________________
कुरानुकारिणा चञ्चुपुटेन मरकतद्युतिपक्षतिना मन्थरगतेन शुकेनानुबध्यमाना, कुमुदकेसरपिञ्जरतया चरणयुगलस्य चम्पककलिकाकारतया च मुखस्य कुवलयदलनीलतया च पक्षातीनां कुसुममयीवागत्य सारिका सक्रोधमवादीत् - 'भर्तृदारिके कादम्बरि, कस्मान निवारयस्येनमलीकसुभगाभिमानिनं दुविनीतं मामनुबध्नन्तं विहंगापसंदम् । यदि मामनेन परिभूयमानामुपेक्षसे, ततोऽहं नियतमात्मानमुत्सृजामि । सत्यं शपामि ते पादपङ्कजस्पर्शेन' इत्येवमभिहिता च तया कादम्बरी स्मितमकरोत् । अविदितवृत्तान्ता तु महाश्वेता 'किमियं वदति इति मदलेखां पप्रच्छ । सा चाकथयत् - 'एषा भर्तृदुहितुः सखी कादम्बर्याः कालिन्दीति नाम्ना सारिका, ऐतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता । अद्य चायमनया प्रत्यूषसि कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमिमां तमालिकामेकाकिनी किमपि पाठयन्दृष्टो यतः, ततःप्रभृति संजातेा कोपपराङ्मुखी नैनमुपसर्पति, नालपति, न स्पृशति, न विलोकयति, सर्वाभिरस्माभिः प्रसाद्यमानापि न प्रसीदति' इति । एतदाकर्ण्य स्फुटस्फुरितकपोलोदरश्चन्द्रापीडो मन्दं मन्दं विहस्याब्रवीत् - 'अस्त्येषा कथा, -
*********** वोटिसंपुटेनं कृत्वा विद्रुमाङ्कुर प्रवालप्ररोहमनुकरोतीत्येवंशीलः स तेन । मरकतेति । मरकतस्य द्युतिरिव द्युतिर्ययोरेवंविधे पक्षती पक्षमूले यस्य सः । तेन मन्थरं सालसं गतं यस्य स तेन । अथ सारिकां विशिनष्टि - कुमुदेति । कुमुदानां केसरं तेन पिञ्जरः पीतरक्तस्तस्य भावस्तत्तां तया चरणयुगलस्याङ्ग्युिग्मस्य । चम्पकेति । चम्पकस्य हेमपुष्पकस्य कलिका कोरकस्तस्या आकार आकृतिर्यस्य तस्य भावस्तत्ता तया मुखस्याननस्य, कुवलयदलान्युत्पलखण्डास्तद्वन्नीलस्तस्य भावस्तत्ता तया, पक्षद्युतीनां छदकिरणानाम् । अत एवाह - कुसुममयीव पुष्पमयीव । अन्वयस्तु प्रागेवोक्तः । किमुवाचेत्याह - भर्तृदेति । हे भर्तृदारिके कादम्बरि, कस्माद्धेतोरेनं शुकं न निवारयसि न निराकरोषि । अलीक मिथ्या सुभगस्य सौभाग्यस्याभिमानोऽहंकारो विद्यते यस्य स तम् । दुर्विनीतं शूकलम् । किं कुर्वन्तम् । मामनुबन्धन्तमनुरोधं कुर्वन्तम् । तथा विहंगेषु पक्षिष्वपसदमधमम् । यदीति । यदि मामनेन शुकेन परिभूयमानां पराजितामुपेक्षस उपेक्षा करोषि, ततोऽहं नियतमात्मानमुत्सृजामि । भविष्यति वर्तमाना । त्यक्ष्यामीत्यर्थः । सत्यं स्यात्तथा शपामि शपथं करोमि । केन । ते तव पादपङ्कजस्पर्शेन । तवाघ्रिस्पर्शपूर्वकमित्यर्थः तयेत्येवमभिहितोक्ता कादम्बरी स्मितमकरोत् । अविदितेति । अविदितोऽज्ञातो वृत्तान्त उदन्तो यस्याः सैवंविधा तु महाश्वेता किमियं किमियं सारिका वदतीति मदलेखां पप्रच्छ । सा चेति । सा मदलेखा इत्यकथयदित्यवोचत् । किमुवाचेत्याह - एषेति । एषा भर्तृदुहितुः कादम्बर्याः कालिन्दीति नाम्ना सखी सारिका एतस्य परिहासनाम्नः शुकस्य भर्तृदारिकयैव पाणिग्रहणपूर्वकं जायापदं ग्राहिता स्त्रीत्वं प्रापिता । अद्य चेति । अद्य दिने चानया सारिका(कया)प्रत्यूषसि प्रभाते कादम्बर्यास्ताम्बूलकरङ्कवाहिनीमेकाकिनीमिमां तमालिकां किमपि पाठयन्दृष्टः । ततःप्रभृति तद्दिनादारभ्य संजातेा यस्याः सा कोपपरामखी क्रोधावाङ्मखी नैनं शकमपसर्पति समीपे न गच्छति, नालपति न ब्रवीति, न स्पृशति न स्पर्श करोति, न विलोकयति नेक्षते, सर्वाभिरस्माभिः प्रसायमानापि प्रसन्नीक्रियमाणापि न प्रसीदति न प्रसन्नीभवति । इत्येतदाकर्ण्य श्रुत्वा । स्फुटमिति । स्फुटं स्पष्टं स्फुरितं स्पैन्दितं कपोलयोरुदरं यस्यैवंविधश्चन्द्रापीडो मन्दं मन्दं विहस्य । स्मितं कृत्वेत्यर्थः । इत्यब्रवीदित्यवोचत् । अस्तीति । एषा कथास्ति । एतद्राजकुले श्रूयते एवमाकर्ण्यते । टिप्प० -1 °नुकारिचञ्चुपुटेनइत्यपि पाठः सुन्दरः । 2 कुमुदकेसरवत् पीततया । 3 उत्पलं श्वेतवर्णं प्रसिद्धम्, अत एव नीलकमलेति वाच्यम् । 4 हास्योदयात् । पाठा० - १ अनुकारिचञ्चु. २ मन्थरगमनेन शुकेनानुगम्यमाना. ३ अतिदुर्विनीतम्. ४ विहंगमापसदम्. ५ तु. ६ इदमस्य च. ७ तरलिकाम्.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
(शुकसारिकामुखेन कौतुकारम्भः
पूर्वभागः ।
403