________________
'अतिभूमिमयं गतः, न शक्यते निवर्तयितुम् । इदानीं निरर्थकाः खलूपदेशाः । तत्प्राणपरिरक्षणेऽपि तावदस्य यत्नमाचरामि' इति कृतमतिरुत्थाय गत्वा तस्मात्सरसः सरसा मृणालिकाः समुद्धृत्य कमलिनीपलाशानि जललवलाञ्छितान्यादाय गर्भधूलिकषायपरिमलमनोहराणि च कुमुदकुवलयकमलानि गृहीत्वागत्य तस्मिन्नेव लतागृहशिलातले शयनमस्याकल्पयम् । तत्र च सुखनिषण्णस्य प्रत्यासन्नवर्तिनां चन्दनविटपादीनां मृदूनि किसलयानि निष्पीड्य तेन स्वभावसुरभिणा तुषारशिशिरेण रसेन ललाटिकामकल्पयम्, आ चरणतलादङ्गचर्चा चारचयम् । अभ्यर्णपादपप्रस्फुटितवल्कलविवरशीर्णेन च करसंचूर्णितेन कर्पूररेणुना स्वेदप्रतिक्रियामकरवम् । उरोनिहितचन्दनद्रवावल्कलस्य स्वच्छसलिलसीकरनिकरसाविणा कदलीदलेन व्यजनक्रियामन्वतिष्ठम् । एवं च मुहुर्मुहुरन्यदन्यनलिनीदलशयनमुपकल्पयतः, -
***********
यम् । इतिशब्दवाच्यमाह - अतीति । अयमतिभूमिमतिदूरं गतः प्राप्तः । कामस्य दशमीमवस्था प्राप्त इत्यर्थः । निवर्तयितुं ततो व्यावर्तयितुं न शक्यते न पार्यते । तेनेदानी सांप्रतम् । खलु निश्चयेन । उपदेशा निरर्थका निःप्रयोजनाः । तदिति हेत्वर्थे । तावदादावस्य पुण्डरीकस्य प्राणपरिरक्षणेऽपि जीवितपरित्राणेऽपि यत्नमुद्योगमाचरामि करोमीति कृता मतिर्येन स उत्थाय गत्वा च । अच्छोदाभिघं सर इति शेषः । तस्मात्सरसः कासारात्सरसा रसयुक्ता मृणालिकाः कमलिन्यः समुद्धृत्योत्पाट्य ताभ्यो जललवेनाम्भोलेशेन लाञ्छितानि सहितानि कमलिनीपलाशानि नलिनीपत्राण्यादाय गृहीत्वा । गर्भेति । गर्भधूलिमध्यपरागस्तस्य यः कषायस्तुवरः परिमलस्तेन मनोहराणि शोभनान्येवंविधानि कुमुदानि श्वेतकमलानि कुवलयान्युत्पलानि कमलान्येभ्यो व्यतिरिक्तानि, कुमुदकुवलयानां कमलानि पुष्पाणि वा गृहीत्वादायागत्य च तस्मिन्नेव लतागृहशिलातलेऽस्य पुण्डरीकस्य शयनं शय्यामकल्पयमकरवम् । तत्र चेति । तस्मिन्नेव स्थले सुखेन निषण्णस्योपविष्टस्य प्रत्यासन्नवर्तिनां समीपस्थानां चन्दनविटपादीनां मलयजवृक्षप्रभृतीनां मृदूनि सुकुमाराणि किसलयानि किसलानि निष्पीड्य संमद्य तेनानिर्वचनीयेन स्वभावसुरभिणा स्वारसिकसुगन्धेन तुषारो हिमं तद्वच्छिशिरेण शीतलेनैवंविधेन रसेन द्रवेण ललाटिका लोके 'आडी' इति प्रसिद्धामकल्पयमकरवम् । चरणतलं मर्यादीकृत्याचरणतलं तस्मात् । आडादियोगे पञ्चमी । अङ्गचर्चा शरीरभूषा चाऽऽरचयं रचितवान् । अभ्यर्णेति । अभ्यर्णा आसना ये पादपा वृक्षास्तेषां स्फुटितानि स्फोट प्राप्तानि यानि वल्कलानि चोचानि तेषां विवराणि छिद्राणि तेभ्यः शीर्णेन गलितेन च तथा करेण कृत्वा संचूर्णितेन क्षोदिकृतेन कर्पूररेणुना हिमवालुकाधूल्या स्वेदस्य धर्मजलस्य प्रतिक्रियां चिकित्सामकरवमकल्पयम् । उर इति । उरसि वक्षस्थले निहितं स्थापितं चन्दनद्रवेण मलयजरसेनार्दै क्लिन्नं वल्कलं यस्य स तथा तस्य । स्वच्छेति । स्वच्छा निर्मलाः सलिलसीकरा वातास्तवारिकणास्तेषां निकरः समूहस्तस्य साविणा स्यन्दिनैतादृशेन कदलीदलेन रम्भापत्रेण व्यजनक्रियां तालवृन्तकृत्यम् । 'व्यजनं तालवृन्तं तत्' इति कोशः । अन्वतिष्ठमकरवम् । एवं चेति । एवममुना प्रकारेण मुहुर्मुहुरिवारमन्यदन्यदन्यतरदन्यतरनलिनीदलशयनं कमलिनीपत्रशय्यामुपकल्पयतः कुर्वतः मुहुर्मुहुर्भूयोभूयश्चन्दनचर्चा मलयजमण्डनमारचयतो विदधतः, मुहुर्मुहुश्च वारंवारं स्वेदप्र -
- - - - - - - - - - - - - - - - - - - - - - - - - - - - टिप्प० -1 कमलिनीः इत्याशयः । 2 नीलोत्पलानीति वक्तव्यम् । 3 सामान्यतः पद्मानि । 4 'चन्दनविटपिनाम्' इत्यपि पाठः । 'वृक्षप्रभृतीनां किसलयानि इति लोकोत्तरो लेखः, वृक्षादन्येषामपि किसलयानि भवन्ति ? । 5 जलबिन्दुवर्षकेणेत्यर्थः ।
पाठा० - १ निवर्तयितुमिति. २ लाञ्छितानि चादाय. ३ विटपिनाम्. ४ प्रतीकारम्. ५ शीकरसाविणा. ६ नलिनदल.
(पुण्डरीकोपचारः
पूर्वभागः।
333