________________
तीतः खलूपदेशकालः । समतिक्रान्तो धैर्यावसरः । गता प्रतिसंख्यानवेला । अतीतो ज्ञानावष्टम्भसमयः । केन वान्येनास्मिन्समये भवन्तमपहायोपदेष्टव्यम्, उन्मार्गप्रवृत्तिनिवारणं वा करणीयम् । कस्यान्यस्य वा वचसि मया स्थातव्यम् । को वापरस्त्वत्समो मे जगति बन्धुः । किं करोमि, यन्न शक्नोमि निवारयितुमात्मानम् । इयमनेनैव क्षणेन भवता दृष्टा दुष्टावस्था । तद्गत इदानीमुपदेशकालः । यावत्प्राणिमि तावदस्य कल्पान्तोदितद्वादशदिनकरकिरणातपतीव्रस्य मदनसंतापस्य प्रतिक्रियां क्रियमाणामिच्छामि । पच्यन्त इव मेऽङ्गानि, उत्क्वथ्यत इव हृदयम्, प्लुष्यत इव दृष्टिः, ज्वलतीव शरीरम् । अत्र यत्प्राप्तकालं तत्करोतु भवान्' इत्यभिधाय तूष्णीमभवत् ।
एवमुक्तेऽप्यहमेनं प्राबोधयम् । यदा पुनःपुनः शास्त्रोपदेशविशदैः सनिदर्शनः सेतिहासैश्च वचोभिःसानुनयं सोपग्रह चाभिधीयमानोऽपि नाकरोत्कर्णे, तदाहमचिन्तयम् -
***********
विधृता कथमप्येव तिष्ठन्ति । यतो दुःसहमदनबाणैराक्रान्तस्य मम प्राणेष्वप्युपेक्षेति भावः । अत उपदेशो हितशिक्षाप्रदानसमयः खलु निश्चयेन दूरातीतो दूरेऽतिक्रान्तः । तथा धैर्यस्य धीरिमाया अवसरः समयः समतिक्रान्तो व्यतीतः । प्रतिसंख्यानवेलाध्यात्मक्षणो गता दूरीभूता । ज्ञानेन कृत्वा योऽवष्टम्भश्चित्तवृत्तिनिरोधस्तस्य समयोऽवसरः दूरं अतीतो व्यतिक्रान्तः । केनेति । अस्मिन्समये भवन्तमपहायान्येन केन वोपदेष्टव्यमुपदेशो दातव्यः । उन्मार्गेति । वाथवोन्मार्गेऽसाधुमार्गे या प्रवृत्तिः प्रवर्तनं तस्या निवारणं करणीयं कर्तव्यम् । कस्येति । अन्यस्य त्वद्व्यतिरिक्तस्य कस्य वा वचसि वचने मया स्थातव्यम् । न कस्यापीत्यर्थः । को वेति । अपरोऽन्यः को वा त्वत्समो मे मम जगति विश्वे बन्धुर्धाता । आविष्कृतं भावमुपसंहरति - किमिति । किं करोमि किं कुर्वे । यदिति हेतौ । आत्मानं स्वं निवारयितुं दुष्टप्रवृत्तेर्दूरीकर्तुं न शक्नोमि न समर्थो भवामि । अनेनेति । अनेनैव क्षणेन समयेनेयं दुष्टा दुःखदायिन्यवस्था दशा भवता त्वया दृष्टावलोकिता । तदिति । तस्माद्धेतोरिदानी सांप्रतमुपदेशकालः शिक्षाप्रदानसमयो गतो व्यतिक्रान्तः । अन्यस्मिञ्शमदमादिरूपनिवृत्तिकरणाभावे हेतुमाह - यावदिति । यावत्कालमहं प्राणिमि जीवामि तावत्पर्यन्तम् । कल्पेति । कल्पान्तो युगान्तस्तत्रोदिता उदयं प्राप्ता ये द्वादशदिनकरकिरणास्तेषां य आतपः प्रकाशस्तद्वत्तीव्रस्य कठिनस्य । दुःसहस्येति यावत् । एवंविधस्य मदनसंतापस्य कंदर्पज्वरस्य प्रतिक्रिया चिकित्सा तल्लक्षणां क्रियां क्रियमाणां विधीयमानामिच्छामि समीहे । विवेकादिप्रतिक्रियाया अभावे प्राकृतप्रतिक्रिया तया सह संगमरूपैवेति भावः । संतापमेव प्रकटयन्नाह - पच्यन्त इति । मे ममाङ्गानि हस्तपादादीनि पच्यन्त इव पाकविषयीक्रियन्त इव । हृदयं स्वान्तमुत्क्वथ्यत इवोत्क्वाथ्यत इव । दृष्टिर्लोचनं प्लुष्यत इव दह्यत इव । शरीरं देहं ज्वलतीव भस्मीभवतीव । अत्र यत्प्राप्तकालं यदेतत्समयोचितम् । तया सह संगमरूपमित्यर्थः । भवांस्तत्करोत्विति पूर्वोक्तमभिधायोक्त्वा तूष्णीमभवन्मौनमकरोत् ।
एवमिति । एवममुना प्रकारेणोक्तेऽपि कथितेऽप्यहमेनं पुण्डरीकं प्राबोधयं प्रबोधं कृतवान् । यदेति । यदा पुनःपुनर्भूयोभूयः शास्त्रस्य धर्मप्रतिपादकस्य ग्रन्थस्योपदेशः शिक्षा तेन विशदैर्निर्मलैः सनिदर्शनैः सोदाहरणैः सेतिहासैरितिहासः पुरावृत्तं तेन सहितैर्वचोभिः सानुनयं सप्रणयम् । 'प्रणतिः प्रणिपातेऽनुनये' इति कोशः । सोपग्रहं सानुकूलनम् । 'उपग्रहोऽनुकूलने' इति विश्वः । यथा स्यात्तथाभिधीयमान उपदिश्यमानोऽपि कर्णे श्रवणे नाकरोत् । अश्रुतमिव मदुक्तमकार्षीदित्यर्थः । तदेति । तदा तस्मिन्कालेऽहमचिन्तयमध्या -
-
-
-
-
-
-
-
- - - - टिप्प० - 1 नात्र इमनिच् स्यात् । सत्त्वेपि पुंस्त्वमेव स्यान स्त्रीत्वमिति छात्रैर्न भ्रमितव्यम् । 2 'प्र-णी धातोरर्थं विवृण्वन् 'प्र-णम्' धातोः प्रमाणमाह ।
पाठा० -१ दृष्टावस्था; अवस्था दृष्टा.
332
कादम्बरी।
कथायाम