________________
दयितमायासकारिणं जनम्' इत्यभिदधाना मदनमूर्च्छास्वेदेविह्वलैरङ्गैः कथंचिदवलम्ब्य तामेवोदतिष्ठम् । उच्चलितायाश्च मे दुर्निमित्तनिवेदकमस्पन्दत दक्षिणं लोचनम् । उपजातशङ्का चाचिन्तयम् - 'इदमपरं किमप्युपक्षिप्तं दैवेन' इति ।
अथ नातिदूरोद्गतेन त्रिभुवनप्रसादमहाप्रणालानुकारिणा सुधासलिलप्लवनिव वहता चन्दनरसनिर्झरनिकरानिव क्षरतामृतसागरपूरानिवोद्गिरता श्वेतगङ्गाप्रवाहसहस्राणीव वमता चन्द्रमण्डलेन प्लाव्यमाने ज्योत्स्नया भुवनान्तराले, श्वेतद्वीपनिवासमिव सोमलोकदर्शनसुखमिवानुभवति जने, महावराहदंष्ट्रामण्डलनिभेन शशिना क्षीरसागरोदरादिवो - द्विध्रयमाणे महीमण्डले, प्रतिभवनमङ्गनाजनेन विकचकुमुदगन्धैश्चन्दनोदकैरुपह्रियमाणेषु चन्द्रोदयार्घेषु, कामिनीप्रहितसुरतदूतीसहस्रसंकुलेषु राजमार्गेषु नीलांशुकरचितावगुण्ठनासु चन्द्रालोकभ -
***********
संगमरूपेण समाधानं करिष्यामीत्याशयः । इत्यभिदधानेतिब्रुवाणा । मदनेति । मदनमूर्च्छया जनितो यः स्वेदस्तेन विह्वलैर्व्याकुलैरङ्गैर्हस्तपादादिभिः । कथंचिन्महता कष्टेन तामेव तरलिकामवलम्ब्यालम्बनीकृत्योदतिष्ठमुत्थितवती । उच्चेति । उच्चलिताया उत्प्राबल्येन प्रस्थिताया मे मम दुर्निमित्तं कुमारस्य विगतजीवितत्वादिकं तस्य निवेदकं ज्ञापकं दक्षिणं सव्येतरं लोचनं नयनमस्पन्दतास्फुरत् । उपेति । उपजाता समुत्पन्ना शङ्कानिष्टोत्प्रेक्षणं यस्या एवंविधा चाहमित्यचिन्तयमित्यध्यायम् । इतिप्रतिपाद्यमाह - इदमिति । दैवेन विधिना परमिदं किमुपक्षिप्तं निक्षिप्तम् ।
1
अथेति । दुर्निमित्तोपागमानन्तरं प्रदोषसमय एव यामिनीमुख एव तस्मात्प्रासादशिखरात्पूर्वोक्तसौधप्रान्तादवातरमुत्तीर्णा । उत्तीर्य च प्रमदवनपक्षद्वारेण पक्षकेण निर्गत्य निर्गमनं कृत्वाहं महाश्वेता एव तत्समीपं पुण्डरीकाभ्यर्णमुदचलमुदगच्छमिति दूरेणान्वयः । कस्मिन्सति । चन्द्रमण्डलेन शशिबिम्बेन ज्योत्स्नया कौमुद्या भुवनान्तराले विष्टपविशाले प्लाव्यमाने पूर्यमाणे सतीत्यर्थः । कीदृशेन चन्द्रमण्डलेन । नातिदूरोद्गतेनातिविप्रकृष्टोदितेन । अत्र च ज्योत्स्नायाः श्वेतत्वसंतोषजनकत्वस्वभावतया सुधासाम्येन तां वर्णयितुं चन्द्रमण्डलविशेषणमाह - सुधेति । सुधा पीयूषं तृषोपशामकत्वात् तदेव सलिलं तस्य प्लवाः पूरास्तानिव वहता दधता । सलिलं गेहप्रणालेन गच्छतीत्याशयेनाह . त्रिभुवनेति । त्रिभुवनमेव प्रासादो देवगृहं तस्य महाप्रणालानुकारिणा जलमार्गसादृश्यधारिणा । पुनस्तेनैव साम्येन द्विधा वर्णयन्नाह चन्दनेति । चन्दनरसस्य मलयजद्रवस्य यो निर्झरो झरस्तस्य निकरानिव समूहानिव क्षरता क्षरणं कुर्वता । अमृतेति । अमृतस्य यः सागरः समुद्रस्तस्य पूरानिव प्लवानिवोद्गिरता वमता । श्वेतेति । श्वेतगङ्गायाः श्वेतजाह्नव्याः प्रवाहाणामोघानां सहस्राणीव वमतोद्गिरता । श्वेतेति । श्वेतद्वीपे यो निवासस्तमिव सोमलोकस्य यद्दर्शनसुखं तदिव जनेऽनुभवति साक्षात्कुर्वति सति । महेति । महावराहस्यादिवराहस्य यद्दष्ट्रामण्डलं तस्य निभेन सदृशेन शशिना चन्द्रेण । इदं च शशिनः किंचित्कलाहीनत्वमादायेत्युक्तम् । अन्यथा दंष्ट्राया वक्रत्वेन चन्द्रमण्डलस्य वर्तुलत्वेन साम्यं न स्यात् । क्षीरेति । क्षीरसागरोदराद् दुग्धोदधिमध्यान्महीमण्डल उध्रियमाण इव बहिर्निष्काश्यमान इव । परमेश्वरेण महावराहरूपं धृत्वा मही समुद्रे मज्जन्ती दंष्ट्रायां धृतेति पुराणप्रसिद्धिः । प्रतीति । प्रतिभवनं प्रतिगृहमङ्गनाजनेन स्त्रीजनेन विकचकुमुदानां विकस्वरकैरवाणां गन्धो येष्वेवंविधैश्चन्दनोदकैश्चन्द्रोदयार्घेषु शशाकोद्गमनपूजासूपह्रियमाणेषु क्रियमाणेषु सत्सु । कामिनीति । कामिनीभिः स्त्रीभिः प्रहिताः प्रेषिता याः सुरतार्थं दूत्यः संचारिकास्तासां सहस्रं तेन संकुलेषु व्याप्तेषु राजमार्गेषु श्रीपथेषु
टिप्पo - 1 मदनस्य मूर्च्छया वृद्ध्या । वस्तुतस्तु मदनेन, मूर्च्छया (या हि वर्णिता कविना), स्वेदेन एतैस्त्रिभिः (हेतुभिः) विह्वलैः आतुरैः, इत्यर्थः । 2 विष्टपमध्ये इत्यर्थ उचितः ।
पाठा० - १ खेद. २ पूरान्. ३ आप्लाव्यमाने.
महाश्वेताया अभिसारः
पूर्वभागः ।
343