________________
मामिव तमप्यनुबध्नाति, यत्सत्यमेतेन मे संतापयतोप्यंशेन दर्शितानुकूलतां । यदि च सत्यमेव तस्येदृशी देशा वर्तते, ततः किमिव नोपकृतमनेन, किंवा नोपपादितम्, को वानेनापरः समानो बन्धुः, कथं वा कपिजलस्य स्वप्नेऽपि वितथा भारती प्रशान्ताकृतेरस्माद्वदनानिष्कामति । इत्थंभूते किं मयापि प्रतिपत्तव्यम्, तस्य वा पुरः किमभिधातव्यम्' इत्येवं विचारयन्त्येव प्रविश्य ससंभ्रमा प्रतीहारी मामकथयत् - 'भर्तृदारिके, त्वमेस्वस्थशरीरेति परिजनादुपलभ्य महादेवी प्राप्ता' इति । तच्च श्रुत्वा कपिजलो महाजनसंमर्दभीरुः सत्वरमुत्थाय 'राजपुत्रि, महानयमुपस्थितः कालातिपातः । भगवांश्च भुवनत्रयचूडामणिरस्तमुपगच्छति दिवसकरः । तद्गच्छामि । सर्वथाभिमतसुहृत्प्राणरक्षादक्षिणार्थमयमुपरचितोऽञ्जलिः । एष मे परमो विभवः' इत्यभिधाय प्रतिवचनकालमप्रतीक्ष्यैव पुरोयायिनाम्बायाः प्रविशता कनकवेत्रलताकरेण प्रतीहारिजनेन कञ्चुकिलोकेनागृहीतताम्बूलकुसुमपटवासाङ्गरागेण चा -
***********
तमपि पुण्डरीकमप्यनुबंध्नाति पीडयति । यत्सत्यमिति । तदेतेन मदनेन मां संतापयतापि अंशेन तत्संतापेन मे मम सत्यमनुकूलता दर्शिता । एवं सति मदनेन ममार्थ कुमारस्य संतापः क्रियत इत्यर्थः । कुमारस्यानुकूलत्वं विशदयन्नाह - यदि चेति । यदि सत्यमेव तस्येदृशी दशा वर्तते, ततोऽनेन मदनेन किमिव नोपकृतं किमुपकारो न कृतः । किं वा नोपपादितं किं वा न निष्पादितम् । को वेति । अनेन समानोऽपरः को वा बन्धुः । कपिञ्जलवचसि सत्यतां दृढीकुर्वन्नाह - कथं वेति । प्रशान्ताकृतेः कपिजलस्यास्माद्वदनात्कथं वितथाऽसत्या भारती स्वप्नेऽपि निष्कामति । इत्थंभूते सति किं मयापि प्रतिपत्तव्यं किमङ्गीकर्तव्यम् । तस्य कपिजलस्य वा पुरोऽग्रे किमभिधातव्यं किमु कथनीयम् । एवं विचारयन्त्येवं ससंभ्रमा प्रतीहारी प्रविश्य प्रवेशं कृत्वा । गृहमिति शेषः । ममेत्यकथयदवोचत् । किं तदित्याह - भत्रिति । हे भर्तृदारिके, त्वमस्वस्थमपाटवं शरीरं यस्याः सेति परिजनात्परिच्छदलोकादुपलभ्य प्राप्य महादेवी गौर्यभिधाना त्वदम्बा प्राप्तागता । तच्चेति । तत्पूर्वोक्तं श्रुत्वाकर्ण्य कपिजलो महानत्युत्कृष्टो यो जनानां संमर्दोऽन्योन्यसंघट्टस्तस्माद्भीरुः सत्वरं शीघ्रमुत्थाय । हे राजपुत्रि, अयं कालातिपातः कालविलम्बो महान्भूयानुपस्थितः प्राप्तः । भगवाश्चेति । भुवनत्रयस्य विष्टपत्रयस्य चूडामणिरिव चूडामणिः शोभाकारित्वाद्भगवान्दिवसकरः श्रीसूर्योऽस्तमुपगच्छत्यस्तमनं प्रयाति । तदिति । तत्तस्मात्कारणाद्गच्छामि व्रजामि । सर्वथेति । सर्वप्रकारेणाभिमतो वाञ्छितो यः सुहृन्मित्रं तस्य प्राणा असवस्तेषां रक्षा त्राणं सैव दक्षिणा मदागमनपूजा तदर्थमयमञ्जलिः पाणिसंयोजनरूप उपरचितो निबद्धः । एष इति । एष सुहृयाणरक्षात्मको मम मे परम उत्कृष्टो विभव ऐश्चर्यमित्यभिधाय प्रतिवचनकालं प्रत्युत्तरसमयमप्रतीक्ष्यैव प्रतीक्षामकृत्वैवाम्बाया गौर्यभिधानायाः पुरोयायिनाग्रगामिना प्रविशता प्रवेशं कुर्वता परिजनेन परिच्छदेन सर्वतः समन्तात्संरुद्ध आवृते द्वारदेशे प्रतोलीदेशे कथमपि महता कष्टेनावाप्तनिर्गमः प्राप्तबहिर्गमनः प्रययावित्यन्वयः । अथ परिजनं विशिनष्टि - प्रतीति । प्रतीहारिणी द्वारनियुक्तस्त्रीणां जनो लोको यस्मिन्स तेन । कनकेति । कनकस्य सुवर्णस्य वेत्रलता यष्टिविशेषः सा करे पाणौ यस्य स तेन । पद्मपाणिरित्यादिप्रयोगदर्शनात् 'न बहुव्रीहौ' इत्यनेन सप्तम्यन्तस्य पूर्वनिपातः । कञ्चुकीति । कञ्चुकिनां सौविदल्लानां लोको जनो यस्मिन्स तेन । 'लोको विश्वजनः' इत्यनेकार्थः । टिप्प० - 1 अनुगच्छति, तदुपर्यपि स्वाऽऽवेशं स्थापयतीत्याशयः । 2 नेदं प्रतिहारी विचारयति । अतः 'विचारयन्त्यामेव इति पाठः । 'मयि इति शेषः । 3 अप्रकृतिस्थमित्युचितम् । 4 एष प्रणामाञ्जलिरेव मे परमो विभवः, नेतःपरं मे ऐश्वर्यं यत्समर्प्य त्वां प्रसादयेयमित्यर्थः । 5 पूर्वं स्त्रीलिङ्ग उपक्रान्तः - ('ससंभ्रमा प्रतीहारी इति), अत एव अत्रापि 'प्रतीहारीजनेन' इत्येव पाठः। 6 पाणिनीये तु-'सप्तमीविशेषणे बहुव्रीहौ इति पूर्वनिपातः ।
-
-
-
-
-
-
-
-
-
-
-
पाठा० - १ अनेन. २ कियताप्यंशेन, अपि कियताप्यंशेन. ३ दशा, ततः. ४ प्रतिकर्तव्यम्. ५ असुस्व. ६ गृहीत.
महाश्वेताया स्वकर्तव्यविचारः
पूर्वभागः ।।
1337)