________________
भिभूतगृहसारसस्वरामृतेन विस्तारिणा विलासिनीभूषणरवेणाविभाव्यमाना व्यर्थीभवन्ति प्रभातमङ्गलगीतयः । यस्यां चानिवृत्तिर्मणिप्रैदीपानाम्, अन्तस्तरलता हाराणाम्, अस्थितिः संगीतमुरजध्वनीनाम्, द्वन्द्ववियोगश्चक्रनाम्नाम्, वर्णपरीक्षा कनकानाम्, अस्थिरत्वं ध्वजानाम्, मित्रद्वेषः कुमुदानाम्, कोशगुप्तिरसीनाम् । किं बहुना । यस्यां सुरासुरचूडामणिमरीचिचुम्बितचरणनखमयूखः, निशितशूलदारितान्धकमहा -
***********
तिरस्कृतानि गृहसारसानि येन । सारसानीत्यत्र लक्षणया सारसस्वरस्तादृशेन स्वरामृतेन । विलासिनीति । विलासिन्यः स्त्रियस्तासां भूषणरवेणाभरणनिनादेन विस्तारिणा प्रसरणशीलेनाविभाव्यमानाः पराभूयमानाः । अथ शुकसारिकासमूहं विशिनष्टि - निशेति । निशाया रजन्या अवसाने प्रान्ते प्रबुद्धस्य जागृतस्य । तारेति । तारतारमप्युच्चस्तरमपि पठतः पठनं कुर्वतः । पञ्जरेति । पञ्जरं भजतीति तथा तस्य । पञ्जरस्थायिन इत्यर्थः । यस्यां चेति । पूर्ववत् । अनिवृत्तिरनिर्वाणता मणिप्रदीपानाम् । न तु लोकानामनिवृत्तिरनुपरमः । 'निवृत्तिं स्यादुपरमे' इति कोशः क्वचित् 'अनिर्वृतिः' इति पाठः । तत्र निर्वृतिः सुखम् । शेषं पूर्ववत् । अन्तरिति । अन्तर्मध्ये तरलो मध्यमणिस्तस्य भावस्तस्य । हाराणां मुक्ताप्रालम्बानाम् । 'नायकस्तरलः' इति कोशः । न तु लोकानामन्तश्चित्ते तरलता चाञ्चल्यम् । 'तरलं कम्पनं कम्प्रम्' इति कोशः । अस्थितिरिति । अस्थितिस्ताललयादिष्वनवस्थानं संगीतमुरजध्वनीनां प्रेक्षणार्थप्रयुक्तगीतनृत्यवाद्यमृदङ्गशब्दानाम् । न तु लोकानामस्थितिरमर्यादा । द्वन्द्ववियोग इति । द्वन्द्वस्य स्त्रीपुरुषरूपस्य वियोगो विघटनं चक्रनाम्नां द्वन्द्वचराणाम् । न तु लोकानां द्वन्द्वेन युद्धेन वियोगः स्त्रीपुरुषविश्लेषः । वर्ण इति । वर्णो वर्णिका तस्याः परीक्षा परीक्षणं कनकानां सुवर्णानाम् । न तु लोकानां वर्णा ब्राहाणादयस्तेषां परीक्षा वर्णसांकर्याभावात् । अस्थिरत्वमिति । अस्थिरत्वं चञ्चलत्वं ध्वजाना केतूनाम् । न तु लोकानां चाञ्चल्यम् । मित्रद्वेष इति । मित्रः सूर्यस्तेन सह द्वेषोऽप्रीतिः कुमुदानां कैरवाणाम् । चन्द्रविकासित्वात् । न तु लोकानां मित्रेण सुहृदा द्वेषः । कोश इति । कोशः प्रतीकार (?) स्तत्र गुप्तिर्गोपनमसीनां खड्गानाम् । न तु लोकानां कोशस्य भाण्डारस्य गुप्तिः । किं बहुनेति । किं बहुजल्पितेनेत्यर्थः । यस्यां नगर्यां महाकाल इत्यभिधानं यस्य स देवः स्वयं साक्षाद्वसति । तं विशिनष्टि - सुरेति । सुरासुराणां यञ्चूडामणिः शिरोरत्नं तस्य मरीचयः किरणास्तैश्चुम्बिताः स्पृष्टाश्चरणनखानां मयूखा यस्य सः । निशितेति । निशितं -
- - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 निशावसाने जागरितस्य तारं पठतश्च पञ्जरस्थशुकसारिकासमूहस्य प्रभातमङ्गलगीतयः (अर्थात् शुकसारिकाभिर्गीताः प्राभातिकगीतयः) गृहसारसमधुरस्वराभिभाविना विलासिनीभूषणझणत्कारेण अज्ञायमानाः सत्यः व्यर्थीभवन्ति, इत्याशयः । 2 'अन्तस्तरलता हारलतानाम् इत्यपि पाठान्तरः परिभावनीयः । अन्तस्तरलो मध्यमणिर्येषां तद्भावः अन्तस्तरलता (मध्यमणिशालिता) इति च एतस्य व्याख्या । 3 संगीतस्य मुरजस्तस्य च ध्वनीनां अस्थितिः इतस्ततः प्रसरणशीलत्वम्, इत्यर्थः (अस्थितिः तृतीयक्षणे अविद्यमानता वा) । ताल-लयादिषु अनवस्थानम् (अर्थात् ताललयाद्युल्लङ्घनम्) तु गीतवाद्यानां भ्रष्टतैव । 4 वर्णं (रुपम् 'रङ्गः') तस्य परीक्षा (वह्निताप-निकषकषणादिद्वारा) । 5 प्रसिद्धः, चर्ममयमावरणगृहम् ।
पाठा० - १ वेण च. २ अभिभाव्य. ३ दीपानाम्. ४ तरलता. ५ हारलतानाम्. ६ चक्रनाम्नः; चक्रवाकनाम्नाम्. ७ यस्यां च. ८ मरीचिचय. ९ त्रिशूल.
(उज्जयिनी
पूर्वभागः ।।