________________
दनानलदिग्दाहा इव यान्ति कामिनीनां भूषणप्रभाभिर्बालातपपिञ्जरा इव रजन्यः । यां च संनिहितविषमलोचनामनवरतमतिमधुरो रतिप्रलाप ईव प्रसर्पन्मुखरीकरोति मकरकेतुदाहहेतुभूतो भवनकुलहंसकुलकोलाहलः । यस्यां च निशि निशि पेवनविलोलैर्दुकूलपल्लवैरुल्लसद्भिर्मालवीमुखकमलकान्तिलज्जितस्येन्दोः कलङ्कमिवापनयन्तो दूरप्रसारितध्वजभुजाः प्रासादा लक्ष्यन्ते । यस्यां च सौधशिखरशायिनीनां पश्यन्मुखानि पुरसुन्दरीणां मदनपरवश इव पतितः प्रतिमाच्छलेन लुठति बहलचन्दनजलसेकशिशिरेषु मणिकुट्टिमेषु मृगलाञ्छनः । । यस्यां च निशावसानप्रबुद्धस्य तारतारमपि पठतः पञ्जरभाजः शुकसारिकासमूहस्यो -
***********
गृहमणयो यस्यां सा । अनुपजाततिमिरत्वादेवेति भावः । तत्रापि हेतुमाह - कामिनीति । कामिनीनां योषिता भूषणान्याभरणानि तेषा प्रभाभिः कान्तिभिः । अत्र भूषणप्रभालक्षणेन हेतुनानुपजाततिमिरत्वम् । तेन चाविघटितचक्रवाकमिथुनत्वं व्यर्थीकृतदीपकत्वं चेति भावः । प्रभाभिः कीदृशा इव । संजातेति । संजातः समुत्पन्नो यो मदनानलो मदनवह्निः स एव दिग्दाहो यासु तादृशा इव बालातपो नवीनसूर्यातपस्तेन पिञ्जराः श्वेतरक्तास्तादृशा इव । यां चेति । यां नगरी भवनं गृहं तस्य कुलं समुदायस्तत्र हंसकुलानि तेषां कोलाहलो मुखरीकरोति वाचालीकरोति । 'अभूततद्भावे च्विः । कीदृशः । अतिमधुरोऽतिमिष्टः अनवरतं प्रसर्पन्प्रसरन् । कीदृश इव । रतीति । रतिर्मदनस्त्री तस्यां प्रलाप इव विलाप इव । मकरेति । मकरकेतुना मदनेन दाहस्तस्य हेतुभूतः । अन्यत्र मकरकेतोर्दाही हेतुभूतोऽस्य रतिप्रलापस्येति विग्रहः । रतिप्रलापसाम्यं कोलाहले वक्तुमाह - संनिहितेति । संनिहितः समीपस्थो विषमलोचनः शंभुर्यस्यां सा । यस्यां चेति । यस्यां नगर्यां प्रासादा आवासा ईदृशा लक्ष्यन्त इत्यन्वयः । तान्विशिनष्टि - दूरेति । दूरमूर्ध्वं प्रसारिता विसारिता ध्वजा वैजयन्त्य एव भुजा येषां ते तथा । किं कुर्वन्त इव । इन्दोश्चन्द्रस्य कलङ्क मालिन्यमपनयन्त इव दूरीकुर्वन्त इव । चन्द्रं विशिनष्टि - मालवीति । मालव्यः मालवदेशोद्भवाः तासां मुखकमलानि तेषां कान्तिस्तया लज्जितस्य त्रपितस्य । तत्करणे कारणं दर्शयन्नाह - निशि निशीति । निशि निशि प्रतिनिशमुल्लसद्भिः शोभमानैः पवनेन वायुना विलोलैश्चपलैर्दुकुलपल्लवैर्वस्त्राञ्चलैः । यस्यां चेति । यस्यां नगर्यां मृगलाञ्छनश्चन्द्रो मणिकुट्टिमेषु प्रतिमाच्छलेन प्रतिबिम्बमिषेण लुठति प्रसरति । कीदृशः । मदनेन कंदर्पण परवशः परायत्त इव । हेतुमाह - किं कुर्वन् । पश्यन्विलोकयन् । कानि । सौधशिखरशायिनीनां गृहप्रान्तस्थायिनीनां पुरसुन्दरीणां नगरनारीणां मुखानि वदनानि । कीदृशेषु मणिकुट्टिमेषु । बहलेति । बहलं यच्चन्दनजलं मलयजद्रवमिश्रिताम्भस्तेन सेकः सिञ्चनं तेन शिशिरेषु शीतलेषु । अत एव पतित इति विशेषणं शिशिरवाञ्छकत्वात्कामार्तस्येति भावः ।।
यस्यां चेति । प्रभाते प्रत्यूषे मङ्गले नैमित्तिका गीतयो व्यर्थीभवन्ति निष्फलीभवन्ति । व्यर्थीभवने हेतुद्वयं प्रदर्शयन्नाह - शुकेति । शुकः कीरः, सारिका पीतपादा, तयोः समूहः संघातस्तस्य । अभिभूतानि - -
- - - - - - - - - - - - - - - - - - टिप्प० -1 अत्र चक्रवाकानां विघटनसंबन्धेऽपि तदसंबन्धात, प्रदीपानां व्यर्थीकरणाऽसंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिद्वयम् । संजातदिग्दाहा इव पिञ्जरा इव चेत्युप्रेक्षाद्वयम् । एतेषामलंकाराणामेकस्मिन्वाक्ये निरपेक्षतयाऽवस्थानात्संसृष्टिः । 2 संनिहितविषमलोचना (पुरी), अत एव तत्कर्तृकमकरकेतुकर्मकदाहकारणात् रतेः प्रलापः (विलापः) इव हंसकोलाहलो या पुरीं मुखरयति । वस्तुतस्तुमकरकेतुना यो दाहः (कामकर्तृको यो लोकाना संतापः हंसरवस्योदीपकत्वात्) तस्य हेतुभूतः हंसकोलाहलो यां मुखरीकरोति । इत्याशयः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ पिञ्जरत्वं रजन्यः. २ इव प्रतिवासरं प्रसर्पन्. ३ कल. ४ हंसकोलाहलः. ५ पवनवश. ६ उर्ध्वध्वज. ७ यस्यां सौध. ८ शिखरोत्सङ्ग. ९ शिशिरेषु मृग. १० निशावसाने. ११ तारतरमतिपठतः. १२ रखेणाभिभूता गृहसारविरुतेन.
118
कादम्बरी ।
कथायाम्