________________
लिकामपश्यम् । उन्मीलितलोचनां च मां सा कृतपादप्रणामा चन्दनपङ्काइँण करयुगलेन बद्धाञ्जलिरवादीत् - 'भर्तृदारिके, किं लज्जया गुरुजनापेक्षया वा । प्रसीद । प्रेषय माम् । आनयामि ते हृदयदयितं जनम् । उत्तिष्ठ । स्वयं वा तत्र गम्यताम् । अतः परमसमर्थासि सोढुमिमं प्रबलचन्द्रोदयविजृम्भमाणोत्कलिकाशतमुदधिमिव मकरचिह्नम् इत्येवंवादिनी तामवोचम् - 'उन्मत्ते, किं मन्मथेन । नन्वयं सर्वविकल्पानपाहरन्, सर्वोपायदर्शनान्युत्सारयन्, अन्तरायानन्तरयन्, सर्वसंदेहानपनयन्, सर्वशङ्कास्तिरस्कुर्वन्, लज्जामुन्मूलयन्, स्वयमभिगमनलाघवदोषमावृण्वन्, कालातिपातं परिहरन्, आगत एव मृत्योस्तस्यैव वा सकाशं नेता कुमुदबान्धवः । तदुत्तिष्ठ । यथाकथंचिनुगमनेन जीविता संभावयामि हृदय -
***********
यान्धकारितं विच्छायितं मुखं यस्याः सा तां रुदन्तीं रोदनं कुर्वन्तीं तामेव तरलिकामपश्यमव(वा)लोकयम् । उन्मीलितेति । उन्मीलिते विकसिते लोचने नेत्रे यस्याः सा ताम् । एवंविधां मां सा तरलिका । कृतेति । कृतो विहितः पादयोश्चरणयोः प्रणामो नतिर्यया सा । चन्दनेति । चन्दनस्य मलयजस्य पङ्कः कर्दमस्तेनाइँण क्लिन्नेन करयुगलेन हस्तयुग्मेन बद्धोऽञ्जलिर्यया सैवंविधावादीदवोचत् । किं तदित्याह - भत्रिति । हे भर्तृदारिके, किं लज्जया त्रपया । गुरुजनानां मातृपित्रादीनामपेक्षया वा किम् । प्रसीद प्रसन्ना भव । मां तत्र प्रेषय प्रेषणं कुरु । ते तव हृदयदयितं प्राणाप्रियमेतादृशं जनमानयाम्यानयनं करोमि । वेति पक्षान्तरे । उत्तिष्ठोत्थानं कुरु । तत्र तस्मिन्स्थले गम्यतां गमनं क्रियताम् । इतः परं मकरचिह्न मन्मथं सोढुमसमक्षमासि । कमिव । उदधिमिव समुद्रमिव । तत्र मकरा मत्स्याश्चिह्नानि यस्य । एतादृशसाम्येऽपि साम्यान्तरमाह - प्रबलेति । प्रबलः प्रकृष्टो यश्चन्द्रोदयस्तेन विजृम्भमाणा वृद्धि प्राप्ता उत्कलिका उत्कण्ठास्तासां शतं यस्मात् । अथतरङ्गाणामुत्कलिका आरोहावरोहरूपास्तासां शतं यस्मिन्नित्येवंवादिनीं तां तरलिकामवोचमवदम् । किं तदित्याह - उन्मत्ते इति । हे उन्मत्ते परवेदनायाः स्वानुभववदनभिज्ञे तरलिके, मन्मथेन कंदर्पणैकेन किं स्यात् । नन्वाक्षेपे । अयं मृत्योर्मरणस्य तस्यैव वा कुमारस्य सकाशं समीपं नेता प्रापकः कुमुदबान्धवश्चन्द्र आगत एव प्राप्त एव । एतेन चन्द्रस्योद्दीपकत्वाद्विरहवेदनायास्तीव्रत्वात्कुमारनिकटेऽपि समागमनमशक्यमित्युत्कण्ठातिशयो दर्शितः । किं कुर्वन् । सर्वेति । सर्वविकल्पान्समग्रचिन्तितानपाहरअपहरणं कुर्वन् । सर्वेति । सर्वे समग्रा ये उपायाश्चन्दनवासप्रक्षेपादयस्तेषां दर्शनौनि विलोकनान्युत्सारयन्दूरीकुर्वन् । अन्तरायेति । अन्तराया अयं मुनिकुमारोऽहं च राजकुलोत्पन्नेत्युभयोर्विलक्षणकुलशीलस्वभावलोकगर्हारूपास्तानन्तरयन्व्यवधानं कुर्वन् । सर्वति । एतदनुसरणे किंचिदनिष्टं स्यादित्येवंरूपाः सर्वे ये संदेहा द्वापरास्तानपनयन्दूरीकुर्वन् । सर्वेति । सर्वाश्च ताः शङ्का मातृपितृवर्गात्समुद्भूता आरेकास्तास्तिरस्कुर्वन्यक्कुर्वन् । लज्जेति । लज्जां त्रपामुन्मूलयन्न (न् छि) च्छिन्दन् । स्वयमिति । स्वयमात्मनाभिगमने तदनुसरणे लाघवदोषं लघुतादूषणमावृण्वन्नाच्छादयन् । कालेति । कालस्य समयस्यातिपातमविलम्ब परिहरन्परित्यजन् । तत्तस्मात्कारणादुत्तिष्ठोत्थानं कुरु । अतित्वरयेति शेषः । एतेनानुसरणे आदरातिशयः सूचितः । अनुगमनेन यथाकथंचिद्यदि जीविता श्वसिता सदा यनिमित्तमायासोऽनभयते तमायासकारिणं हृदयदयितं जनं संभावयामि । अनुसरणफलीभतेन सह -
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
टिप्प० - 1 विजृम्भमाणम् तरङ्गशतं यस्मिन् इत्यर्थः । 2 'इदं वा कर्तव्यम्, इदं वा' इत्यादिवितर्कान् । 3 दृश्यते अयमुपायो जीवरक्षणाय, इति दर्शनानि ज्ञानानि । 4 'सर्वानन्तरायान्' इत्येव प्रक्रमानुकूलः पाठः । 5 विलम्बमित्युचितम् ।
पाठा० - १ तामहमवोचम्. २ उन्मत्तिके. ३ अपहरम्. ४ सर्वानन्तरायान्. ५ अनुगमनजीवना; अनुद्गतजीविता.
(342
कादम्बरी ।
कथायाम्