________________
मलिनिकाः, क्वचिद्गन्धोदककूपेषु बद्धकाञ्चनसुधापङ्ककामपीठेषु स्थूलबिसलतादण्डघटितारकाणि कृतकेतकदलद्रोणिकानि कुवलयावलीरज्जुभिग्रंथ्यमानानि पत्रपुटघटीयन्त्रकाणि, क्वचित्स्फटिकबलाकावलीवान्तवारिधारा लिखितेन्द्रायुधाः संचार्यमाणा मायामेघमालाः, क्वचिदुपान्तरूढयवाङ्कुराँसु तरतरुणमालतीकुड्मलदन्तुरिततरङ्गासु हरिचन्दनद्रववापिकासु शिशिरीक्रियमाणा हारयष्टीः, क्वचिन्मुक्ताफलक्षोदरचितालवालकानंनवरतस्थूलजलबिन्दुदुर्दिनमुत्सृजतो यन्त्रवृक्षकान्, क्वचिद्विधुतपक्षनिक्षिप्तसीकरानीतनीहारा भ्रमन्तीर्यन्त्रमयीः पत्रशकुनिश्रेणीः, क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतराबध्यमानाः कुसुमदामदोलाः, क्वचिदुदरारूढनिर्गतोत्तोलनलिनीच्छदाच्छादितमुखान्प्रवेश्यमानाशीतकुम्भान्, क्वचिद्धटितकदलीगर्भस्तम्भ -
***********
कारा आम्रास्तेषां रसैः सिक्तैः सिञ्चितैर्जम्बूपल्लवैराच्छाद्यमाना अभ्यन्तराः पर्णशाला उटजाः । क्वचिदिति । क्रीडितुं यत्कृत्रिमं निर्मितं करिकलभयूथक तेनाकुलीक्रियमाणाः काञ्चनकमलिनिकाः सुवर्णनलिन्यः । कप्रत्यये च सर्वत्र ह्रस्वत्वम् । गन्धोदकस्य सगन्धजलस्य कूपेषूदपानेषु । कीदृशेषु । बद्धः काञ्चनस्य सुवर्णस्य सुधा गृहधवलीकरणद्रव्यं तस्य पङ्कः कर्दमस्तेन काममत्यर्थं पीठं येषु, स्थूलो यो बिसलताया दण्डस्तेन घटिता अरका येषु, कृतानि केतकदलानां द्रोणिकानि भाजनविशेषाणि येषु, कुवलयानामुत्पलानामावल्यः पङ्क्तयस्ता एव रज्जवस्तैग्रंथ्यमानानि बध्यमानान्येवंविधानि पत्रपुटलक्षणानि घटीयन्त्रकाण्युद्धाटकानि । क्वचिदिति । स्फटिकस्य बलाका बिसकण्ठिकास्तासामावलीभिर्वान्ता मुक्ता वारिधारा जलधारा यासु, लिखितानीन्द्रायुधानि शक्रचापानि यासु, एवंविधाः संचार्यमाणाः प्रेर्यमाणा मायामेघमालाः कृत्रिमजल(द)पङ्क्तयः । क्वचिदिति । उपान्ते समीपे रूढा यवाङ्कुरा यासु, तरन्ति तरुणमालतीकुड्मलानि तैर्दन्तुरितास्तरंगाः कल्लोला यासु, हरिचन्दनस्य तैलपर्णिकस्य द्रवस्तस्य वापिकासु क्षुद्रपिकासु शिशिरीक्रियमाणाः शीतलीक्रियमाणा हारयष्टीर्मुक्ताकलापान् । एतेन विरहाधिक्यं वर्णितम् । क्वचिदिति । मुक्ताफलं रसोद्भवं तस्य क्षोदेन चूर्णेन रचितं निर्मितमालवालकमावापस्थानकं येषां ताननवरतं निरन्तरं स्थूला जलबिन्दवस्तेषां दुर्दिनमुत्सृजत उत्प्राबल्येन मुञ्चतः कुर्वतः एवं विधान्यन्त्रवृक्षकान्कृत्रिममहीरुहान् । क्वचिदिति । विधुताः कम्पिता ये पक्षास्तैर्निक्षिप्ता ये सीकरास्तैरानीतो नीहारो हिमं याभिस्ता भ्रमन्तीभ्रंमणं कुर्वन्तीः । एवंविधा यन्त्रमयीः पत्रशकुनिश्रेणीः । क्वचिदिति । मधुकरा भ्रमरा एव किङ्किण्यः क्षुद्रघण्टिकास्तासां पङ्क्तिः श्रेणी तया पटुंतरं स्पष्टं यथा स्यात्तथा बाध्यमाना निरुध्यमाना कुसुमदामदोलाः पुष्पस्त्रक्प्रेङ्खाः । क्वचिदिति । उदरे मध्य आरूढा निर्गता उद्गताः सुवर्णकलशादुत्तालोर्ध्वमुखी या नलिनी तस्याश्छदानि दलानि तैराच्छादितं पिहितं मुखं येषां तान्प्रवेश्यमानान्गृहान्तीयमानाशातकुम्भान् । क्वचिदिति । घटिता कदलीगर्भस्तम्भा एव -
- टिप्प० -1 चक्रान्तर्गतानि काष्ठनिर्मितान्यवयवानि, 'अरा' इति भाषा 1 2 'कृतकानि इत्युचितः पाठः । कृत्रिमाणि केतकदलानि (केतकपत्राणि) एव जलद्रोणिका जलाधारविशेषा येषु तानि । शिशिरोपचारवर्णनेऽस्मिन् सुगन्धिजलभृताः कूपा अपि तथा कृता येषामुपरि पत्रपुटरूपान् घटान् वहन्ति यन्त्राणि ('अरहट'), जलाधारा अपि केतकपत्रैः कृतानीत्याद्यर्थो बोध्यः । निर्माणकौशलेनैव परिचाल्यमानाः । 4 'क्वचिन्मधुकरकिङ्किणीपङ्क्तिपटुतररवा वध्यमानाः' इत्युचितः पाठः । मधुकरा एव किङ्किण्यास्तासां पङ्क्तेः पटुतरो रवः (शब्दः) यासु ताः । परिचारिकाभिर्बध्यमानाः (कुसुमदामनिर्मिता दोलाः) । 5 'शातकुम्भकुम्भान्' इत्युचितः पाठः । शातकुम्भस्य सुवर्णस्य कलशान, येषामुदरेषु नलिन्यः उत्पन्नास्ततश्च मुखेभ्यो बहिः उन्नालास्ता निर्गताः, तत्पत्रैः कुम्भमुखमाच्छन्नम् । शैत्यार्थं शोभार्थं च वृक्षाधारविशेषः ।
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
पाटा० - १ घटितदण्डारकाणि. २ कृतक; कनक. ३ जलद्रोणिकानि. ४ कमलपत्रपुट. ५ बलाकावलीः. ६ प्ररूढ. ७ पाण्डुयवाफुरसु. ८ सितरक्त. ९ अनवरतचन्दनरसस्थूल. १० पत्रवृक्षकान्. ११ पटुरवबोध्यमानाः; पटुतररवाबोध्यमानाः. १२ उन्नाल. १३ शातकुम्भकुम्भान्.
कादम्बरीभवने शीतोपचारसज्जा
पूर्वभागः ।
439