________________
णीकृतमिव, रतिकलहकुपितरोहिणीचरणालक्तरसलाञ्छितमिवाभिनवोदयरागलोहितं रजनीकरमुदितं विलोक्यान्तर्ध्वलितमदनानलाप्यन्धकारितहृदया तरलिकोत्सङ्गविधृतशरीरापि मन्मथहस्तवर्तिनी चन्द्रगतनयनापि मृत्युमालोकयन्ती तत्क्षणमचिन्तयम्, - 'एकत्र खलु मेधुमासमलयमारुतप्रभृतयः समस्ताः, एकत्र चौयं पापकारी चन्द्रहतको न शक्यते सोढुम् । इदमतिदुर्विषहं मे हृदयम् । अस्य चोद्गमनमिदं सदाहज्वरग्रस्तस्याङ्गारवर्षः, शीतार्तस्य तुषारपातः, विविस्फोटमूर्छितस्य कृष्णसर्पदंशः, इत्येवं चिन्तयन्तीमेव चन्द्रोदयोपनीता कमलवनम्लानिनिदेव मूर्छा मां निमीलितलोचनामकार्षीत, । अचिरेण च संभ्रान्ततरलिकोपनीताभिश्चन्दनचर्चाभिस्तालवृन्तानिलैचोपलब्धसंज्ञा तामेवाकुलाकुला मूर्तेनेवाधिष्ठितां विषादेन मल्ललाटविधृतसवच्चन्द्रकान्तमणिशलाकामविच्छिन्नबाष्पजलधारान्धकारितमुखीं रुदन्ती तर -
*********** सिंहो हर्यक्षस्तस्य करतलेन चपेटयाहतस्ताडितो यो हरिणः तस्य शोणितं रुधिरं तेन शोणीकृतमिव रक्तीकृतमिव । रतिकलहेन कामकलहेन कुपिता कोपं प्राप्ता या रोहिणी चन्द्रस्त्री तस्याश्चरणौ पादौ तयोरलक्तरसो यावकद्रवस्तेन लाञ्छितमिव चिह्नितमिव । अथ महाश्वेतां विशेषयन्नाह - अन्तरिति । अन्तर्मध्ये ज्वलितो मदनानलः कामवह्निर्यस्यामेवंविधाप्यन्धकारितं हृदयं यस्या इति । अन्धकारप्रज्वलनयोमिथो विरोधात् । तरलिकेति । तरलिकाया उत्सङ्गः क्रोडस्तत्र विधृतं स्थापितं शरीरं देहो यया एवंविधापि मन्मथहस्तवर्तिनी कंदर्पकरगतेति विरोधः । चन्द्रेति । चन्द्रे शशाङ्के गते प्राप्ते नयने लोचने यस्याः एवंविधापि मृत्यु मरणमालोकयन्तीति विरोधः । अत्र सर्वत्रापिशब्दो विरोधालंकारद्योतकः । एतत्परिहारश्चार्थभेदेन स्वयमूह्यः । स्वस्य संकटप्रविष्टतामावेदयन्त्याह - एकत्रेति । खलु निश्चयेन । एकत्रैकस्मिन्स्थलेमधुमासमलयमारुतप्रभृतयः समस्ताः । एतेषामुद्दीपकत्वादेवोपादानम् । एकत्रेति । एकस्मिन्स्थले पापकारी पापिष्ठश्चन्द्र एव हतको हत्याकृत्सोढुं न शक्यते न पार्यते । विरहिणीहृदयस्य दुःखासहिष्णुत्वमाविःकुर्वनाह - इदमिति । अतिदुःखेन विप॑हत इति दुर्विषहं हृदयं तथा । अस्य चन्द्रस्येदमुद्गमनं सदाहेन वर्तमानो ज्वरस्तापस्तेन ग्रस्तस्य । अङ्गारेति । अङ्गारवर्ष उल्मुकवृष्टिः । अङ्गारः साग्निर्निरग्निश्च द्विविधो वर्ण्यते । साग्नौ यथा - 'अङ्गारचुम्बितमिव व्यथमानमास्ते'; निरग्नौ यथा - 'कलङ्कस्तत्रत्यो व्रजति मलिनाङ्गारतुलनाम्' इत्यादि प्रयोगः । शीतेति । शीतार्तस्य शीतपीडितस्य तुषारो हिमं तस्य पातः पतनम् । विषेति । विषं गरलं तस्य विस्फोटकेन मूर्छितस्य मूर्छा प्राप्तस्य कृष्णसर्पस्य दंशो दशनम् । एतादृशमुद्गमनम् । इत्येवं चिन्तयन्तीं ध्यायन्तीमेव मूर्छा मा निमीलिते लोचने नेत्रे यस्या एवंविधामकार्षीत् । केव । चन्द्रोदयेन शशाङ्कोद्गमनेनोपनीता प्रापिता कमलवनस्य म्लानिः संकोचस्तस्मिन्या निद्रा सेव । अचिरेणेति । अल्पकालेन संभ्रान्ता व्यामोहं प्राप्ता या तरलिका तयोपनीताभिरानीताभिश्चन्दनचर्चाभिर्मलयजसमालम्वनैस्तालवृन्तानिलैश्च व्यजनवातैश्चोपलब्धा संज्ञा चैतन्यं यया सा तामेव तरलिकामाकुलाकुलामुत्पिञ्जलां मूर्तेनेव विषादेनाधिष्ठितामाश्रिताम् । मदिति । मम ललाटे मदलीके विधृता स्थापिता सवन्ती जलं क्षरन्ती चन्द्रकान्तमणिशलाका यया सा ताम् । अस्या जलस्यातिशीतलत्वात्तत्स्थापनमुचितमेवेति भावः । अवीति । अविच्छिन्नात्रुटिता बाष्पजलधारा नेत्रवारिसंततिस्त -
-
-
-
-
-
-
-
टिप्प० - 1 अन्धकारो विरहेण प्रमोदराहित्यमिति समाधानम् । 2 मन्मथवशीभूतेति समाधानम् । 3 प्रियसमागमाभावे स्मरतापात्संमुखस्थं मरणं संभावयन्तीति समाधानम् । 4 उद्दीपनकार्ये मलयमारुतादीनां बहूनां प्रातिद्वन्द्वये अयमेक एव चन्द्रस्तुल्य इति ‘एकत्रायम्' इत्यादेस्तात्पर्यम् । 5 अत एव 'इदमतिदुर्विषहमदनवेदनातुरं च' इत्येव पाठः । अतिदुःसहया मदनवेदनया आतुरं विह्वलमिति । तदर्थः । 6 विषवज्ज्वालाजनकेन व्रणविशेषेण । इत्यर्थो बोध्यः । 7 म्लानिरेव निद्रा।
पाठा० - १ लोहितं. २ मदनमधु. ३ चापकारी. ४ दुर्विषमदनवेदनातुरं च; दुर्विषहहृदयम्. ५ विषस्फोट. ६ विचिन्तयन्तीम्. ७ ग्लानि.
महाश्वेताया अभिसारः
पूर्वभागः ।