________________
प्रसारितवान्पाणिम् । तत्र च सा तत्कालसुलभविलासदर्शनकुतूहलिभिरिव कुतोऽप्यागत्य सर्वरसैरधिष्ठिता, तेनानि - बद्धलक्ष्यतया शून्यप्रसारितेन चन्द्रापीडहस्तान्वेषणायेव पुरः प्रवर्तितनखांशुनिवहेन वेपथुचलितवलयावलीवाचालेन संभाषणमिव कुर्वता हस्तेन स्वेदसलिलपातपूर्वकम् 'गृह्यतामयं मन्मथेन दत्तो दासजनः' इत्यात्मानमिव प्रतिग्राहयन्ती, ‘अद्यप्रभृति भवतो हस्ते वर्तते' इति जीवितमिव स्थापयन्ती ताम्बूलमदात् । औकर्षन्ती च करकिसलयं भुजलतानुसारेण स्पर्शतृष्णागतमनङ्गशरभिन्नमध्यं हृदयमिव पतितमपि रत्नवलयं नाज्ञासीत् । गृहीत्वा चापरं ताम्बूलं महाश्वेतायै प्रायच्छत् ।
अथ सहसैव त्वरितगतिः त्रिवर्णरागमिन्द्रायुधमिव कुण्डलीकृतं कण्ठेन वहता विद्रुमा
***********
धारयन्तम् । श्रृङ्गारं पोषयद्गान्धर्वविवाहन्यायेन पाणिग्रहणमप्याह - तत्र चेति । तस्मिन्काले सा कादम्बरी तस्मै चन्द्रापीडा हस्तेन ताम्बूलमदात् । कीदृशी । सर्वसैः श्रृङ्गारादिभिः कृतोऽप्यनिर्दिष्टस्थानादप्यागत्याधिष्ठिताश्रिता । कीदृशै रसैः । तत्कालेति । तस्मिन्काले सुलभाः सुप्रापा विलासास्तेषां दर्शनं तत्र कुतूहलिभिरिव कौतुकिभिरिव । हस्तं विशेषयन्नाह - तेनेति । हस्तेनानिबद्धं न दृग्विषयीकृतं यल्लक्ष्यं वेध्यं तेन शून्यं प्रसारितेन विस्तारितेन चन्द्रापीडस्य यो हस्तस्तस्यान्वेषणं गवेषणं तदर्थमिव पुंरोऽग्रे प्रवर्तितः प्रचलितो नखानां पुनर्भवानामंशुनिवहो यस्य तेन । वेपथुरिति । वेपथुः कम्पस्तेन चलिता कम्पिता या वलयानां पारिहार्याणामावली श्रेणी तया वाचालेन मुखरेण । शब्दसाम्यमाह - संभाषणमिव जल्पनमिव कुर्वता विदधता । स्वेदेति । स्वेदसलिलं धर्मजलं तस्य पातः पतनं तत्पूर्वकं यथा स्यात्तथेति क्रियाविशेषणम् । किं कुर्वन्ती । इत्यात्मानमिव प्रतिग्राहयन्ती ग्रहणं कारयन्ती । इतिशब्दद्योत्यमाह गृह्यतामिति । अयं मल्लक्षणो दासजनो मन्मथेण कंदर्पेण दत्तोऽर्पितो गृह्यतां स्वीक्रियताम् । पुनः किं कुर्वन्ती । इति जीवितमिव प्राणितमिव स्थापयन्ती । इतिशब्दद्योत्यमाह - अद्येति । अद्यप्रभृत्यद्यदिनादारभ्य भवतस्तव हस्ते वर्तते । त्वदधीनेत्यर्थः । अन्वस्तु प्रागेवोक्तः । पुनः किं कुर्वन्ती । ताम्बूलप्रदानान्तरं करकिसलयं हस्तपल्लवमाकर्षन्त्याकर्षणं कुर्वन्ती च पतितमपि सस्तमपि रत्नवलयं मणिकटकं नाज्ञासीन्न ज्ञातवती । एतेन तन्मयत्वं सूचितम् । वलयस्य लोहितमणिनिर्मितत्वसाम्यादाह - भुजेति । भुजलता बाहुलतातदनुसारेण तन्मार्गेण स्पर्शतृष्णा तयागतं प्राप्तमनङ्गशरेण कंदर्पबाणेन भिन्नं मध्यं यस्यैवंविधं हृदयमिव । गृहीत्वेति । अपरं तद्व्यतिरिक्तं ताम्बूलं नागवल्लीदलं महाश्वेतायै प्रायच्छददात् ।
अथेति । ताम्बूलप्रदानानन्तरं सहसैवागत्य सारिका पीतपादा सक्रोधं यथा स्यात्तथावादीदवोचत् । कीदृशी । त्वरिता शीघ्रा गतिर्यस्याः सा । पुनः कीदृशी । शुकेन कीरेणानुबध्यमाना निरुध्यमाना । अथ शुकं विशेषयन्नाह - वहतेति । कण्ठेन निगरेण वहता धारयता । कम् । त्रिवर्णरागम् । किमिव । इन्द्रायुधमिवाखण्डलधनुरिव कुण्डलीकृतं वर्तुलीकृतम् । जातिवर्णनमेतत् । एतदेव विवृणोति विद्रुमेति । चञ्चुपुटेन -
टिप्प॰ - 1 कादम्बरीदर्शनकौतुकिभिः सर्वरसैः सर्वविधैरानन्दैराश्रितेत्यर्थः (ताम्बूलदानसमये न केवलं स्पर्शविषयक एवानन्दः, मनःप्रमदप्रसूता अन्येऽप्यानन्दा आसन्नित्याशयः) । 2 लज्जावशात् चन्द्रापीडहस्तस्य लक्ष्यमबध्वा तच्छून्ये स्थाने प्रसारितेन (हस्तेन ) । 3 त्वदधीनम् ( जीवितम् ) इत्यर्थः । 4 प्रसारितां भुजलतामनुसृत्य, तया सहेत्यर्थः ।
पाटा० - १ तत्कालविलास २ अधिष्ठितेनान्यनिबद्धलक्षशून्य. ३ आकर्षयन्ती.
402
-
कादम्बरी |
कथायाम्