________________
मुंहुर्मुहुश्चन्दनचर्चामारचयतः, मुहुर्मुहुश्च स्वेदप्रतिक्रियां कुर्वतः, केदलीदलेन चानवरतं वीजयतःसमुदभून्मे मनसि चिन्ता - 'नास्ति खल्वसाध्यं नाम भगवतो मनोभुवः । क्वायं हरिण इव वनवासनिरतः स्वभावमुग्धो जनः, क्व च विविधविलासरसराशिर्गन्धर्वराजपुत्री महाश्वेता । सर्वथा नहि किंचिदस्य दुर्घटं दुष्करमनायत्तमकर्तव्यं वा जगति । दुरुपपादेष्वर्थेष्वप्ययमवज्ञया विचरति । ने चायं प्रतिकूलयितुं शक्यते । का वा गणना सचेतनेषु, अपगतचेतनान्यपि संघट्टयितुमलम्, यद्यस्मै रोचते । कुमुदिन्यपि दिनकरकरानुरागिणी भवति, कमलिन्यपि शशिकरद्वेषमुज्झति, निशापि वासरेण सह मिश्रतामेति, ज्योत्स्नाप्यन्धकारमनुवर्तते, छायापि प्रदीपाभिमुखमवतिष्ठते, तडिदपि जलदे स्थिरता व्रजति, जरापि यौवनेन संचारिणी भवति ।
***********
तिक्रियां धर्मजलप्रतीकारं कुर्वतः प्रणयतः, कदलीदलेन चानवरतं निरन्तरं वीजयतः पवनं प्रक्षिपतो मे मम मनसि चिन्ता समुदभूत्प्रादुरभूत् । यतः - नास्तीति । नामेति कोमलामन्त्रणे । खलु निश्चये । भगवतो मनोभुवः कंदर्पस्य किमप्यसाध्यमनिष्पायं नास्ति न विद्यते । एतदर्थं स्पष्टीकुर्वनाह - क्वति महदन्तरे । अयं पुण्डरीको हरिण इव मृग इव वनवासेऽरण्यावस्थाने निरतस्तत्परः स्वभावेन प्रकृत्या मुग्धोऽविदग्धो जनः क्व । तथा विविधानां नानाप्रकाराणां विलासानां विभ्रमादीनां यो रसस्तात्पर्यं तस्य राशिः समूह एतादृशी गन्धर्वराजपुत्री महाश्वेता क्व । विदग्धाविदग्धयोः संगमः कथं भविष्यतीत्याशयेनाह - सर्वथेति । सर्वप्रकारेणास्य कंदर्पस्य जगति लोके दुर्घटं दुःसाध्यं तथा दुष्करं दुःखेन कर्तुं शक्यमनायत्तमनधीनमकर्तव्यं कर्तव्यविरोधि वा नहि किंचिदस्ति । अस्य सर्वं सुसाध्यमित्यर्थः । दुरुपपादेष्वयोग्येष्वर्थेषु कार्येष्वप्ययं कामोऽवज्ञया बलात्कारेण विचरति प्रवर्तते । न चायं केनापि पुंसा प्रतिकूलयितुं प्रतिरोढुं शक्यते पार्यते । का वेति । यद्यस्मै कंदर्पाय रोचते रुचिर्भवति तदापगतचेतनानि मन्दान्तःकरणान्यपि परस्परविरुद्धान्यपि संघट्टयितुं संयोजयितुमलं समर्थः, तस्य सचेतनेषु दशदशावर्तिषु संबन्धं कर्तुं का गणना । एतदेव स्पष्टयन्नाह - कुमुदिनीति । कुमुदिन्यपि कैरविण्यपि । दिनकरेति । दिनकरस्य सूर्यस्य कराः किरणाः । तत्कार्यकारित्वादीनकरत्वं चन्द्रस्य । तस्मिन्ननुरागो विद्यते यस्या एवंविधा भवति । तदुक्तम् - 'चन्द्रश्चण्डकरायते मलयजालेपः स्फुलिङ्गायत्ते माल्यं सूचिकरायते मृदुगतिर्वातोऽपि वज्रायते' इति । कमलिनीति । कमलिन्यपि पद्मिन्यपि । शशिकरकार्यकारित्वात्सूर्यकिरणानां शशिकरत्वम् । तेषु यो द्वेषस्तमुज्झति त्यजति । तदुक्तम् - 'आतपे धृतिमता सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दुःखिते मनसि सर्वमसह्यम्' इति । निशेति । निशापि रात्रिरपि दिवसकार्यकारित्वादासरेण मिश्रतामैक्यतामेति गच्छति । यथा - 'चित्रन्यस्तादपि विषधरागीतिभाजो निशायां किं तद् ब्रूमस्त्वदभिसरणे साहसं नाथ तस्याः' इति । ज्योत्स्नेति । ज्योत्स्नापि कौमुद्यप्यन्धकारकार्यकारित्वात्तमनुवर्तते । तद्रूपतां भजतीत्यर्थः । यथा-'ज्योत्स्नाश्यामलतामुपैत्ययम्' इति । छायेति । छायापि प्रदीपस्य गृहमणेरभिमुखमवतिष्ठते संतिष्ठति । अत्र प्रदीपाधोभागे छायायाः सत्त्वान चित्रमित्यभिमुखग्रहणम् । तदुक्तम् - 'आलोकस्तिमिरायते विधिवशात्प्राणोऽपि भारायते हा हन्त प्रमदावियोगसमये किं किं न दुःखायते । तडिदिति । तडिदपि विद्युदपि जलदे स्थिरतां स्थैर्य व्रजति गच्छति । अत्र तडित उद्दीपकत्वाद्विरहदुःखितस्य तस्य निमेषावस्थानमपि कल्पकल्पमित्यभिसंधिः । जरेति । जरापि विस्त्र -
टिप्प० -1 अनुभवजनित आनन्दविशेष इत्युचितम् । 2 विषयेष्वित्यर्थ उचितः । 3 अचेतनान्यपीति सरलोर्थः । 4 न किल चन्द्रो दिनकरो भवतीत्युच्यते ग्रन्थकृता । अपि तु विरुद्धमपि कामो मिथः संघट्टयतीति प्रतिज्ञाय रात्रिविकासिन्याः कुमुदिन्याः सूर्यानुकूल्यं द्योत्यते । एवमग्रेपि । पाठा० - १ मुहुचन्दन. २ दलेनानवरतम्. ३ स्वभावविषयविमुखः, ४ दुरुपपादेष्वप्यर्थेषु. ५ नायम्. ६ तत्कुमुदिन्यपि; यत्तत्कुमुदिन्यपि.
334
कादम्बरी ।
कथायाम