________________
नम्, उदयगिरिसिद्धसुन्दरीकुचच्युतेन चन्दनचूर्णराशिनेव पाण्डुरीक्रियमाणम्, चलितजलधिजलकल्लोलानिलोल्लासितेन वेलापुलिनसिकतोद्गमेनेव पाण्डुतामापाद्यमानं पश्चिमेतरमिन्दुधाम्ना दिगन्तरमदृश्यत । शनैः शनैश्चन्द्रदर्शनान्मन्दमन्दस्मिताया दशनप्रभेव ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । तदनु रसातलादवनीमेवदीर्योद्गच्छता शेषफणीमण्डलेनेव रैंजनीकरबिम्बेनाराजत रजनी । क्रमेण च सकलजीवलोकानन्दकेन कामिनीजनवल्लभेन किंचिदुन्मुक्तबालभावेन मकरध्वजबन्धुभूतेन समुपारूढरागेण सुरतोत्सवोपभोगेकयोग्येनामृतमयेन यौवनेनेवारोहता शशिना रमणीय - तामनीयत यामिनी ।
अथ तं प्रत्यासन्नसमुद्रविद्रुमप्रभापाटलितमिव, उदयगिरिसिंहकरतलाहतहरिणशोणितशो -
***********
स्त्रियस्तासां कुचाः पयोधरास्तेभ्यश्च्युतेन गलितेन चन्दनचूर्णराशिनेव मलयजक्षोदसमूहेनेव पाण्डुरीक्रियमाणं शुभ्रतामापाद्यमानम् । चलितेति । चलितं कम्पितं यज्जलधिजलं समुद्राम्भस्तस्य कल्लोलानिलैस्तरङ्गवायुभिरुल्लासितेनोल्लासं प्रापितेन वेलाम्भसो वृद्धिस्तस्याः पुलिनं जलोज्झितं तटं तस्य सिकता वालुका तस्या उद्गमेनेव प्रकटनेनेव । शनैःशनैर्मन्दमन्दं ज्योत्स्ना निःपतन्ती निशाया मुखशोभामकरोत् । विशदत्वसाम्येनाह - दशनेति । चन्द्रदर्शनात्स्वकीयनाथनिरीक्षणान्मन्दं मन्दं स्मिताया दशनप्रभेव दन्तकान्तिरिव । तदन्विति । तदनु पश्चाद्रसातलान्नागलोकादवनीं पृथ्वीमवदीर्य विदारणं कृत्वोद्गच्छता प्रादुर्भवता । श्वेतत्ववर्तुलत्वसाम्येनाह - शेषेति । शेषस्य नागाधिपतेः फणामण्डलेनेव फणासमूहेनेव रजनीकरबिम्बेन रजनी त्रियामाऽराजताशोभत । अत्र रजनीकरबिम्बमात्रग्रहणेन चन्द्रस्य बालभावप्रकटीकरणात्समुपारूढातिरागेणेति पूरणीयम् । ततश्च चन्द्रोदयकालेऽतीवारुण्यं बालत्वात् । तदनन्तरं च तरुणावस्थायामारुण्यमात्रम् । अत एव समुपारूढरागेणेत्येवाग्रे विशेषणम् । तथा शेषफणेत्यत्रानवरतकमलाकरकमलतललालितहरिपदाम्बुजप्रभारुणाभेति पूरणीयम् । तेन सर्वं साम्यमुपपद्यते । ततः क्रमेण परिपाट्या शशिना चन्द्रेण यामिनी रात्री रमणीयतां शोभनीयतामनीयत प्रापिताभूत् । 'नी प्रापणे' धातुः । अथच शशिनं विशेषयन्नाह - सकलेति । सकलः समग्रो यो जीवलोको मनुष्यलोकस्तस्यानन्दकेन प्रमोदोत्पादकेन कामिनीजनः स्त्रीलोकस्तस्य वल्लभेन प्रियेण । किंचिदिति । किंचिदीषदुन्मुक्तस्त्यक्तो बालभावः शिशुत्वं येन स तेन । मकरेति । मकरध्वजस्य कंदर्पस्य बन्धुभूतेन स्वजनभूतेन । समिति । समुपारूढोऽध्यासितो रागो रक्तता येन स तेन । सुरतेति । सुरतोत्सवे निधुवनक्षणे य उपभोगस्तत्रैकयोग्येन । सर्वथोचितेनेत्यर्थः । अमृतमयेन पीयूषात्मकेन । किं कुर्वता । आरोहतारोहणं कुर्वता । गगनमिति शेषः । सकलानन्दकारित्वादिसाधर्म्यादुत्प्रेक्षते - यौवनेनेव तारुण्येनेव ।
अथ चन्द्रस्य तरुणभावं वर्णयन्नाह - अथेति । आरोहणानन्तरं तं रजनीकरं चन्द्रमुदितं विलोक्य निरीक्ष्याहं तत्क्षणं तत्कालमचिन्तयं चिन्तितवतीत्यन्वयः । अथ रजनीकरं विशिनष्टि अभीति । अभिनवः प्रत्यग्रो य उदयरागस्तेन लोहितं रक्तम् । अत एव कीदृशमिव । प्रत्यासन्नः समीपवर्ती यः समुद्रः पयोधिस्तस्मिन्विद्रुमा रक्तकन्दास्तेषां प्रभाः कान्तयस्ताभिः पाटलितमिव श्वेतरक्तीकृतमिव । उदयेति । उदयगिरेः पूर्वाद्रः -
340
-
टिप्प० - 1 तरङ्गवायुभिः पुलिनस्थः सिकतासमूह एवं उड्डीय उपरिगतो भवेत्तेनेव इन्दुधाम्ना इत्युप्रेक्षा । 2 मन्दमन्दं स्मितं यस्यास्तस्या इत्यर्थ उचितः । 3 'अवदार्य' इत्युचितः । 4 'अत्र रजनिकरबिम्बमात्रग्रहणेन ०' इत्यादि निरर्थकं, आवश्यकं द्वयोः साधर्म्यं चापलपनमयत्यनेन । सकलजीवलोकानन्दजनकत्वादिविशेषणकृतं साधर्म्यं प्रायः उभयत्र साम्येन । यौवने बालभावस्य उन्मोको जायत एव । एकत्र रागः आरुण्यम्, यौवनपक्षे अनुरागः । अमृतं प्रमोदः ( यौवनपक्षे ), आरोहता ( शरीरे विजृंभमाणेन, इति यौवनपक्षे ) ।
पाठा० - १ पश्चिमेतरत्. २ अवदार्य. ३ फण. ४ रजनिकर. ५ निजहरिण.
कादम्बरी ।
कथायाम्