________________
त्त्वोऽपि कस्मात्खद्योत इव ज्योतिर्निवार्यमिदं ज्ञानमुद्रहसि, यतो न निवारयसि प्रबलरजःप्रसरकलुषितानि सोतांसीवोन्मार्गप्रस्थितानीन्द्रियाणि, न नियमयसि वा क्षुभितं मनः । कोऽयमनङ्गो नाम । धैर्यमवलम्ब्य निर्भयंतामयं दुराचारः' इत्येवं वदत एव मे वचनमाक्षिप्य प्रतिपक्ष्मान्तरालप्रवृत्तबाष्पवेणिकं प्रभृज्य चक्षुः करतलेन मामवलम्ब्यावोचत् -
'सखे, किं बेहूक्तेन । सर्वथा स्वस्थोऽसि । आशीविषविषवेगविषमाणामेतेषां कुसुमचापसायकानां पतितोऽसि न गोचरे, सुखमुपदिश्यते परस्य । परस्य यस्य चेन्द्रियाणि सन्ति, मनो वा वर्तते, यः पश्यति वा, श्रृणोति वा, श्रृतमवधारयति वा, यो वा शुभमिदं न शुभमिदमिति विवेक्तुमलं स खलूपदेशमर्हति । मम तु सर्वमेवेदमतिदूरापेतम् । अवष्टम्भो ज्ञानं धैर्य प्रतिसंख्यानमित्यस्तमितैषा कथा । कथमप्येव मेऽयत्नविधृतास्तिष्ठन्त्यसवः । दूरा -
***********
इव ज्योतिस्तत्त्वज्ञानं प्रकाशश्च तेन निवार्य दूरीकरणाहँ ज्ञानमुद्रहसि धारयसि । अस्य दिवाप्रणष्टचैतन्यत्वेन तादृशधर्मवत्त्वसाधात्खद्योतस्योपमानमिति भावः । एतस्मिन्नर्थे हेतुमाह - यत इति । यस्माद्धेतोः प्रबलो यो रजःप्रसरः पापकर्मविस्तारो धूलिश्च तेन कलुषितानि मलिनीकृतानि स्वतोऽम्भःप्रसरणानि सोतांसि तानीवोन्मार्गप्रस्थितान्युत्पथप्रवृत्तानीन्द्रियाणि करणानि न निवारयसि न निवारणं करोषि । क्षुभितं क्षोभं प्राप्तं मनश्चित्तं न नियमयसि न नियन्त्रयसि । नामेति कोमलामन्त्रणे । कोऽयमनङ्गः कामः । धैर्यं धीरिमामवलम्ब्याश्रित्यायं दुराचारो दुष्टाचरणो निर्भर्त्यतां तिरस्क्रियताम् । इत्येवं पूर्वोक्तप्रकारेण वदत एव कथयत एव मम वचनं वच आक्षिप्यावगणय्य । प्रतीति । प्रति प्रत्येकं यत्पक्ष्मणोऽन्तरालं विचालं तत्र प्रवृत्ता बाष्पवेणिका यस्मिन्नेवंभूतं चक्षुः । अत्र वेणी प्रवाहः । 'वेणी धारा रयश्च सः' इति कोशः । स्वार्थे कप्रत्यये 'केऽणः' इति हस्वत्वम् । प्रमृज्येति । प्रमार्जनां कृत्वा करतलेन हस्ततलेन मामवलम्ब्यालम्बनीकृत्यावोचदब्रवीत् । किं तदित्याह - सख इति । __ हे सखे, बहूक्तेन बहुभाषितेन किम् । सर्वथा त्वं स्वस्थो निरुपद्रवोऽसि । तत्र हेतुमाह - आशीति । आशीविषाः सस्तेिषां विष
वेगो गरलप्रसरस्तद्विषमाणां कठिनानामेतेषां कुसुमचापसायकानां मन्मथवाणानां गोचरे विषये न पतितोऽसि, तेन त्वया परस्य सुखमुपदिश्यत उपदेशः क्रियते । स्वस्योपदेशानर्हत्वं प्रतिपादयन्नाह - परेति । परस्य मद्व्यतिरिक्तस्य यस्य पुंस इन्द्रियाणि करणानि सन्ति । वेति सर्वत्र विकल्पार्थः । यस्य मनो वर्तते । यः पुमान्पश्यतीक्षते श्रृणोत्याकर्णयति वा । श्रुतमाकर्णितं चावधारयति जानाति । तदभिप्रायावधारणं करोतीत्यर्थः । यः पुमानिदं शुभमिदमशुभमिति विवेक्तुं विवेचनां कर्तुमलं समर्थः । यत्तदोर्नित्याभिसंबन्धात्स पुमानुपदेशं हितशिक्षामर्हति योग्यो भवति । मम तु सर्वमेवेदं पूर्वोक्तं दूरापेतं दुरापास्तम् । इत्येषा कथा वास्तिमितास्तं प्राप्ता । इतिशब्दद्योत्यमाह - अवेति । अवष्टम्भश्चित्तवृत्तिनिरोधः, ज्ञानं विवेकः, धैर्य बाह्येन्द्रियनिरोधः, प्रतिसंख्यानमध्यात्मज्ञानम् । कथमिति । मे ममासवः प्राणा अयत्नेनाप्रयासेन - टिप्प०-1 अस्मिन्पाठे-खयोतो ज्योतिषा निवार्यं किमुबहतीति कर्मणोऽपेक्षा । तस्मात्-'ज्योतिर्निर्वीर्यमिदम् इत्येव पाठः । खयोतो यथा निर्वीर्य ज्योतिस्तथा त्वं निर्वीर्यम् (अहितनिवारणाभावादसमर्थम्) ज्ञानमुबहसीति तदर्थः । 2 प्रबलो यो रजसः रजोगुणसंभूतस्य कामस्य प्रसरः वेगस्तेन कलुषितानि । उक्तं गीतायाम्-'काम एष क्रोध एष रजोगुणसमुद्भवः' पक्षान्तरे स्पष्टोऽर्थः । 3 समाप्तेः पूर्वमेव स्ववचनेन विच्छिद्य । 4 यस्येति यत्पदेनापि स एव गृह्यते यस्येन्द्रियाणि सन्तीति इन्द्रियशून्यात्पुण्डरीकात्पर एव स्वतो ग्रहीष्यते । प्रत्युत पौनरुक्त्येन वैरूप्यम् । पाठा० - १ च. २ पाणौ माम्. ३ बहुनोक्तेन. ४ सुस्थोऽसि. ५ वियते.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
कपिजलकृत उपदेशः
पूर्वभागः ।