________________
कारमप्रतीकारमुपनीतः कथमेवमेकपदे व्यर्थीभवेदेवंविधो ज्ञानराशिः । अहो बत महच्चित्रम्, तथा नामायमाशैशवाखीरप्रकृतिरस्खलितवृत्तिर्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयचरित आसीत् । अत्र त्वितर इव परिभूय ज्ञानमवगणय्य तपःप्रभावमुन्मूल्य गाम्भीर्यं मन्मथेन जडीकृतः । सर्वथा दुर्लभं यौवनमस्खलितम्' इति । उपसृत्य च तस्मिन्नेव शिलातलैकपाधै समुपविश्यांसावसक्तपाणिस्तमनुन्मीलितलोचनमेव 'सखे पुण्डरीक, कथय किमिदम्' इत्यपृच्छम् । अथ सुचिरसंमीलनालग्नमिव कथमपि प्रयत्नेनानवरतरोदनवशात्समुपजातारुणभावमश्रुजलपटेलपूरप्लावितमुत्कम्पितमिव सवेदनमिव स्वच्छांशुकान्तरितरक्तकमलवनच्छायं चक्षुरुन्मील्य मन्थरमन्थरया दृष्ट्या सुचिरं विलोक्य मामायततरं निःश्वस्य लज्जाविशीर्यमाणाक्षरम् ‘सखे कपिञ्जल, विदितवृत्तान्तोऽपि किं मां पृच्छसि' इति कृच्छ्रेण शनैः शनैरवदत् ।
***********
दशान्तरप्रकारमुपनीतः प्रापितः । उक्तविपर्यये दूषणमाह - कथमिति । एवंविधो ज्ञानराशिरेतादृशज्ञानसमूह एकपदे युगपत्कथमेवं व्यर्थीभवेत् । अत्र वितर्के प्रार्थनायां लिङ् । अहो इत्याश्चर्ये । बतेति खेदे । इदं महच्चित्रं महदाश्चर्यम् । तथा नाम तेन प्रकारेणायमा शैशवादाबाल्यान्मम चान्येषां च मुनिकुमारकाणां स्पृहणीयमभिलषणीयं चरितं यस्यैवविध आसीदभूत् । अथैनं विशिनष्टि - धीरेति । धीरा स्थिरा प्रकृतिः स्वभावो यस्य स तम् । अस्खलितेति । अस्खलिता अखण्डिता वृत्तिर्यस्य स तम् । अत्रं त्विति । अस्मिन्प्रदेश इतर इवान्य इवं ज्ञानं परिभूय तिरस्कृत्य तपःप्रभावं तपोमाहात्म्यमवगणय्यावगणनां कृत्वा गाम्भीर्यं गम्भीरतामुन्मूल्योच्छेद्य मन्मथेन कंदर्पण जडीकृतो जडतां नीतः । सर्वथेति । सर्वप्रकारेणास्खलितखण्डितं यौवनं तारुण्यं दुर्लभं दुःप्रापम् । उपेति । उपसृत्य समीपमागत्य तस्मिन्नेव शिलातलैकपाधै समुपविश्यांसे स्कन्धेऽवसक्तः स्थापितः पाणिः करो येन स तमनुन्मीलितलोचनमेव मुद्रितनेत्रमेवेत्यपृच्छं इत्यवोचम् । इतियोत्यमाह - सखे इति । हे सखे पुण्डरीक, कथय निवेदय किमिदम् । अथेति प्रश्नानन्तरम् । मन्थरमन्थरयालसालसया दृष्टया सुचिरं चिरकालं यावत् मां विलोक्य निरीक्ष्यायततरं दीर्घतरं निःश्वस्य चक्षुरुन्मील्य विमुग्र कथमपि महता कष्टेन । लज्जेति । लज्जया त्रपया विशीर्यमाणानि विदीर्यमाणान्यक्षराणि यस्मिन्निति क्रियाविशेषणम् । इति शनैः शनैर्मन्दं मन्दमवददवोचदित्यन्वयः। अथ चक्षुर्विशेषयन्नाह - सुचिरेति । सुचिरं चिरकालं यत्संमीलनं निमीलनं तेनालग्नमिवान्योन्यासंपृक्तमिव । प्रयत्नेन बलात्कारेणानवरतं निरन्तरं यद्रोदनमश्रुपातस्तद्वशात्समुपजातः समुत्पन्नोऽरुणभावो रक्तता यस्मिन् । अश्विति । अश्रुजलस्य नेत्राम्भसो यत्पटलं वृन्दं तस्य पूरो वृद्धिस्तेन प्लावितं व्याप्तमुत्कम्पितमिवोद्भूतमिव सवेदनमिव सव्यथमिव । अश्रूणां श्वेतत्वसाम्येनाह - स्वच्छेति । स्वच्छमतिनिर्मलं यदंशुकं वस्त्रं तेनान्तरितं व्यवहितं यद्रक्तकमलवनं तद्वच्छाया शोभा यस्मिन् । इतिवाच्यमाह - सखे इति । हे सखे कपिञ्जल, विदितवृत्तान्तोऽपि ज्ञातोदन्तोऽपि । विकारदर्शनादिति भावः । किं मां पृच्छसि किं प्रश्न करोषि ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० -1 वितर्कस्य न प्रार्थनमर्थः । न चात्र प्रार्थना, न किल कपिञ्जलेन प्रार्थते व्यर्थीभवेदिति । तस्मात् संभावनायां लिङ् । कथमिदं संभाव्यते इति तदाशयः । 2 'अय तु' इति पाठेऽधिकं स्वारस्यम्, प्रमाणमत्र सहृदयहृदयम् । 3 नास्ति स्खलितं सत्पथाद् भंशो यत्र तदस्खलितम् । 4 'संमीलनाल्लग्नमिव' इत्यपि पाठः । चिरकालपर्यन्तं मुद्रणवशात् लग्नमिव परस्परं संसक्तावरणद्वयमिव इति तदर्थः । 5 प्रयत्नेन उन्मील्य इत्यन्वयः ।
पाठा० - १ अद्य. २ उन्मील्य. ३ अनुन्मीलित; अहमसमुन्मीलित. ४ सन्मीलनालग्नम्. ५ उपजात. ६ वर्ष. ७ उत्कुपितम्. ८ मन्थरया. ९ विरलाक्षरम्.
(मदनार्तपुण्डरीकस्याऽवस्था
पूर्वभागः ।
329