________________
सुहृदसून्साधवः । तदतिहेपणमकर्तव्यमप्येतदस्माकमवश्यकर्तव्यतामापतितम् । किं चान्यत्क्रियते । का चौन्या गतिः । सर्वथा प्रयामि तस्याः सकाशम् । आवेदयाम्येतामवस्थाम्' इति चिन्तयित्वा कदाचिदनुचितव्यापारप्रवृत्तं मां विज्ञाय संजातलज्जो निवारयेदित्यनिवेद्यैव तस्मै तत्प्रदेशात्सव्याजमुत्थायागतोऽहम् । तदेवमवस्थिते यदत्रावसप्राप्तम्, ईदृशस्य चानुरागस्य सदृशम्, अस्मदागमनस्य चानुरूपम्, आत्मनो वा समुचितं तत्रभवती प्रभवति इत्यभिधाय किमियं वक्ष्यतीति मन्मुखासक्तदृष्टिस्तूष्णीमासीत् ।
अहं तु तदाकर्ण्य सुखामृतमये ह्रद इव निमग्ना, रतिरसमयमुदधिमिवावतीर्णा, सर्वानन्दानामुपरि वर्तमाना, सर्वमनोरथानामग्रमिवाधिरूढा, सर्वोत्सवानामतिभूमिमिवाधिशयाना, तत्कालोपजातया लज्जया किंचिदवनम्यमानवदनत्वादस्पृष्टकपोलोदरैः ग्रथितैरिवोपर्युपरिपतनानुबन्धदर्शितमालाक्रमैः, अप्राप्तपक्ष्मसंश्लेषतयोपजातप्रथिमभरैरमलैरानन्दबाष्पजलबिन्दुभिः सवद्भिरावेद्यमानप्रहर्षप्रेसरा तत्क्षणमचिन्तयम् । दिष्ट्या तावदयमनङ्गो -
*********** दसन्मित्रप्राणान्रक्षणीयान्मन्यन्ते जानन्ति । तदतीति । तदेतदतिहेपणमप्यतिलज्जावहमप्यकर्तव्यमप्यनाचरणीयमप्यस्माकं पुण्डरीकमार्गानुवर्तिनामवश्यकर्तव्यतां नियतविधेयतामापतितमुपस्थितम् । चिन्तितमुपसंहरन्नाह - किंचेति । एतद्व्यतिरिक्तमन्यत्किं क्रियत इत्यर्थः । अन्या एतद्व्यतिरिक्ता का गतिः । न कापीत्यर्थः । अतः - सर्वथैव । सर्वप्रकारेण तस्या महाश्वेतायाः सकाशं समीपं प्रयामि गच्छामि । एतां प्रत्यक्षामवस्थां दशामावेदयामि कथयामि । इति चिन्तयित्वेति विचिन्त्य । इतिशब्दद्योत्यमाह - कदाचिदिति । अनुचितोऽयोग्यो यो व्यापारो व्यापृतिस्तत्र प्रवृत्तं विज्ञाय संजातलज्जः समुत्पन्नत्रपः कदाचिज्जातुचिन्मां निवारयेत्प्रतिषेधयेत्तस्मै पुण्डरीकायेति पूर्वोक्तमनिवेद्यैवाकथयित्वैव तत्प्रदेशात्तत्स्थानात्सव्याज समिषमुत्थायाहमागतः तत्तस्मात्कारणादेवममुना प्रकारेणावस्थिते सति यदत्रावसरप्राप्तं प्रस्तावागतम्, ईदृशस्य अनुरागस्य स्नेहस्य च सदृशं तुल्यम्, अस्मदागमनस्य च मदीयागमनस्य चानुरूपमनुकूलम्, आत्मनो भवत्याः समुचितं योग्यं तत्र भवती प्रभवति समर्था भवतीत्यभिधायोक्त्वेयं किं वक्ष्यति किं कथयिष्यतीति कृत्वा मन्मुख आसक्ता दृष्टिर्यस्य स तूष्णीमासीत् । ___ अहं तु तत्पूर्वोक्तमाकर्ण्य श्रुत्वा सुखमेवामृतं पीयूषं तन्मये हदे डोहे निमग्ना बुडितेव रतिरसः श्रृङ्गाररसस्तन्मयमुदधिं समुद्रमवतीर्णेव मध्यप्रविष्टेव सर्वानन्दानां समग्रप्रमोदानामुपरि वर्तमाना सर्वमनोरथानां सकलचिन्तितानामग्रप्रान्तमधिरूढेवोपर्याश्रितेव, सर्वोत्सवानां समग्रक्षणानामतिभूमिमधित्यकामधिशयानेव प्रसुप्तेव, तत्कालोपजातया तत्समयोत्पन्नया लज्जया त्रपया किंचिदीषदवनम्यमानं प्रह्वीभूयमानं यद्वदनमाननं तस्य भावस्तत्त्वं तस्मात् । अत एवास्पृष्टः कपोलयोर्गलात्परप्रदेशयोरुदरं यैरेवंविधैः आनन्दबाष्पजलबिन्दुभिः अश्रुभिः सवद्भिः क्षरद्भिरावेद्यमानो निवेद्यमानः प्रहर्षस्य प्रमोदस्य प्रसरः प्रसङ्गो यस्यां सैवंविधाहं तत्क्षणं तत्कालमचिन्तयमध्यायमित्यन्वयः । अथाश्रु विशेषयन्नाह - अमलैरिति । अमलैर्निर्मलैरञ्जनाभावात् । ग्रथितैरिव गुम्फितैरिव । अविच्छिन्नपतनादिति भावः । उपर्युपरि यत्पतनं तस्य योऽनुबन्धः परम्परा तेन दर्शितः प्रकाशितो मालाक्रमः सक्परिपाटी यैः । अप्राप्तेति । अप्राप्तोऽमिलितो यः पक्ष्मसंश्लेषो नेत्ररोमसंबन्धस्तस्य भावस्तत्ता तयोपजातः समुत्पन्नः प्रथिमभरः पृत्वभरो येषु तैः । दिष्ट्या भाग्येन तावदादावयमनङ्गो मामिव - टिप्प० -1 यस्या इत्युचितम् । 2 अधोमुखतया नेत्रजलं सरलमध एव पतति, नोभयभागयोः पक्ष्मसु जलसंबन्धो भवति । अत एव निष्पतज्जलमितस्ततोऽसंबन्धादेकपूरवाहित्वाद् गुरु इत्याशयः । पाठा० - १ वा. २ वा. ३ प्रसङ्गा.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
336
कादम्बरी ।
कथायाम्