________________
सुरः, गौरीनपुरकोटिघृष्टशेखरचन्द्रशकलः, त्रिपुरभस्मरजः कृताङ्गरागः, मकरध्वजध्वंसविधुरया रत्या प्रसादयन्त्या प्रसारितकरयुगविगलितवलयनिकरार्चितचरणः, प्रलयानलशिखाकलापकपिलजटाभारभ्रान्तसुरसिन्धुरन्धकारातिर्भगवान्, उत्सृष्टकैलासवासप्रीतिर्महाकालाभिधानः स्वयं वैसति ।
तस्यां चैवंविधायां नगर्यां नलनहुषययातिधुन्धुमारभरतभगीरथदशरथप्रतिमः, भुजबलार्जितभूमण्डलः, फलितशक्तित्रयः, मतिमान्, उत्साहसंपन्नः, नीतिशास्त्राखिन्नबुद्धिः, अधीतधर्मशास्त्रः, तृतीय इव तेजसा कान्त्या च सूर्याचन्द्रमसोः, अनेकसप्ततन्तुपूतमूर्तिः, उपशमितसकलजगदुपप्लवः, विहाय कमलवनान्यवगणय्य नारायणवक्षः स्थलवसतिसुखमु -
***********
तीक्ष्णं यच्छूलं शस्त्रविशेषस्तेन दारितो भिन्नोऽन्धकमहासुरो येन स तथा । गौरीति । गौरी मानवती तस्याः सान्त्वनावसरे तन्नूपुरस्य या कोटिस्तस्य घृष्टं घर्षणां प्रापितं शेखरेऽवतंसे चन्द्रशकलं यस्य स तथा । त्रिपुरेति । त्रिपुरस्य त्रिपुरदैत्यस्य यद्भस्मरजस्तेन कृतो विहितोऽङ्गरागो भस्मोद्धूलनं येन सः । तं स्वयमेव भस्मीकृत्य तेनाङ्गरागो विहित इति भावः । मकरेति । 'मकरध्वजस्य कंदर्पस्य यो ध्वंसो दाहस्तेन विधुरया दुःखितया रत्या मदनस्त्रिया प्रसादयन्त्या प्रसन्नीकुर्वत्या ईश्वरमिति शेषः । तया प्रसारितं विस्तारितं यत्करयुगं हस्तयुगं तस्माद्विगलितानि निपतितानि यानि वलयानि कङ्कणानि तेषां निकरः समूहस्तेनार्चितौ पूजितौ चरणौ पादौ यस्य सः । प्रलयेति । प्रलयसंबन्ध्यनलो वह्निस्तस्य शिखा ज्वालास्तासां कलापः समूहस्तेन कपिलः पिङ्गलो यो जटाभारः जटासमूहस्तेन भ्रान्ता त्रस्ता सुरसिन्धुर्गङ्गा यस्मात्स तथा । अन्धकारातिरन्धकनाम्नो दैत्यस्यारातिः शत्रुर्भगवान्माहात्म्यवान् । उत्सृष्टेति । उत्सृष्टा त्यक्ता कैलासवासप्रीतिः रजताद्यवस्थानस्नेहो येन सः ।
तस्यां चेति । तस्यां नगर्यां उज्जयिन्याम् । एवमिति । एवंविधाया पूर्वोक्तप्रकारेण व्यावर्णितस्वरूपायां तारापीडो नाम राजाभूदिति दूरेणान्वयः । अथ च तमेव विशिनष्टि - तत्र प्रथमान्तानि सर्वाण्यपि राजविशेषणानि । नलो नैषधः; नहुषो नृपविशेषो योऽगस्तिशापादजगरो जातः, ययातिर्यदुपिता, धुन्धुमारः कुवलाश्वः, भरतो दौष्यन्तिः, भगीरथः सगरपौत्रः, दशरथो रामपिता, एतेषां प्रतिमः सदृश । 'प्रख्यः प्रकारः प्रतिमः' इति कोशः । भुजेति । भुजबलेन बाहुबलेनार्जितमुपार्जित भूमण्डल पृथ्वीमण्डल येन स तथा । फलितं संजातफलं शक्तित्रयं यस्य स तथा । प्रभुशक्तिर्मन्त्रशक्तिरुत्साहशक्तिश्चेति शक्तित्रयम् । मतिमान्बुद्धिमान् । उत्साहः प्रगल्भता तेन संपन्नः सहितः । नीतीति । नीतिशास्त्रे व्यवहारग्रन्थेऽखिन्ना अरीणा बुद्धिः प्रतिभा यस्य स तथा । धर्म इति । अधीतं पठित धर्मशास्त्रं येन स तथा । सूर्येति । सूर्याचन्द्रमसोः शशिभास्करयोस्तृतीय इव । ‘देवताद्वन्द्वे पूर्वपदस्य दीर्घः' इति दीर्घः । केन । तेजसा कान्त्या च । तत्र तेजः प्रकाशः कान्तिश्चन्द्रिका । राज्ञि तेजः प्रतापः, कान्तिः शोभा देहदीप्तिर्वा । अनेकेति । अनेके ये सप्ततन्तवो यज्ञास्तैः पता पवित्रा मर्तिः शरीरं यस्य स तथा । प्रयाजादीनि षडङ्गानि सप्तमः प्रधानमिति सप्ततन्तवः । उपशमितेति । उपशमितः शान्ति प्रापितः सकलजगतः समाविष्टपस्योपल्लव उपद्रवो येन स तथा । प्रकारान्तरेण तमेव विशेषयन्नाह - विहायेति । कमलवनानि नलिनखण्डानि विहाय त्यक्त्वा । नारायणस्य कृष्णस्य यद्वक्षः -
- - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 तेन घृष्टं शेखर('शिरोभूषण) भूतं चन्द्रशकलं यस्येति स्पष्टोऽर्थः । 2 तस्मिन् भ्रान्ता घूर्णमाना सुरसिन्धुर्यस्य स इति स्फुटोऽर्थः । 3 अश्रान्तेत्यर्थः ।
पाटा० - १ चन्द्रशकलशेखरः. २ करयुगल. ३ वलयततिकरम्बित. ४ अमरसिन्धु. ५ अन्धकारिः. ६ निवसति; प्रतिवसति. ७ नृगनल; नृग. ८ दशरथजनमेजयार्जुन. ९ उपार्जित.
(120
कादम्बरी।
। कथायाम्-)