SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ कुसुमधूलिसिकतिले गिरिनदिकातटे भगवानर्चितः शूलपाणिः, अत्र हेपितशशधररोचिषि स्फटिकशिलातले भुक्तम्, अत्र संक्रान्तचन्दनरसलाञ्छने मुक्ताशैलशिलापट्टे सुप्तम्' इति परिजनेन पुनरुक्तं निवेद्यमानानि देवस्यैव स्थानचिहानि पश्यन्ती क्षपितवती दिवसम् । दिवसावसाने च कथमपि महाश्वेताप्रयत्नादनभिमतमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारमकरोत् । अस्तमुपगते च भगवति, रवावुदिते चन्द्रमसि, तत्रैव कंचित्कालं स्थित्वा चन्द्रकान्तमयीव चन्द्रोदये प्रत्यार्दीकृततनुश्चन्द्रबिम्बप्रवेशभयेनेव करौ कपोलयोः कृत्वा किमपि चिन्तयन्ती मुकुलितेक्षणा क्षणमात्रं स्थित्वोत्थाय विमलनखनिपतितशशिप्रतिमाभरगुरूणीव कृच्छ्रादुत्क्षिपन्ती लीलामन्थरगमनपटूनि पदानि शय्यागृहमगात् । शयननिक्षिप्तगात्रयष्टिश्च ततःप्रभृति प्रबलया शिरोवेदनया विचेष्टमाना दारुणेन च दाहरूपिणा ज्वरेणाभिभूयमाना केनप्याधिना मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितलोचना दुःखदुःखेन क्षणदामनैषीत् । उषसि मामाहूय देवस्य वार्ताव्यतिकरोपालम्भाय सोपालम्भमादिष्टवती । *********** भगवाञ्शूलपाणिरर्चितः पूजितः । अत्रेति । अस्मिन्हेपिता लज्जिता शशधरस्य रोचिर्येन तस्मिन्स्फटिकशिलातले भुक्तम् । अत्रेति । अस्मिन्संक्रान्तः प्रतिबिम्बितो यश्चन्दनरसः स एव लाञ्छनं चिह्न यस्मिन्नेवंविधे मुक्ताशैलशिलापट्टे सुप्तमिति परिजनेन पार्श्ववर्तिसेवकलोकेन देवस्य भवत एव स्थानचिह्नानि । पुनरुक्तं पृथक्पृथनिवेदनादिति भावः । निवेद्यमानानि कथ्यमानानि पश्यन्ती विलोकयन्ती दिवसं वासरं क्षपितवती क्षयं नीतवती । दिवसावसाने च दिनप्रान्ते च कथमपि महता कष्टेन महाश्वेताप्रयत्नादनभिमतमप्यसमीहितमपि तस्मिन्नेव स्फटिकमणिशिलावेश्मन्याहारं भोजनमकरोदकल्पयत् । अस्तमिति । अस्तमुपगते प्राप्ते च भगवति माहात्म्यवति रवौ सूर्ये, चन्द्रमसि कुसुमबान्धव उदितं उदयं प्राप्ते सति, तत्रैव तस्मिन्प्रदेशे कंचित्कालं स्थित्वावस्थानं कृत्वा चन्द्रकान्तश्चन्द्रमणिस्तन्मयीव अतएव चन्द्रोदये प्रत्यार्दीकृता तनुर्यस्याः सा तथा चन्द्रबिम्बस्य यः प्रवेशस्तस्य भयं तेनेव कपोलयोः करौ कृत्वा किमपि चिन्तयन्ती ध्यायन्ती मुकुलितेक्षणा कुङ्मलितलोचना क्षणमात्र स्थित्वा तत उत्थाय । विमलेति । विमला निर्मला ये नखास्तेषु निपतिता याः शशिप्रतिमाश्चन्द्रप्रतिबिम्बानि तासां भरस्तेन गुरूणीव लीलामन्थरं यद्गमनं तत्र पनि पदानि चरणन्यासानि कृच्छ्रात्कष्टादुत्क्षिपन्त्युत्क्षेपं कुर्वन्ती शय्यागृह शयनसद्मागादगमत् । शयने तल्पे निक्षिप्ता स्थापिता गात्रयष्टिर्यया सैवंविधा च । ततःप्रभृति तद्दिनादारभ्य प्रबलया तीव्रया शिरोवेदनया विचेष्टमाना व्याकुलीक्रियमाणा दाहरूपिणा दारुणेन तीव्रेण च ज्वरेण तापेनाभिभूयमाना पराभूयमाना केनाप्याधिना मानसीव्यथया मङ्गलप्रदीपैः कुमुदाकरैश्चक्रवाकैश्च सार्धमनिमीलितेऽमुद्रिते लोचने यस्याः सा तथा । अथ कुमुदानां रात्री विकासाच्चक्रवाकाना च वियोगवशादनिमीलनमिति भावः । दुःखदुःखेन । अतिदुःखेनेति भावः । क्षणदां रात्रिमनैषीदयापयद् गमयामास । उषसि च प्रभाते ममाहूयाह्वानं कृत्वा देवस्य वार्ताव्यतिकरेण भवदृत्तान्तसमूहेन हेतुभूतेन उपालम्भीय सोपालम्भं यथा स्यात्तथादिष्टवती कथितवती । टिप्प० - 1 तत्कालादारभ्य । 2 'व्यतिकरोपलम्भाय' इत्युचितः पाठः, वृत्तान्तव्यापाप्राप्तये सोपालम्भं सप्रतिक्षेपम् ('उचितज्ञोऽपि संभावित-महोदारस्यातिथेः राजकुमारस्य कुशलप्रवृत्तिमानेतुं न गच्छसि इति) आदिष्टवतीति तदर्थः । - - - - - - - - - - - - - - - - - - - - - पाटा० - १ सिकताकदामलांगरि. २ नदीकाननतटे. ३ शिलापट्टशयनीये. ४ क्षिप्त. ५ व्याधिना. चन्द्रापीडस्य पुनः कादम्बरीभवने प्रयाणम् मागः । 435
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy