SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ यचकितासु कमलवनलक्ष्मीष्विव नीलोत्पलप्रभापिहितास्वितस्ततः पलायमानास्वभिसारिकासु, प्रतिकुमुदमावद्धमधुकरमण्डलासु प्रबुध्यमानासु भवनदीर्घिकाकुमुदिनीषु, स्फुटितकुमुदवनबहलधूलिधवलितोदरे निशानदीपुलिनायमानेऽन्तरिक्षे, चन्द्रोदयानन्दनिर्भर महोदधाविव रतिरसमय इव उत्सवमय इव विलासमय इव प्रीतिमय इव जीवलोके, शशिमणिप्रणालनिर्झरे प्रमोदमुखरमयूररवरम्ये प्रदोषसमये, गृहीतविविधकुसुमताम्बूलाङ्गरागपटवासचूर्णया तरलिकयानुगम्यमाना, तेनैव मूर्छानिहितेन किंचिदाश्यानचन्दनललाटिकालग्नधूसराकुलालकेन चन्दनरसचर्चाङ्गरागवेषेणाट्टैण तथैव च तया कण्ठस्थितयाक्षमालया - *********** संत्सु । पुनः कासु । अभिसारिकासु सत्सु । संकेतितं स्थानं या अभिगच्छन्ति ता अभिसारिकाः स्त्रियः कथ्यन्ते । अथ चाभिसारिकां विशेषयन्नाह - नीलेति । नीलांशुकेन श्यामवस्त्रेण रचितं निर्मितमवगुण्ठनं शिरोंशुकं यासां तासु । नीलवस्त्रावृतत्वेन कैश्चिज्ज्ञातुं न शक्यन्त इति भावः । चन्द्रेति । चन्द्रस्य शशिनो य आलोकः प्रकाशस्तस्माद्यद्भयं तेन चकितासु त्रस्तासु । नीलावगुण्ठनविशिष्टाभिसारिकोपमानमाह - कमलेति । कमलवनानां नलिनखण्डानां लक्ष्म्यः श्रियस्तास्विव । कीदृशीषु । नीलेति । नीलोत्पलानामिन्दीवराणां प्रभाः कान्तयस्ताभिः पिहितासु स्थगितासु । भयचकितत्वादाह - इतेति । इतस्ततः समन्तात्पलायमानासु धावमानासु । प्रबुध्येति । प्रबुध्यमानासु प्रबोधं प्राप्यमाणासु । पुनः कस्मिन्सति । अन्तरिक्ष आकाशे सति । अथाकाशं विशिनष्टि - स्फुटितेति । स्फुटितं विकसितं यत्कमदवनं कैरवखण्डं तस्य बहला निबिडा या धुलिः परागस्तया धवलितं शभ्रितमदरं मध्यं यस्य स तथा तस्मिन् । अन्तरिक्षस्य धवलितत्वसाम्येनाह - निशा रात्रिरेव नदी तटिनी तस्याः पुलिनायमाने जलोज्झिातप्रतीरायमाणे । पुनः कस्मिन्सति । जीवलोके सति विश्वे सति । कीदृशे । चन्द्रोदयलक्षणो य आनन्दः प्रमोदस्तस्य निर्भरोऽतिशयो यस्मिन् । तस्य निरवधित्वादुप्रेक्षते - महोदधाविव महाम्भोधाविव । रसादीनां चतुर्णां जनकत्वाच्चतुर्भिरुत्प्रेक्षते - रतीति । रतिरसः श्रृङ्गारस्तन्मय इव । उत्सवो महस्तन्मय इव, विलासो लीला तन्मय इव, प्रीतिः स्नेहस्तन्मय इव । सर्वत्र यकारलोपः । समयाद्यनुसरणमाह - प्रदोषेति । प्रदोषो यामिनीमुखं स एव समयः क्षणस्तस्मिन् । प्रदोषलक्षणं विशेषयन्नाह - शशीति । शशिमणयश्चन्द्रकान्तास्तैर्निबद्धाः प्रणाला जलमार्गास्तेषां निर्झरा घनगर्जनानुकारिणस्तेभ्यो यः प्रमोदस्तेन मुखरा वाचाला ये मयूरा बहिणस्तेषां स्वः शब्दस्तेन रम्ये मनोहरे । गृहीतेति । गृहीतान्यात्तानि विविधकुसुमताम्बूलाङ्गरागपटवासचूर्णानि ययैवंविधया तरलिकया पूर्वोक्तयानुगम्यमानानुव्रज्यमाना । पुनः कीदृशी । तेनैवेति । तेनैव मूर्छाकालनिहितेन स्थापितेन चन्दनरसेन चर्चा मण्डनमङ्गरागो विलेपनं यस्मिन्नेवंविधो यो वेषो नेपथ्यं तेन । कीदृशेन । किंचिदाश्यानाशुष्का चन्दनललाटिका तिलकविशेषस्तस्यां लग्ना धूसराः किंचित्पाण्डुरा आकुला विकीर्णा अलकाः केशा यस्मिंस्तेन । पुनः कीदृशेन । आर्टेण । अशुष्केणेत्यर्थः । तथेति । तथैव पूर्वोक्तप्रकारेणैव कण्ठस्थितया निगरण - -- - - - - - - - - - - - - -- - - - - - टिप्प० - 1 'पूर्वं क्रियमाणेषु सत्सु' इति स्वयं व्याख्यायाऽपि, अत्र ‘राजमार्गेषु सत्सु' इत्युच्यते । ‘राजमार्गेषु दूतीसहससंकुलेषु सत्सु' इत्युचितम् । एवमग्रेपि । 2 अतः भवनस्य या दीर्घिकाः वाप्यस्तत्संबन्धिनीषु कुमुदिनीषु प्रबुध्यमानासु सतीषु । कीदृशीषु । प्रतिकुमुदं प्रत्येककुमुदपुष्पेषु आबद्धं धृतं मधुकरमण्डलं याभिस्तासु । 3 चन्द्रकरस्पर्शेन द्रवन्तः शशिमणय एव प्रणालाः जलनिर्गमनालानि तेषां निर्झरो यस्मिन्, अतएव वर्षाभ्रमेण प्रमोदमुखरा ये मयूरास्तेषां रवेण रम्ये । प्रदोषसमये । - - - - - - - - - - - - - - - - पाठा० - १ सनीलोत्पलप्रभासु. २ प्रीतिमय इव मदनमय इव विलासमय इव. - - - - - - - - - - - - - - - - - - - - - - - - - - 344 कादम्बरी । कथायाम्-)
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy