SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ त्फुल्लारविन्दहस्तया शूरसमागमव्यसनिन्या निर्व्याजमालिङ्गितो लक्ष्म्या, महामुनिजनसंसेवितस्य मधुसूदनचरण इव सुरसरित्प्रवाहस्य प्रभवः सत्यस्य, शिशिरस्यापि रिपुजनसंतापकारिणः स्थिरस्यापि नित्यं भ्रमतो निर्मलस्यापि मलिनीकृतारातिवनितामुखकमलद्युतेरतिधवलस्यापि सर्वजनरागकारिणः सुधासूतेरिव सागर उद्भवो यशसः, पाताल इवाश्रितो निजपक्षक्षतिभीतैः क्षितिभृत्कुटिलैः, ग्रहगण इव बुधानुगतः, मकरध्वज इवोत्सन्नविग्रहः, - *********** स्थलं भुजान्तरस्थल तत्र या वसतिर्निवासस्तस्माद्यत्सुखं सातं तदवगणय्यावगणनां कृत्वा । उदिति । उत्फुलं विकसितं यदरविन्दं कमलं तद्वद्धस्तो यस्याः सा तया । शूरेति । शूरेण सुभटेन यः समागमः संबन्धस्तस्मिन्व्यसनमासक्तिर्विद्यते यस्याः सा तया लक्ष्म्या श्रिया निर्व्याज निष्कपटमालिङ्गित उपगूहितः । सत्यस्य प्रभव उत्पत्तिस्थानम् । तत्रोपमानमाह - महेति । महामुनिजना वसिष्ठादयस्तैः संसेवितस्य पर्युपासितस्य सत्यस्य प्रभवः । कस्य क इव । सुरसरित्प्रवाहस्य स्वधुनीरयस्य मधुसूदनचरण इव हरिपाद इव । यथा हरेः पादः स्वधुन्या उत्पत्तिस्थानं तथायमपि सत्यस्येति भावः । विरोधोक्त्या तमेव विशेषयन्नाह - यश इति । यशसः श्लोकस्योद्भव उत्पत्तिस्थानम् । तत्रोपमानमाह - सुधासूतेरिति । सुधासूतेश्चन्द्रस्य सागरः समुद्र इव । 'अब्धिजश्चन्द्रः' इति कविरूढिः । अथ च चन्द्रयशसोः साम्यं प्रदर्शयंस्तद्विशेषणान्याह - शिशिरेति । शिशिरस्यापि शीतलस्यापि रिपुजना वैरिजना विरहिजना वा तेषां संतापो दाहस्तत्कारिण इति विरोधः । तत्परिहारस्तु संतापश्चित्तोद्वेग इत्यर्थात् । स्थिरेति । स्थिरस्यापि निश्चलस्यापि नित्यं सर्वकाल भ्रमतो गच्छतः । 'सर्वदिग्गामुकं यशः इति कविरूढेविरोधः । तत्परिहारस्त्वाकल्पान्तस्थायित्वात्स्थिरो नित्य इत्यर्थात् । निर्मलेति । निर्मलस्यापि गतमलस्यापि मलिनीकृता कश्मलीकृता अरातिवनितामुखान्येव कमलानि मुखवत्कमलानि वा तेषां द्युतिर्येनेति विरोधः । तत्परिहारस्तु निर्मलस्य स्वच्छस्येत्यर्थात् । अत्र यशःशब्दस्य नित्यनपुंसकत्वात्तद्विशेषणे द्युतिपदे न गुमागमः । 'दधिदूर्वादी मङ्गले इतिवद्धहुव्रीहिः । अतीति । अतिधवलस्याप्यतिशुक्लस्यापि सर्वजनानां समग्रलोकानां रागकारिण इति विरोधः । तत्परिहारस्तु रागः स्नेहस्तत्कारिण इत्यर्थात् । अत्र सर्वत्रापिशब्दो विरोधद्योतको विशेषोक्तिर्वा । पातालेति । पातालं रसातलं तद्वदिव । उभयोः साम्यं प्रदर्शयन्नाह . आश्रित इति । क्षितिभृतो राजानः पर्वताश्च तेषु कुटिला वक्रास्तैराश्रित आसेवितः । उभयं विशिनष्टि - निजेति । निजा आत्मीया ये पक्षाः स्वजना वाजाश्च तेषां क्षितिः क्षयस्तया भीतास्त्रस्तास्तैः । नृपाः स्वराज्यक्षयभीत्या तमाश्रिताः । पर्वतास्तु पक्षक्षयभीता रसातलमिति भावः । ग्रह इति । ग्रहा नक्षत्राणि तेषां गणः समूहस्तद्वदिव । सर्वत्रैकविशेषणेन विशेषयन्नाह - बुधेति । बुधाः पण्डितास्तैरनुगतः सहितः । तदुक्तम्-'व्यवहारानृपः पश्येद्विद्वद्भिाहाणैः सह' इति । पक्षे बुधः सौम्यः । मकरेति । मकरध्वजः कन्दर्पस्तद्वदिव । उत्सन्नेति । उत्सन्न उच्छेदं प्राप्तो विग्रहः शरीरं यस्य - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प०-1 कीर्तेरित्यर्थः । 2 स्थिरं नित्यमिति बोध्यम् । 3 नित्यनपुंसकस्य यशसो विशेषणीभूतस्यापि 'मलिनी०...द्युतेः' इति पदस्य भाषितपुस्कतया पुंवद्धावान नुम्, अपि तु घित्वेन गुण इति तस्य तात्पर्यम् । 4 'क्षितिभृत्कुलैः' इति ग्रन्थोचितः पाठः । क्षितिभृतां राज्ञां पर्वतानां च कुलैरिति च तदर्थः । कुटिलैस्तु नाश्रयितुं शक्यते, इति तदाश्रयणवर्णन न स्वरसाय । 5 गरुतः 'पंख' इति हिन्दी । पाठा० - १ एकव्यसनिन्या. २ अनवरतम्; अविरतम्. ३ जलनिधिः. ४ पातालवत्. ५ क्षति. ६ क्षितिभृतां कुलैः; क्षितिभृत्कुलैः; क्षितिभृतः कुलैः. (उज्जयिनी । पूर्वभागः ।। 121
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy