटिकभित्तिप्रभासु, गगनसिन्धुतैरंगावलम्बिन इव सितपताकांशुकेषु, पल्लविता इव सूर्यकान्तोपलेषु, राहुमुखकुहरप्रविष्टा इवेन्द्रनीलवातायनविवरेषु विराजन्ते रविगभस्तयः । यस्यां चानुपजाततिमिरत्वादविघटितचक्रवाकमिथुना व्यर्थीकृतसुरतप्रदीपाः संजातम -
***********
पीठिकासु वैडूर्यमणिनैर्मल्यप्रतिबिम्बादाह - गगनेति । अधःप्रसृता अपि नैल्यसाम्याद्गगन आकाशे पर्यस्ता विस्तीर्णा इव दृश्यन्ते । वैडूर्यमणयो बालवायजानि तेषां भूमिषु । तन्मणिबद्धस्थलीष्वित्यर्थः । किरणेषु धूमरुपप्रतिबिम्बादाह - तिमिरेति । तिमिरपटलस्य ध्वान्तसमूहस्य यद्विघटनं भेदनं तत्रोद्यता इव कृतप्रयत्ना इव । केषु । कृष्णागुरुः काकतुण्डस्तस्य धूमस्तेषां मण्डलेषु पटलेषु । मुक्तानां स्वच्छताविशेषसंक्रमादाह - अभिभूतेति । अभिभूतास्तारकत्वेनानिर्धार्यमाणास्तारकाणां नक्षत्राणां पङ्क्तयो लेखा यैस्तादृशा इव मुक्ताप्रालम्बेषु मुक्ताकलापेषु । मुखस्य विकचकमलसाम्यादाह - विकचेति । विकचानि विकस्वराणि यानि कमलानि तच्चुम्बिन इव नितम्बिनीमुखेषु प्रमदावदनेषु । अत्र सिन्दूरमरकतवैडूर्यधूमेषु तद्रूपविशेषातिशयो व्यज्यते । मुखेऽभङ्गुरगुणवत्त्वकमलापेक्षया कमलस्य भङ्गुरगुणवत्त्वात्स्फटिकरुपसंक्रमादाह - प्रभातेति । प्रभातस्य प्रत्यूषस्य या चन्द्रिका चन्द्रगोलिका तन्मध्यपतिता इव तदन्तःपातिन इव स्फटिकस्य चान्द्रोपलस्यभित्तयः कुड्यानि तासां प्रभासु कान्तिषु । उदये चन्द्रिकाया रक्तत्वात्, मध्ये च पाण्डुरत्वात्, प्रातस्तु स्फटिकसाम्यात्प्रभातपदम् । अत्रातिशयो व्यज्यते । तरंगसादृश्यात्सितपताकानां तत्संबन्धवशादाह - गगनेति । गगनसिन्धुः स्वधुनी तस्यास्तरंगाः कल्लोलास्तानवलम्बतइत्येवंशीला इव सितपताकांशुकेषज्ज्ववलवैजयन्तीपटेषु । पताकायां श्वेतातिशयो व्यज्यते । सूर्यकान्तेषु संक्रमवशादाह - सूर्येति । पल्लववदाचरन्तीति पल्लविता अङ्कुरितास्तादृशा इव सूर्यकान्ता एवोपलाः प्रस्तरास्तेषु । इन्द्रनीलसंपर्कवशादाह - राह्विति । राहः सैहिकेयस्तस्य मुखमिव कुहरं बिलं तत्र प्रविष्टास्तदन्तर्गता इवेन्द्रनीलमणीना ये वातायना ग विवरेषु छिद्रेषु विराजन्ते । अन्वयस्तु प्रागेवोक्तः ।
यस्यां चेति । यस्यामुज्जयिन्यां रजन्यो रात्रय एवंभूताः सत्यो यान्ति । कीदृशाः । न विघटितं न विभिन्नं चक्रवाकानां कोकानां मिथुनं ईन्द्रं याभिस्ताः । तत्र हेतुमाह - अनुपजातेति । अनुपजातं तिमिरं यस्यां तस्या भावस्तत्त्वं तस्मात् । व्यर्थीकृतेति । व्यर्थीकृता निष्प्रयोजनीकृताः सुरतप्रदीपा रतप्रयोजका -
टिप्प०-1. रविगभस्तयः सिन्दूरमणि (प्रवाल) कुट्टिमेष (पतिताः सन्तः) सन्ध्यारागारुणा इव विराजन्ते । मरकत (हरितमणि) वेदिकासु (पतिताः) प्रारब्ध नीलकमलिनीषु परिमण्डल मण्डलाकारेणाऽवलुण्ठनं यैस्ते इव विराजन्ते इत्यादिः तत्तदाधारसंबन्धाद्रविकिरणेषु नानाविधगुणक्रियादेरुत्प्रेक्षा । एवं सर्ववाक्येषु व्याख्याऽनुसंधया । 2. भूषणप्रभाभिरन्धकाराभावादिवस एवायमिति चक्रवाकानां भ्रमः । तथा चात्र भ्रान्तिमानलंकारो व्यज्यते, (वाच्यत्वाभावात्) ।
पाठा०-१ गगनतल, २ प्रसृता. ३ भूप. ४ मुक्ताफल. ५ स्फटिकमणि. ६ तरंगसङ्गिनः. ७ यस्यामनु. ८ प्रकटीकृत.
उज्जयिनी
N पूर्वभागः ।