________________
तवेदिकानां पुण्डरीककलिकाघटितघण्टिकानां विकसितसिन्दुवारकुसुममञ्जरीचामराणां लम्बितस्थूलमल्लिकामुकुलहाराणामाबद्धलवङ्गपल्लवचन्दनमालिकानां दोलायमानकुमुददामध्वजानां मृणालवेत्रहस्ताभिर्गृहीतरुचिरकुसुमाभरणाभिर्मधुलक्ष्मीप्रतिकृतिभिरिव द्वारपालिकाभिरधिष्ठितानां कदलीतोरणानां तलेन प्रविश्य सर्वतो निसृष्टदृष्टिदृष्टवान्क्वचिदुभयतटनिखाततमालपल्लवकृतवनलेखाः कुमुदधूलिवालुकापुलिनमालिनीश्चन्दनरसेन प्रवर्त्यमाना गृहनदिकाः, क्वचिनिचुलमञ्जरीरचितरक्तचामराणां जलार्द्रवितानकानां तलेषु सिन्द्रकुट्टिमेष्वास्तीर्यमाणानि रक्तपङ्कजशयनानि, क्वचिदेलारसेन सिच्यमानानि स्पर्शानुमेयरम्यभित्तीनि स्फटिकभवनानि, क्वचिच्छिरीषपक्ष्मकृतशाद्वलाना मृणालधारागृहाणां शिखरमारोप्यमाणानां धाराकदम्बधूलिधूसरितानि यन्त्रमयूरकाणां कदम्बकानि, क्वचित्सहकाररससिक्तैजम्बूपल्लवैराच्छाद्यमानाभ्यन्तराः पर्णशालाः, क्वचित्क्रीडितकृत्रिमकरिकलभयूथकाकुलीक्रियमाणाः काञ्चनक -
***********
कलिकानां वाद्यघण्टिकानुकारादाह - पुण्डरीकेति । पुण्डरीकाणि सिताम्भोजानि तेषां कलिकाभिर्घटिता निर्मिता घण्टिकाः किङ्किण्यो येषाम् । विकसितानि विमुद्राणि सितानि सिन्दुवारस्य निर्गुण्ड्याः कुसुमानि तेषां मञ्जरीणां चामराण्यातपत्राणि येषाम् । लम्बिताः स्थूलमल्लिकामुकुलानां हारिणो हारा येषाम् । आबद्धा लवङ्गं देवकुसुमं तस्य पल्लवा येष्वेवंविधा चन्दनमालिका तोरणार्थे मङ्गल्यं दाम येषाम् । 'तोरणार्थे तुं मङ्गल्यं दाम चन्दनमालिका' इति कोशः । दोलेति । दोलायमानाः कम्पमानाः कुसुमदामध्वजा येषाम् । मृणालेति । मृणालानां तन्तुलानां वेत्रं हस्ते यासां ताभिर्गृहीतानि स्वीकृतानि रुचिराणि मनोहराणि कुसुमाभरणानि पुष्पविभूषणानि याभिः । मध्विति । मधुलक्ष्म्या वसन्तश्रियः प्रतिकृतिभिः प्रतिरूपाभिरेवंविधाभिरपालिकाभिरधिष्ठितानामाश्रितानाम् । सर्वं दृष्टवानिति पूर्वोक्तं स्पष्टीकुर्वनाह - क्वचिदिति । कस्मिंश्चिप्रदेश उभयतटे निखाता आरोपिता ये तमालपल्लवास्तापिच्छकिसलयास्तैः कृता वनलेखा काननवीथी यासा ताः । कुमुदानां धूलिः परागः सैव वालुका सिकता तस्याः पुलिनं जलोज्झित सैकतं मालत इत्येवंशीलाश्चन्दनरसेन मलयजद्रवेण प्रवर्त्यमाना विस्तार्यमाणा गृहनदिका भवनसरितः । क्वचिदिति । निचुलमञ्जरी हिज्जलवल्लरी तथा रचितानि रक्तचामराणि येषामेतादृशानां जलार्द्रवितानकानामम्भःक्लिनोल्लोचानां तलेषु सिन्दूर नागज तेन सहवर्तमानेषु कुट्टिमेष्वास्तीर्यमाणानि विस्तीर्यमाणानि रक्तपङ्कजशयनानि लोहितकमलशयनानि । क्वचिदिति । एला चन्द्रवाला तस्या रसेन सिच्यमानानि सेचनक्रियाविषयीक्रियमाणानि स्पर्शेन करसंस्पर्शनानुमेया अनुमातुं योग्या रम्या मनोहरा भित्तयः कुड्यानि येषामेवंविधानि स्फाटिकभवनानि । क्वचिदिति । कस्मिंश्चिप्रदेशे शिरीषः कपीतनस्तस्य पक्ष्मभिः कोमलकेसरैः कृतशाद्वलानां विहितशादहरितानां मृणालधारागृहाणां बिसयन्त्रसद्मनां शिखरं प्रान्तमारोप्यमाणानामुपरिष्टान्नीयमानानां धाराकादम्बानां धूलिभी रजोभिधूसरितानि यन्त्रगृहवर्तिमयूरकाणां कदम्बकानि मण्डलानि । क्वचिदिति । सह - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० - 1 यासु इति स्त्रीत्वं वाच्यम् । यासु (चन्दनमालिकासु) लवङ्गपल्लवा आबद्धा ईदृश्यश्चन्दनमालिकाः (तोरणलम्बितानि पुष्पदामानि) येषु तेषाम् । 2 कुसुमदामान्येव ध्वजा येषाम् । 3 कुमुदानां धुलिरेव वालुका तस्याः (अर्थात्तनिर्मिता) पुलिनमाला सैकतश्रेणिर्यासां ता इति सरलोऽर्थः । 4 जलार्द्राणा चन्द्रातपानाम् 'चँदो वा । 5 स्फटिकानां पारदर्शकत्वात्तद्भित्तयो न द्रष्टुं शक्याः किन्तु स्पर्शानुमेयाः 6 यन्त्रात्मकमयूराणाम् (यन्त्रनिर्मितमयूराणाम् । मृणालयुक्तजलधारागृहाणां शिखरे (पुष्ठे) परिचारिकाभिर्यन्त्रमयूरा नीता ये हि जलधारासमूहानां क्षौदैर्धूसरिता इत्यर्थः ।
पाटा० - १ प्रकृतिभि. २ जलाद्रीकृत. ३ ससिन्दूर. ४ स्पर्शानुमेयभित्तीनि;, स्पर्शानुमेयरम्यस्थितिप्रदेशानि. ५ अभ्रः, अभ्रक. ६ धूसराणाम्; धूसरितानाम्. ७ तरुसक्तैः.
438
( कादम्बरी ।
कथायाम्