________________
दक्षिणानिलेन निर्भय॑मानम्, मदकलकोकिलकुलकोलाहलैर्वसन्तजयशब्दकलकलैरिव मधुमासेनाकुलीक्रियमाणम्, प्रभातचन्द्रमिव पाण्डुतया परिगृहीतम्, निदाघगङ्गाप्रवाहमिव क्रेशिमानमागतम्, अन्तर्गतानलं चन्दनविटपमिव म्लायन्तम्, अन्यमिव, अदृष्टपूर्वमिव, अपरिचितमिव, जन्मान्तरमिवोपनतम्, रूपान्तरेणेव परिणतम्, आविष्टमिव, महाभूताधिष्ठितमिव, ग्रहगृहीतमिवोन्मत्तमिव, छलितमिवान्धमिव, बधिरमिव, मूकमिव, विलासमयमिव, मदनमयमिव, परायत्तचित्तवृत्तिं परां कोटिमधिरूढं मैदनावेशस्य, अनभिज्ञेयपूर्वाकारं तमहमद्राक्षम् ।
अपगतनिमेषेण चक्षुषा तदवस्थं चिरमुवीक्ष्य समुपजातविषादो वेपमानेन हृदयेनाचिन्तयम् - ‘एवं नामायमतिदुर्विषहवेगो मकरकेतुः, येनानेन क्षणेनायमीदृशमवस्थान्तरप्र -
***********
न्मत्ता ये मधुकरा भ्रमरास्तेषां निकरः समूहस्तस्य झंकारलक्षणा निस्वनाः शब्दास्तैः कृत्वा दक्षिणानिलेन निर्भय॑मानं तिरस्क्रियमाणम् । शब्दत्वसाम्यादाह-हुंकारैरिव । मादृश उद्दीपके विद्यमानेऽपि तव किं सुरतप्रारम्भो न भविष्यत्येवेति साभिमानैरित्यर्थः । मदेति । मदेन हर्षेण कला मनोहरा ये कोकिलाः पिकास्तेषां कुलं तस्य कोलाहलैः कलकलैः कृत्वा मधुमासेन चैत्रमासेनाकुलीक्रियमाणं व्याकुलीक्रियमाणम् । कोलाहलस्योद्दीपकत्वाप्रोत्साहकत्वसाम्येनाह - वसन्तेति । वसन्तस्य पुष्पकालस्य जयशब्दास्तेषां कलकलैरिव । प्रभातेति । प्रभातस्य प्रत्यूषस्य यश्चन्द्रः कुमुदबान्धवस्तमिव । उभयोः साम्यमाह - पाण्डुतेति । पाण्डुतया पाण्डुरत्वेन परिगृहीतं स्वीकृतम् । निदाघेति । निदाघो ग्रीष्मकालस्तस्मिन्यो गङ्गाप्रवाहः स्वधुनीरयस्तद्वदिव क्रशिमानं कृशत्वमागतं प्राप्तम् । अन्तरिति । अन्तर्गतो मध्यगतोऽनलो वह्निर्यस्मिन्नेवंभूतश्चन्दनविटपो मलयजतरुस्तद्वदिव म्लायन्तं म्लानतां गच्छन्तम् । पूर्वदृष्टावस्थाशून्यत्वादाह - अन्येति । अन्यमिव पूर्वस्माद्भिन्नमिव । असंभावितविकारवत्त्वादाह - अदृष्टेति । अदृष्टपूर्वमिवानवलोकितपूर्वमिव । अपेति । अपरिचितमिवासंस्तवमिव । जन्मेति । जन्मान्तरं भवान्तरमुपगतमिव प्राप्तमिव । रूपेति । प्रशमलक्षणं परित्यज्य सानुरागलक्षणेन रूपान्तरेण परिणतमिव तन्मयता गतमिव आविष्टमिव भूतोन्मादवातरोगाभिभूतमिव । महेति । महाभूतानि वेतालास्तैरधिष्ठितमिवाश्रितमिव । ग्रहेति । ग्रहाः पिशाचादयस्तैर्गृहीतमिवाधिष्ठितमिव, उन्मत्तमिव क्षीबमिव, छलितमिव छलनां प्राप्तमिव, अन्धमिव गताक्षमिव, बधिरमिवाकर्णमिव, मूकमिवास्फुटवाचमिव, विलासमयमिवानन्दमयमिव, मदनमयमिव कंदर्पमयमिव । परेति । परस्यां महाश्वेतायामायत्ता लग्ना चित्तवृत्तिर्यस्यैवंभूतम् । मदनः कंदर्पस्तस्यावेशोऽध्यासस्तस्य परामुत्कृष्टां कोटिमवस्थामधिरूढमारूढम् । अनेति । अनभिज्ञेयोऽनवसेयः पूर्वाकार आद्याकृतिर्यस्य स तम् । अन्वयस्तु प्रागेवोक्तः ।
अपेति । अपगतो निमेषो निमीलनं यस्यैवंभूतेन चक्षुषा नेत्रेण तदवस्थं पूर्वावस्थं चिरं चिरकालमुवीक्ष्य विलोक्य समुपजातः समुत्पन्नो विषादः खेदो यस्य सः । वेपेति । वेपमानेन कम्पमानेन हृदयेन चित्तेन अचिन्तयमध्यायम् । एवमिति । एवममुना प्रकारेण । नामेति कोमलामन्त्रणे । अयमतिशयेन दुर्विषहो दुःसहो वेगो यस्यैतादृशो मकरकेतुः कंदर्पो येन कारणेनानेनानङ्गेन क्षणेनायमीदृशमप्रतीकारमप्रतिक्रियमवस्थान्तरप्रकार - - टिप्प० -1 तिरस्कारपूर्वक भीष्यमाणमित्यर्थ उचितः । 2 मदकलाः मदोन्मत्ता इत्यर्थो वाच्यः । 3 चन्दनविटपो मलयजशाखेत्यर्थो वाच्यः, विटपपदस्य शाखावाचकत्वात् । 4 पूतनादय इत्यर्थो योग्यः, पौनरुक्त्यप्रसक्तेः । 5 अवस्थान्तरम् प्रकारश्चेत्येक एवार्थ इति नैवंविधमुदीरितं बाणस्य । अत एव - 'ईदृशमवस्थान्तर मप्रतीकारमुपनीतः' इत्येव पाठः एवं अर्वाचीनानामभिप्रायः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
--
पाठा० - १ शिमागतम्. २ मन्मथा.
328
कादम्बरी।
कथायाम्-)