________________
किं वा तस्य दुःसाध्यमपरम्, एवंविधो येनायमगाधगाम्भीर्यसागरस्तृणवल्लघुतामुपनीतः । क्व तत्तपः, क्वेयमवस्था । सर्वथा निष्प्रतीकारेयमापदुपस्थिता । किमिदानीं कर्तव्यम्, किं वा चेष्टितव्यम्, कैं देशं गन्तव्यम्, किं शरणम्, को वोर्षीयः, कः सहायः, कः प्रकारः का युक्तिः, कः समाश्रयो येनास्यासवो धार्यन्ते । केन वा कौशलेन, कतमया वा युक्त्या, कतरेण वा प्रकारेण, केन वावष्टम्भेन, कया वा प्रज्ञया, कतमेन वा समाश्वासनेनायं जीवेत्' इत्येते चान्ये च मे विषण्णहृदयस्य संकल्पाः प्रादुरासन् । पुनश्चाचिन्तयम् - 'किर्मनया ध्यातया निष्प्रयोजनया चिन्तया । प्राणास्तावदस्य येनकेनचिदुपायेन शुभेनाशुभेन वा रक्षणीयाः । तेषां च तैंत्समागममेकमपहाय नास्त्यपरः संरक्षणोपायः । बालभावादप्रगल्भतया च तपोविरुद्धमँनुचितमुपहासमिवात्मनो मदनव्यतिकरं मन्यमानो नियतमेकोच्छासावशेषजीवितोऽपि नायं तस्याः स्वयमभिगमनेन पूरयति मनोरथम् । अकालान्तरक्षमश्चायमस्य मदनविकारः । सततमतिगर्हितेन कृत्येनापि रक्षणीयान्मन्यन्ते -
***********
1
सापि यौवनेन तारुण्येन सह संचारिणी सार्धं संचरणशीला स्यात् । जराया अपि तत्कार्यकारित्वात्तदनुगामित्वमित्यर्थः । अत्रापिशब्दः सर्वत्र विरोधद्योतकः । किं वेति । वेति विकल्पार्थ; तस्य कंदर्पस्य । किमिति प्रश्ने । अपरं किं दुःसाध्यं दुष्करम् । एवमिति । येन कंदर्पेण एवंविधस्तपस्व्ययं पुण्डरीकः । अगाधेति । अगाधमलब्धतलं गाम्भीर्यं गम्भीरता तस्य सागरः समुद्रस्तृणवल्लघुतां लघीयस्त्वमुपनीतः प्रापितः । क्वेति । तदनिर्वचनीयस्वरूपं तपः क्व । तया चेयं परिदृश्यमानावस्था क्व । सर्वथेति । सर्वप्रकारेण निष्प्रतीकारासाध्येयमापद्विपदुपस्थिता प्राप्ता । किमिति । इदानीं सांप्रतं किं कर्तव्यम् । किं वा चेष्टितव्यमाचरितव्यम् । कं देशं कं स्थानं प्रति गन्तव्यं गमनीयम् । किं वा शरणं त्राणम् । को वोपायः कः प्रतीकारः । कः सहायः साहय्यकृत् । कः प्रकारस्तदुपशामकविधिः । का युक्तिस्तव्प्रतिक्रियाबुद्धिः । कः समाश्रयः को निवासो येन कृत्वास्य मुनेरसवः प्राणा गच्छन्तो धार्यन्ते रक्ष्यन्ते । केन वा कौशलेन चातुर्येण, कतमया वा युक्त्या कतरेण वा प्रकारेण, केन वावष्टम्भेनालम्बनेन, कया वा प्रज्ञया प्रतिभया, कतमेन वा समाश्वासनेन सान्त्वनेन वायं जीवेदिति । एते चेति । विषण्णहृदयस्य खिन्नचित्तस्य मे ममैते चान्ये च संकल्पा विकल्पाः प्रादुरासन्प्रकटीबभूवुः । पुनश्चेति । पुनस्तदनन्तरमहमचिन्तयं चिन्तितवान् । किं तदित्याह - किमनयेति । अनया निष्प्रयोजनया निरर्थकया चिन्तया ध्याता किम् । तावदादौ अस्य पुण्डरीकस्य शुभेनाशुभेन वा येन केनचिदुपायेन प्राणा असवो रक्षणीयाः । तेषां चेति । तेषां प्राणानामेकं तस्याः समागममपहाय विहायापरो भिन्नः संरक्षणोपायो नास्ति । बालभावाच्छिशुस्वभावादप्रगल्भतयाप्रतिभान्विततया च तपोविरुद्धं व्रतविरोध्यनुचितमन्योन्यमात्मनः स्वस्योपहासमिव मदनव्यतिकरं कंदर्पवृत्तान्तं मन्यमानो ज्ञायमानो नियतं निश्चितमेक एवोच्छ्रासः श्वासोऽवशेषोऽवशिष्टो यस्मिन्नेवं तादृशं जीवितं प्राणितं यस्यैवंभूतोऽप्ययं पूर्वोक्तानौचित्यवशात्तस्या महाश्वेतायाः स्वयमभिगमनेनात्मनागमनेन मनोरथं चित्ताभिलाषं न पूरयति न पूरयिष्यति । 'वर्तमानसामीप्ये वर्तमानवद्वा' इति भविष्यत्यर्थे वर्तमाना । यथाश्रुतमेव वा किं त्वन्यस्य गमनेन तस्याः संगमो भविष्यति, तथाप्यन्यस्याप्यभिगमनेन का त्वरेत्यत आह- अकालेति । तस्य पुण्डरीकस्यायं मदनविकारो न कालान्तरं क्षमते । चिरकालं न तिष्ठतीत्यर्थः । अन्यस्य तदभिगमनप्रयासेन न प्रयोजनमित्यत आह सततमिति । सततं निरन्तरमतिगर्हितेन निन्दितेन कृत्येनापि कार्येणापि साधवः सन्तः सुहृ
टिप्प० 1 साधनाय उपपत्तिः
पाठा० - १ तृणलबलघुताम् २ किमाचेष्टितव्यम्. ३ कां दिशम् ४ च. ५ अनयात्यायतया; अनयात्यन्तायतया ६ त्वत्समाग. ७ अनुचितमुपनतम् ८ अकृत्येन.
( पुण्डरीककृते कपिञ्जलस्य चिन्ता
-
पूर्वभागः ।
335