________________
दितकुचा, चकितपरिवर्तनत्रुट्यत्रिवलीलता, समस्तचिकुरकलापसंकलनाकुलकेरतला, कटाक्षक्षेपधवलीकृतकर्णोत्पलं विलक्ष्यमाणस्मितसुधाधूलिधूसरितकपोलं साचीकृत्य वदनमनेकरसंभङ्गिभङ्गुरं विलोकयन्ती, तावदवतस्थे यावदुपसंहतालोको लोहितो दिवसो बभूव ।
अथ हृदयस्थितकमलिनीरागेणेव रज्यमाने राजीवजीवितेश्वरे सकललोकचक्रवालचक्रवर्तिनि भगवति पूष्णि, क्रमेण च दिनपरिलम्बनरोषरक्ताभिः कामिनीदृष्टिभिरिव संक्रामितशोणिम्नि व्योम्नि, संहृतशोचिषि जाते जरठहारीतहरितवाजिनि, रविविरहमीलितसरोजसंहतिषु हरितायमानेषु कमलवनेषु, श्वेतायमानेषु कुमुदखण्डेषु, लोहितायमानेषु दिङ्मुखेषु, -
***********
ताभ्यामूरुभ्यां यथाकथंचिद्विधृतमपि शिथिलं दुकूलं यस्याः सा । क्षितितले दोलायमानोंऽशुकस्योत्तरीयस्यैकदेशस्तेनाच्छादितौ कुचौ यया सा । चकितं ससंभ्रमं यत्परिवर्तनं तेन त्रुट्यन्ती त्रिवलीलता यस्याः सा । समस्ताः समग्रा ये चिकुराः कुन्तलास्तेषां कलापः समूहस्तस्य संकलनं स्वकीयस्थले स्थापनं तेनाकुलं व्याक्षिप्तं करतलं यस्याः सा । किं कुर्वती । वदनं मुखं साचीकृत्य वक्रीकृत्यानेके रसास्तेषां भङ्गी रचनाविशेषस्तेन भङ्गुरं वक्रं यथा स्यात्तथा विलोकयन्ती । अथ वदनं विशेषयन्नाह - कटाक्षेति । कटाक्षाणां क्षेपस्तेन धवलीकृतं कर्णोत्पलं यस्मिन् । विलक्ष्यमाणं यस्मितं तदेव सुधा तस्या धूलिस्तया धूसरितौ कपोलौ यस्मिन् । तावदवतस्थे यावदुपसंहत एकीभूत आलोको यस्मिन्नेवंविधो लोहितो रक्तो दिवसो बभूव । एतेन संध्यासमयो जात इति ज्ञापितम् ।।
अथ प्रदोषसमयं वर्णयन्नाह - अथेति । जातायामदर्शनक्षमायां वेलायां कादम्बरी सौधशिखरात्क्रीडापर्वतकनितम्बाच्च चन्द्रापीडोsवततारेत्यन्वयः । कस्मिन्सति । रागेणानुरज्यमाने सति रक्ततां प्राप्यमाणे सति । रक्तत्वसाम्यादाह - हृदयस्थितो यः कमलिनीरागस्तेनेव राजीवानां कमलानां जीवितं तस्यैश्वरः स्वामी तस्मिन्सकलः समग्रो यो लोकस्तस्य चक्रवालं मण्डलं तस्य चक्रवर्तिनि सार्वभौमे भगवति माहात्म्यवति । जरठः परिणत एवंविधो यो हारीतो मृदङ्कुरस्तद्वद्धरिता नीला वाजिनो यस्य स तस्मिन् । पुनः कीदृशे । संहृतशोचिष्यात्तदीधितौ एवंविधे पूष्णि सूर्ये जाते सति । तथा क्रमेण च परिपाट्या दिनस्य सूर्यस्य परिलम्बनमस्तसमयस्तेन रोषो नायको दत्तसंकेतोऽद्यापि नागत इत्येवंरूपस्तेन रक्ताभिः कामिनीदृष्टिभिरिव संक्रामितः शोणिमा रक्तिमा यस्मिन्नेवंविधे व्योम्न्याकाशे सति । पुनः केषु । रविरिति । रविः सूर्यस्तस्य विरहो वियोगस्तेन मीलिताः संकुचिता याः सरोजसंहतयः कमलराजयस्तासु । पुनः केषु । कमलवनेषु नलिनखण्डेषु हरितायमानेषु नीलायमानेषु सत्सु । तथा कुमुदखण्डेषु कैरववनेषु चेतायमानेषु गौरवदाचरमाणेषु । प्रफुल्लितत्वादिति भावः । तथा लोहितायमानेषु रक्तायमानेषु दिङ्मुखेषु सत्सु । तथा नीलायमाने हरितायमाने शर्वरीमुखे प्रदोषे ।
- - - - - - - - - - - टिप्प० - 1 विभ्रमवशादुत्तरीयांशुकः स्वस्थानादपसृत्य भूमौ लम्बितः पुनश्च सविलासं स्वस्थानं स्थापितस्तेनाच्छादितकुचा । 2 'विलक्षस्मित' इत्युचितः पाठः । सलज्जं यस्मितमित्यर्थः । 3 अत्र राजीवजीवितेश्वरे सकल ....... चक्रवर्तिनि भगवति पूष्णि (सूर्य) कमलिनीरागेणेव रज्यमाने सति (स्वाभाविके रक्तवर्णे कमलिन्यनुरागस्योत्प्रेक्षा) । इति पृथगन्वयः । संक्रामितशोणिम्नि व्योम्नि, इति पृथक् । जरठहारीतहरितवाजिनि (सूर्य) संहृतशोचिषि संकोचितप्रकाशे जाते सति, इति पृथक् । 4 रविविरहेण मीलिताः सरोजसंहतयो येषु ईदृशेषु कमलवनेषु हरितायमानेषु सत्सु इत्यर्थः ।
पाठा० - १ असंसस्त. २ करकमला. ३ कर्णोत्पल. ४ विलक्ष्यमाणस्मितधूलिधूसरकपोलम्; विलक्षस्मितसुधाधूलिधूसरितैककपोला; विलक्ष्यस्मितसुधाधूलिधूसरितकपोलम्, विलक्ष्य चास्मितसुधाधूलिधूसरितकपोलम्. ५ साचीकृत. ६ भ्रूभङ्गि. ७ उपसंहृत. ८ सकलचक्रवाकचक्रवालचित्तवर्तिनि. ९ उष्णदीधितो. १० जनित. ११ कमलवनेषु निजसुहृदमृतमूर्तिसमालोकनाशया हर्षप्रकर्षसंदर्शितस्मितेष्विवोन्मुखेषु धवलायमानेषु कुमुदखण्डेषु.
सन्ध्यावर्णनम्
पूर्वभागः ।।