________________
मरव्यग्रपाणिना कुब्जकिरातबैधिरवामनवर्षवरकलमूकानुवीतेन परिजनेन सर्वतः संरुद्धे द्वारदेशे कथमप्यवाप्तनिर्गमः प्रययौ । अम्बा तु मत्समीपमागत्य सुचिरं स्थित्वा स्वभवनमयासीत् । तया तु तत्रागत्य किं कृतं किमभिहितं किमा - चेष्टितमिति शून्यहृदया सर्वं नालक्षयम् ।
गतायां च सैत्यामस्तमुपगते भगवति हारीतहरितवाजिनि सरोजिनीजीवितेश्वरे चक्रवाकसुहृदि सवितरि लोहितायमाने पश्चिमाशामुखे, हरितायमानेषु कमलवनेषु, नीलायमाने पूर्वदिग्भागे, पातालपङ्ककलुषेण महाप्रलयजलधिपयःपूरेणेव तिमिरेणावष्टभ्यमाने जीवलोके किंकर्तव्यतामूढा तामेव तरलिकामपृच्छम् - 'अयि तैरलिके, कथं न पश्यसि दृढमाकुलं मे हृदयम् । अप्रतिपत्तिविह्वलानि चेन्द्रियाणि । न स्वयमण्वपि कर्तव्यमलमैस्मिञ्ज्ञातुम् । उपदिशतु मे भवती यत्र सांप्रतम् । अयमेवं त्वत्समक्षमेवाभिधाय गतः
1
***********
-
आगृहीतेति । आ समन्ताद्गृहीता आत्तास्ताम्बूलकुसुमपटवासाङ्गरागा येन स तेन । तत्र ताम्बूलं नागवल्ली, कुसुमानि पुष्पाणि, पटवासः पिष्टातः, अङ्गरागो विलेपनम् । चामर इति । चामरैर्वालव्यजनैर्व्यग्र आकुलः पाणिर्हस्तो यस्य स तेन । कुब्ज इति । कुब्जः खर्वः, किरातः स्वल्पतनुः, बधिरोऽकर्णः, वामनः प्रसिद्धः, वर्षवरः षण्ढः । 'कलंमूकोऽवाक्श्रुतिः' इति हलायुधः । एतैरनुवीतेनावृतेन । ‘संवीते रुद्धमावृते' इति कोशः, क्वचित् 'अनुमत' इति पाठः । तत्रानुमतेनेत्यभिमतेनेत्यर्थः । अम्बा त्विति । अम्बा तु जननी तु मत्समीपं मदन्तिकमागत्यैत्य सुचिरं चिरकालं स्थित्वा स्वभवनं निजगृहमयासीदगात् । तया तु मज्जनन्या तु तत्र मद्गृह आगत्य किं कृतं विहितम्, किमभिहितं किं कथितम्, किमाचेष्टितं किमाचरितम्, इति सर्वमहं शून्यहृदयोद्विग्नचित्ता नालक्षयं न ज्ञातवती ।
1
तस्यामम्बायां गतायां च सत्यां भगवति माहात्म्यवति सवितरि सूर्येऽस्तमुपगते प्राप्ते सति किंकर्तव्यतामूढाहं तामेव तरलिकामपृच्छं पृष्टवतीत्यन्वयः । अथ सूर्यं विशेषयन्नाह - हारीतेति । हारीतो मृदङ्कुरः ' हारिल' इति लोकप्रसिद्धः तद्वद्धरिता नीला वाजिनोऽश्वा यस्य स तस्मिन् । सर इति । सरोजिनी कमलिनी तस्या जीवितेश्वरः प्राणनाथस्तस्मिन् । चक्रेति । चक्रवाकस्य द्वन्द्वचरस्य सुहृदि । पुनः कस्मिन्सति । पश्चिमाशामुखे लोहितायमाने रक्तायमाने सति । पुनः केषु सत्सु । कमलवनेषु नलिनकाननेषु हरितायमानेषु नीलायमानेषु सत्सु । पुनः कस्मिन् । पूर्वदिग्भागे नीलायमाने सति । पुनः कस्मिन् । तिमिरेणान्धकारेण जीवलोकेऽवष्टभ्यमान आश्लिष्यमाने । केनेव । महाप्रलयस्य यो जलधिः समुद्रस्तस्य पयःपूरेणेव । पयःपूरस्य श्वेतत्वादुत्प्रेक्षा न संभवतीत्याह - पातालेति । पातालं वडवामुख तस्य पङ्कः कर्दमस्तेन कलुषेण मलिनीकृतेन । अन्वयस्तु प्रागेवोक्तः । अयीति कोमलामन्त्रणे । हे तरलिके, मे मम हृदयं कथं न पश्यसि नावलोकयसि । कीदृशम् । दृढमत्यर्थमाकुलं व्याकुलम् । तथाप्रतिपत्तिः सर्वस्मिन्विषयेऽरुचिरनिश्चयो वा तेन बिह्वलानि व्याकुलानि चेन्द्रियाणि करणानि । अतोऽस्मिन्विषये पुण्डरीकविषयेऽण्वपि कर्तव्यं कृत्यं स्वयं ज्ञातुमहं नालं न समर्था । यतोऽयं कपिञ्जलस्त्वत्समक्ष - मेव त्वत्प्रत्यक्षमेवैवममुना प्रकारेणाभिधाय कथयित्वा गतः । अतोऽस्मिन्नर्थे यत्सांप्रतं योग्यं तद्भवत्युपदिशतु कथयतु । अथोपदेशप्रकार
माह -
टिप्प० 1 वस्तुतस्तु 'विकल- मूक' इति पाठः । 2 'अनुगतेन' इत्येव पाटो मनोहरः, प्रमाणं च हृदयम् । 3 'अस्मिन्' इति केवलेन न बुध्यते प्रकृतो विषयः, न चानुकूलानि ग्रन्थबन्धाक्षराणि । अतः 'नालमस्मि' इत्येव पाठः । ज्ञातुं न समर्थाऽस्मि इति तदर्थः ।
पाठा० - १ बर्बरकलमूक; बर्बरविकलमूक. २ अनुगतेन. ३ तस्याम् ४ तरलिके न पश्यसि ५ शून्यानि ६ अस्मि
338
कादम्बरी ।
कथायाम्