________________
1
चन्द्रापीडस्तदाकर्ण्य जिगमिषुः 'अश्वोऽश्वः' इति वदन्भवनान्निर्ययौ । आरोपितपर्याणं च त्वरिततुरगपरिचारकोपनीतमिन्द्रायुधमारुह्य, पश्चादारोप्य पत्रलेखाम्, स्कन्धावारे संस्थापयित्वा वैशम्पायनम्, अशेषपरिजनं निवर्त्य च, अन्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूटं ययौ । आसाद्य च कादम्बरी भवनद्वारमवततार । अवतीर्य द्वारपालार्पिततुरङ्गः कादम्बरीप्रथमदर्शनकुतूहलिन्या च पत्रलेखया चानुगम्यमानः प्रविश्य 'क्व देवी कादम्बरी तिष्ठति' इति संमुखागतमन्यतमं वर्षधरमप्राक्षीत् । कृतप्रणामेन च तेन 'देव, मत्तमयूरस्य क्रीडापर्वतकस्याधस्तात्कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्ते' इत्यावेदिते केयूरकेणोपदिश्यमानवर्त्मा प्रमदवनमध्येन गत्वा किंचिदध्वानम्, मरकतहरितानां कदलीवेनानां प्रभया शष्पीकृतरविकिरणं हरितायमानं दिवसं ददर्श । तेषां च मध्ये निरन्तरनलिनीदलच्छन्नं हिमगृहमपश्यत् । तस्माच्च निष्पतन्तमार्द्राशुकच्छलेनाच्छोदजलेनेव संवीतम्, बाहुलताविधृतैर्मृणालवलयैराभरणकैरिव धवलितावयवम्, आपाण्डुभिश्चैकश्रवणाश्रयैस्तौडङ्कीकृतैः केतकीगर्भदलैरुपहसितदन्तपत्रम्, आलिखितचन्दनललाटिकानि मुखारवि -
436
**
चन्द्रापीडस्तदाकर्ण्य श्रुत्वा जिगमिषुर्गन्तुमिच्छुरश्वोऽश्व इति वदन्ब्रुवन्भवनाद्गृहान्निर्ययौ निर्जगाम । आरोपितं स्थापितं पर्याणं पल्ययनं यस्मिन्नेतादृशं त्वरितं शीघ्रं तुरगपरिचारकेणोपनीतमानीतमिन्द्रायुधमारुह्यारोहणं कृत्वा पत्रलेखां पश्चात्पृष्ठभाग आरोप्य स्थापयित्वा स्कन्धावारे सैन्यवेशे वैशम्पायनं संस्थापयित्वा शेषपरिजनं समग्रपरिच्छदं निवर्त्य पश्चाद्व्याघुट्यान्यतुरगारूढेनैव केयूरकेणानुगम्यमानो हेमकूट ययो । कादम्बरीभवनद्वारमासाद्य प्राप्यावततारोत्तीर्णवांश्च । अश्वादिति शेषः । अवतीर्य च द्वारपालस्यार्पितस्तुरङ्गो येन स तथा कादम्बर्या प्रथमदर्शनं तत्र कुतूहलं विद्यते यस्या एवंविधया पत्रलेखयानुगम्यमानः प्रविश्य क्व देवी कादम्बरी तिष्ठतीति संमुखागतमन्यतमं वर्षधरं कञ्चुकिनमप्राक्षीत्पप्रच्छ । तेन कृतप्रणामेन चेत्यावेदिते कथिते सति । इतिशब्दद्योत्यमाह - देवेति । हे देव, मत्तमयूरकाभिधानस्य क्रीडापर्वतकस्याधस्तादधोभागवर्तिनि कमलवनदीर्घिकातीरे विरचितं हिमगृहमध्यास्तेऽधितिष्ठति । 'उपान्चध्यावसः' इत्यधिकरणे द्वितीया । केयूरकेणोपदिश्यमानः प्रदर्श्यमानो वर्त्म मार्गो यस्य स तथा, प्रमदवनमध्येन किंचिदध्वानं मार्गं गत्वा मरकतबद्धरितानां नीलाना कदलीवनानां रम्भाकाननानां प्रभया कान्त्या शष्पीकृतानि बालतृणीकृतानि रविकिरणानि सूर्यरश्मयो यस्मिन्नत एव हरितायमानं नीलायमानं दिवसं दिनं ददर्शेक्षांचक्रे । तेषां च कदलीवनानां मध्ये निरन्तर नलिनीदलैः कमलिनीपत्रैश्छन्नमाच्छादितं हिमगृहमपश्यदैक्षत । तस्माच्च गृहान्निष्पतन्तं वहिर्गच्छन्तं कादम्वर्याः शरीरपरिचारकं परिजनमद्राक्षीद्दृष्टवान् । अथ तस्याः परिचारकं विशेषयन्नाह - आर्द्रेति । आर्द्र स्तिमितं यदंशुकं वस्त्रं तस्य च्छलेन श्वेताह्लादकत्वसाम्यादाह - अच्छोदेति । अच्छोदजलेनेव संवीतं रुद्धम् । 'संवीतं रुद्धमावृतम्' इति कोशः । वाहुलताविधृतैर्भुजलतास्थापितैर्मृणालवलयैस्तन्तुलकटकैराभरणकैरिव विभूषणैरिव धवलीकृताः शुभ्रीकृता अवयवा अपघा यस्य स तम् । आपाण्डुभिरीषच्छ्रेतैरेक श्रवण एवैककर्ण एवाश्रयोऽधिकरणं येषां तैस्ताङङ्कीकृतैस्ताडपत्रीकृतैरेवंविधैः केतकीगर्भदलैरुपइसितानि दन्तपत्राणि येन स तम् । पुनः किं कुर्वाणम् । दधानं विभ्राणम् । कानि मुखान्येवारविन्दानि कमलानि । कीदृशानि । आलिखिता
टिप्प० 1 सोपसर्गत्वात् 'संस्थाप्य' इति पदयोजना व्याकरणसंगता । 2 रविकिरणा इत्यर्थः । 3 आवृतदेहमित्यर्थ उचितः ।
पाटा - १ अथ चन्द्रापीडः, २ वदन्पूर्ववृत्तचमत्कृतचेताः ३ त्वरितपरिचारक. ४ नृत्यमयूरस्य ५ दलानाम्. ६ ताटकीकृतः; तालङ्कीङ्कृतैः.
-
**
कादम्बरी |
कथायाम्