________________
अपि नाम मामिर्वायमिन्दुहतकस्तमपि किरैणकचग्रहाकृष्टमभिमुखमानयेत्' इत्येवंवादिनीं च मामैसौ विहस्याब्रवीत् ‘भर्तेदारिके, मुग्धासि । किमस्य तेन जनेन । अयमात्मनैव तावन्मदनातुर इव भर्तुदारिकायास्तास्ताश्चेष्टाः करोति । तथा हि - प्रतिबिम्बच्छलेन स्वेदसलिलॅकणिकाञ्चितं चुम्बति कपोलयुगलम् । लावण्यवति पयोधरभारे निपतति प्रस्फुरितकरः । स्पृशति रशनामणीन् । निर्मलनखलग्नमूर्तिः पादयोः पतति । किं चास्य मदनातुरस्येव वपुस्तापाच्छुष्कचर्दनानुलेपपाण्डुतां वहँति । मृणालवलयधवलान्करान्धत्ते । प्रतिमाव्याजेन स्फटिकमणिकुट्टिमेषु निपतति । केर्तकीगर्भकेसरधूलिधूसरपादः कुमुदसरांस्यवगाहते । सलिलसीकरार्द्राञ्शशिमणीन्करैरामृशति । द्वेष्टि विघटितचक्रवाकमिथुनानि कमलवनानि । एतैश्चान्यैश्च तत्कालोचितैरालापैस्तया सह तमुद्देशमभ्युपागमम् । तत्र च मार्गलताकुसुमरजो
1
**:
**
अयमिन्दुहतको मामिव तमपि पुण्डरीकमप्यभिमुखं संमुखमानयेत्प्रापयेत् । कीदृशम् । किरणैः पादैर्यः कचग्रहः केशग्रहस्तेनाकृष्टमाकर्षितम् । एवंवादिनीमेवंब्रुवाणां च मामसौ तरलिका विहस्य हास्यं कृत्वाब्रवीदवोचत् । हे भर्तृदारिके, त्वं मुग्धासि । अस्य चन्द्र तेन जनेन पुण्डरीकाख्येन किम् । कृत्यमिति शेषः । अयं चन्द्रहतक आत्मनैव स्वयमेव मदनातुर इव कंदर्पपीडित इव भर्तृदारिकाया भवत्यास्तास्ताश्चेष्टाः कायव्यापारान्करोति विदधाति । एतदेव दर्शयति - तथा हीति । प्रतीति । प्रतिबिम्बच्छलेन प्रतिच्छायामिषेण कपोलयुगलं चुम्बति चुम्बनं करोति । तदेव विशिनष्टि - स्वेदेति । स्वेदसलिलस्य धर्मजलस्य कणिका विप्रुषस्ताभिरञ्चितं व्याप्तम् । एतेन कपोलयोः स्वच्छता विरहतप्तिश्च व्यज्यते । लावण्येति । लावण्यं लवणिमा विद्यते यस्मिन्नेवंभूते पयोधरभारे प्रस्फुरितः प्रकम्पितः करो येनैवंविधो निपतति । एतेन पयोधरयोर्जडत्वं परिणाहविशेषश्च द्योत्यते । स्पृशतीति । रशना कटिमेखला तस्या मणीरत्नानि स्पृशत्याश्लिषति । निर्मलेति । निर्मलाः स्वच्छा ये नखास्तत्र लग्ना मूर्तिर्यस्यैवंभूतः सन् पादयोः पतति । चन्द्रस्य कामुकत्वाभिव्यञ्जकत्वमाह - किं चेति । अस्य चन्द्रस्य मदनातुरस्येव वपुः शरीरं तापाच्छुष्को यश्चन्दनानुलेपस्तद्वत्पाण्डुतां शुभ्रतां वहति । मृणालेति । मृणालानि बिसानि तेषां वलयानि तद्वद्वबलान्करौन्हस्तान्धत्ते धारयति । प्रतिभेति । प्रतिमाव्याजेन प्रतिबिम्बच्छलेन स्फटिकमणीनां कुट्टिमानि तेषु निपतति । केतकीति । केतक्याः प्रसिद्धाया या गर्भकेसरधूलिस्तद्वद्धूसरो पादौ यस्यैवंभूतः कुमुदसरांसि कैरवोपलक्षिततडागान्यवगाहते । सलिलेति । सलिलस्य जलस्य सीकरा वाताहतकणास्तैरार्द्राञ्शशिमणींश्चन्द्रकान्तान्करैर्हस्तैर्मृशति परामृशति । विघटितेति । विघटितानि भिन्नीभूतानि चक्रवाकमिथुनानि येभ्य एतादृशानि कमलवनानि द्वेष्टिं द्वेषं करोति । तयेति । तया तर सहैतैः पूर्वोक्तैरन्यैश्चैतद्भिन्नैस्तत्कालोचितैस्तत्समययोग्यैरालापैः संभाषणैः करणभूतैस्तमुद्देशं पूर्वोक्तभूविभागमभ्युपागमं समागमम् । तत्र चेति । तत्र तस्मिन् प्रदेशे कैलासतटाद्रजताद्रिशिखराच्चन्द्रोदयेन शशिप्रकाशेन प्रसृतं च्युतं यच्चन्द्रकान्तमणिप्रसवणं चन्द्राश्मनिर्झरणं तस्मिन् । मार्गेति । मार्ग
I
टिप्प० - 1 ‘करेण कचग्रहाकृष्टम्' इत्येव सुपाटः । करेण (किरणेन) तद्रूपेण पाणिना, केशेषु यो ग्रहः तेनाकृष्टं सक्तं ममाभिमुखमानयेत् । इति तदर्थः । 2 चुम्बतीव इत्यर्थेन प्रतीयमानोठप्रेक्षा । एवमग्रेऽपि कामुकसंबन्धिकार्यद्वारा कामुकव्यवहारसमारोपात्समासोक्तिस्तु न शकया, अप्रस्तुतेन प्रस्तुतपरिस्फूर्ती तत्स्वीकृतेः । अत्र तु - ‘अयमात्मनैव तावत् ० ' इत्यादिना चन्द्रस्यापि प्रस्तुतत्ववर्णनात् । 3 किरणानित्यर्थ उचितः । 4 तया धूसरः पादः ( किरणः) एव पादः (चरणः) यस्य सः, इत्यर्थ उचितः । 5 कमलवनस्यान्तरायेण चक्रद्वन्द्वं विघटितं भवतीति दम्पत्योर्वियोगसंपादकं कमलवनं वियोगतप्तश्चन्द्रो न सहत इत्यर्थः ।
पाटा० - १ इन्दुः २ करेण. ३ सा. ४ भर्तुदारिकायाम्. ५ कणिकाचितम् ६ चन्दनालेप. ७ उद्वहति. ८ केतकि.
346
कादम्बरी |
कथायाम्