________________
कपिञ्जलः । यदि तावदितरकन्यकेव विहाय लज्जाम्, उत्सृज्य धैर्यम्, अवमुच्य विनयम्, अचिन्तयित्वा जनापवादम्, अतिक्रम्य सदाचारम्, उल्लङ्घय शीलम्, अवगणय्य कुलम्, अङ्गीकृत्यायशः, रागान्धवृत्तिः, अननुज्ञाता पित्रा, अननुमोदिता मात्रा, स्वयमुपगम्य ग्राहयामि पाणिम्, एवं गुरुजनातिक्रमादधर्मो महान् । अथ धर्मानुरोधादितरपक्षावलम्बनद्वारेण मृत्युमङ्गीकरोम्येवमपि प्रथमं तावत्स्वयमार्गतस्य प्रथमप्रणयिनस्तत्रभवतः कपिञ्जलस्य प्रणयप्रसरभङ्गः । पुनरपरं यदि कदाचित्तस्य जनस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिरुपजायते, तदपि मुनिजनवधजनितं महदेनो भवेत्, इत्येवमुच्चारयन्त्यामेव मैयि चन्द्रोदयजन्मना विरलविरलेनालोकेन वसन्तवनराजिरिव कुसुमरजसा घूसरतां वासवी दिगयासीत् ।
ततः शशिकेर्सेरिविदार्यमाणतमः करिकुम्भसंभवेन मुक्ताफलक्षोदेनेव धवलतामुपनीयमा -
***** ******
यदीति । यदि तावत्स्वयमेव । कुमारानुसरणमननुसरणं चेति कोटिद्वयम्, तृतीयं पुनरपरमिति किंचिद्वारमाश्रित्य गूढाभिसंधिः । आद्येत्वाह - इतरेति । इतरकन्यकेव नीचकुलोत्पन्नकन्येव लज्जां त्रपां विहाय, धैर्यं साहसमुत्सृज्य दूरीकृत्य, विनयं यथोचितव्यापारमवमुच्य त्यक्त्वा, जनापवादं कौलीनमचिन्तयित्वाऽध्यात्वा सदाचारं शोभनानुष्ठानमतिक्रम्योल्लङ्घय, शीलं परपुरुषेष्वनभिरतिस्वभावम् । 'शीलं साधुवृत्तस्वभावयोः' इत्यनेकार्थः । तदुल्लङ्घयातिक्रम्य, कुलमभिजनस्तदवगणय्यावगणनां कृत्वा, अयशोऽकीर्तिमङ्गीकृत्य स्वीकृत्य, रागेण कामरागेणान्धा वृत्तिर्वर्तनं यस्याः सैवंविधाहं पित्रा जनकेनाननुज्ञाताऽदत्तानुशासना, मात्रा चाननुमोदिताऽश्लाघिता स्वयमात्मनोपगम्य समीपे गत्वा पाणि ग्राहयामि हस्तग्रहणं करोमि । एवममुना प्रकारेण गुरुजनाः पूज्यजना मातृपित्रादयस्तेषामतिक्रमादुल्लङ्घनान्महानधर्मः स्यात् । स त्वनुचित इति शेषः । अननुसरणमभिप्रेत्याह - अथेति । अथ धर्मानुरोधादितरः पक्षोऽननुसरणात्मकस्तस्यावलम्बनमाश्रयणं तद्वारेण प्रथमं मृत्युं व्यवरोपणमङ्गीकरोमि स्वीकरोमि । एवमपि प्राणविमोचनेऽपि तावदादौ स्वयमागतस्य प्रथमप्रणयिन आद्यस्नेहवतस्तत्रभवतः पूज्यस्य कपिञ्जलस्य प्रणयप्रसरस्य स्नेहवृद्धेर्भङ्गो नाशः स्यात् । पुनरपरमपि दूषणं वक्तुमाह यदीति । यदि कदाचित्तस्य जनस्य पुण्डरीकस्य मत्कृतादाशाभङ्गात्प्राणविपत्तिर्जीवितनाश उपजायते भवेत्, मुनिजनवधजनितं तद महदेनः पातकं भवेदित्येवमुच्चारयन्त्यां वदन्त्यामेव मयि चन्द्रस्य शशाङ्कस्योदय उद्गमस्तस्माज्जन्मोत्पत्तिर्यस्य स तेन । विरलं च विरलं च विरलविरलं तेन । तुच्छतुच्छेनेत्यर्थः । एवंविधेनालोकेन प्रकाशेन । केन केव । कुसुमेति । कुसुमरजसा पुष्परागेण वसन्तवनराजिरिव काननलेखेव वासवी दिक्प्राक्ककुब्धूसरतामीषत्पाण्डुताम् । 'ईषत्पाण्डुस्तु धूसरः' इति कोशः । अयासीर्दप्रापत् ।
तत इति । ततो दिङ्मुखधूसरणानन्तरमिन्दुधाम्ना शशाङ्कतेजसा पाण्डुतां श्वेततामापाद्यमानं विधीयमानं पश्चिमेतैरं दिगन्तरं पौर्व दिग्विभागमदृश्यतालोक्यत । जनैरिति शेषः । पाण्डुत्वसाम्येनाह - शशीति । शश्येव विदारणकर्तृत्वात्केसरीं तेन विदार्यमाणो भिद्यमानो यः कृष्णत्वसाम्यात्तम एव करी तस्य कुम्भौ शिरसः पिण्डौ तयोः संभव उत्पत्तिर्यस्यैवंभूतेन मुक्ताफलानां मौक्तिकानां क्षोदेनेव चूर्णेनेव धवलतां शुभ्रतामुपनीयमानं प्राप्यमाणम् । उदयगिरिसंबन्धिनो ये सिद्धा गन्धर्वविशेषा विद्यासिद्धा वा तेषां याः सुन्दर्यः -
टिप्प० - 1 लोककृतां निन्दामिति सरलोऽर्थः । 2 पुनः सैव आपत् ! प्रापत् इत्येवोचितम् । 3 अव्युत्पन्नोचितमिदम् । 'इतरत्' इत्येव पाठः । 4 वास्तवे तु - 'केसरिकरनखरविदार्यमाण' इत्येव पाठः ।
पाठा० - १ उन्मुच्य २ आगत्य ३ मय्यासन्न. ४ केसरिकर.
चन्द्रोदयः
-
पूर्वभागः ।
339