SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ न्दानि बद्धसौभाग्यपट्टानीव दधानम्, कृतचन्दनबिन्दुविशेषकांश्च दिवापि स्पर्शलोभस्थितेन्दुप्रतिबिम्बानिव कपोलानुद्वहन्तम्, अपहृताशेषशिरीषसौभाग्याभिः शैवलमञ्जरीभिः कृतकर्णपूरम्, कर्पूरधूलिधूसरेषु मलयजरसलवटुंलितेषु बकुलावलीवलयेषु स्तनेषु न्यस्तनलिनीपत्रप्रावरणम्, अनवरतचन्दनचर्चाप्रणयनपाण्डुरैः संतापरोषमृदितारक्तचन्द्रकरैरिव करैः कल्पितमृणालदण्डानि बिसतन्तुमयानि चामराणि बिभ्राणम्, उन्नालैश्च कमलैः कुमुदैः कुवलयैः किसलयैः कदलीदलैः कमलिनीपलाशैः कुसुमस्तबकैश्चातपत्रीकृतैर्निवारितातपम्, जलदेवतानामिव समूहम्, वरुणश्रियामिव समागमम्, शरदामिव समाजम्, सरसीनामिव गोष्ठीबन्धम्, शिशिरोपचारनिपुणं कादम्बर्याः शरीरपरिचारकं शरीरप्राय परिजनमद्राक्षीत् । तेन च प्रणम्यमानः पादनखपतनभयादिव त्वरितापसृतेन दीयमानमार्गश्चन्दनपङ्ककृ - *********** चन्दनस्य मलयजस्य ललाटिका पुण्ड्रविशेषो येषु तानि । विविधवर्णसाम्यावद्धसौभाग्यपट्टानीव । कृतेति । कृता विहिता चन्दनविन्दुभिविशेषका येषु तान् । 'चित्रं पुण्ड्रविशेषकाः' इति कोशः । दिवापि दिवसेऽपि स्पर्शलोभेन स्थित इन्दुप्रतिबिम्बो येष्वेवंविधानिव कपोलानुद्वहन्तम् । अपेति । अपहृतं दूरीकृतमशेष समग्रं शिरीषस्य वृक्षविशेषस्य सौभाग्यं याभिरेवंभूताभिः शैवलमञ्जरीभिर्जलशूकवल्लरीभिः कृतः कर्णर येन स तम् । स्तनेषु कुचेषु न्यस्तं स्थापितं नलिनीपत्राणां प्रावरणमुत्तरीयकं येन स तम् । अथ च स्तन विशेषयन्नाह - कर्पूरति । कर्पूरस्य घनसारस्य धूली रजस्तया धूसरेष्वीषत्पाण्डुषु, मलयजरसलवैश्चन्दनद्रवलेशैलुलितेष्वेकीभूतेषु । बकुलावलीना केसरराजीनां वलयानि येषु ते तथा तेषु । पुनः कीदृशम् । करैः करणभूतैश्चामराणि विभ्राणम् । कीदृशैः करैः । प्रियविरहेण संतापरोषाभ्यां मृदिता मर्दिता आरक्ता नवोदिताश्चन्द्रकरास्तैरिवानवरतं निरन्तरं चन्दनचर्चा तस्याः प्रणयन प्रापण तेन पाण्डुरैः । कीदृशानि चामराणि । कल्पित इति । कल्पितो विहितो मृणालानां दण्डो येषु तानि । पुनः किंविशिष्टानि । बिसानां तन्तवस्तन्मयानि तनिर्मितानि । उन्नालैः कमलैः, कुमुदैः कैरवैः, कुवलयैरुत्पलैः, किसलयैः पल्लवैः, कदलीदलै रम्भापत्रैः, कमलिनीप शशैः पद्मिनीपत्रैः । 'पत्रं पलाशं छदनम्' इति कोशः । कुसुमस्तवकैः पुष्पगुच्छैः । 'गुच्छस्तबकगुच्छकाः' इति कोशः । एतैश्चातपत्रीकृतेश्छत्रीकृतैर्निवारितो दूरीकृत आतपः सूर्यालोको यस्य स तम् । जलदेवतानां जलाधिष्ठात्रीणां समूहमिव । सर्वदा जलक्लिनदेहत्वादिति भावः । वरुणः प्रचेतास्तस्य श्रियां समागममेकीभवनमिव । वरुणस्यापि जलाधीशत्वेन तस्य श्रियामप्यतिशीतलत्वात्तदुपमानम् । शरदां घनात्ययानां समाजमिव परिषदमिव । तासामपि शीतलत्वात्तदुपमानम् । सरसीनां सरता गोप्टीवन्धमिव । एकत्रीभूयोपवेशनं गोष्ठीबन्धः । कीदृशम् । शिशिरोपचाराः शीतलोपचारास्तत्र निपुणं दक्षं शरीरप्रायमित्यन्तरं गत्वा चोक्तं कादम्बरीपरिजनमद्राक्षीदित्यन्वयस्तु प्रागेवोक्तः । इदानी समयोद्यानायुद्दीपनविभावान्वर्णयन्नाह - तेन चेति । तेन परिजनेन प्रणम्यमानो नमस्क्रियमाणः । कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिरिदं वक्ष्यमाणं सर्वं दृष्टवानित्यन्वयः । कीदृशः । प्रणामेन पादनखस्यैव कोमलत्वात्पतनं भविष्यतीति शङ्कया त्वरितमपसृतः परिजनस्तेन दीयमानो मार्गो यस्य सः । इतः कदलीतोरणं विशेषयन्नाह - चन्दनेति । चन्दनपङ्केन मलयजकर्दमेन कृता वेदिका येषाम् । टिप्प० - 1 कृताश्चन्दनबिन्दव एव विशेषकास्तिलका येषु तान् । अत एव दिवापि स्पर्शलोभेन स्थिता इन्दोश्चन्द्रस्य प्रतिविम्वा येषु तान (कपोलान्) । रात्रौ तु चन्द्रोदयादिन्दुप्रतिबिम्बाः संभवन्त्येव, परं चन्दनबिन्दवस्तथा प्रतीयन्ते यथा स्पर्शलोभवशादिनेऽपि चन्द्रस्य प्रतिविम्वाः स्थिता ईत्यर्थः । मण्डलाकाराणा चन्दनबिन्दूना चन्द्रविम्बेन साम्यादियमुत्प्रेक्षा । 2 चन्दनपङ्कन लिप्तीकृता वेदिकाः परिष्कृतभूमयः (बद्धतलभूमयः) येषां तेषाम् (तोरणानाम्) । पाठा० - १ पदानि. २ कपोलफलकाम्. ३ ललितेषु. ४ बकुलावलयिषु; कुवलयावलिषु; ललितकुवलयेपु. ५ पयोधरेषु. ६ प्रणय. ७ प्रकटिनचन्द्रकरः: मृदिनचन्द्रकरः . ८ शरीरपरिचारिकाप्रायम्. ९ पादतलः पादनखतपनदाह. कादम्बरीभवने शीतोपचारसज्जा पूर्वभागः । SA 437)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy