________________
श्रूयत एवैतद्राजकुले, कर्णपरम्परया परिजनोऽप्येवमामन्त्रयते, बहिरपि जनाः कथयन्त्येवम्, दिगन्तरेष्वप्ययमालापो वर्तत ऐव, अस्माभिरप्येतदाकर्णितमेव, यथा किल देव्याः कादम्बर्यास्ताम्बूलदौयिनी तमालिकां कामयमानः परिहासनामा शुको मदनपरवशो गतान्यपि दिनानि न वेत्तीति । तदयमास्तां तावद्वामाचारः परित्यक्तनिजकलत्रो निस्त्रपोऽनया सह, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं यन्न निवारयतीमा चपलां दुष्टदासीम्, अथवा देव्यापि कथितैव निःस्नेहता प्रथममेव वराकीमिमां कालिन्दीमीदृशाय दुर्विनीताय विहंगाय प्रयच्छन्त्या । किमिदानीमियं करोतु, यदेतत्सापत्न्यकरणं नारीणां प्रधानं कोपकारणम्, अग्रणीविरागहेतुः, परं परिभवस्थानम् । इयमेव केवलमतिधीरा, यदनयानेन दौर्भाग्यगरिम्णा जातवैराग्यया विषं वा नास्वादितम्, अनलो वा नासादितः, अनशनं वा नाङ्गीकृतम् । नह्येकॅमपरमस्ति योषितां लघिम्नः कारणम्, यदि चेयमीदृशेऽप्यपराधेऽनुनीयमानानेन प्रत्यासत्तिमेष्यति, तदा धिगिमाम्, अलमनया, दूरतो वर्जनीयेयमभिभवनिरस्या, क एनां पुनरालापयिष्यति, को वावलोकयिष्यति, को वास्या नाम ग्रहीष्यति' इत्येवमभिहितवति तस्मिन्सर्वास्ताः सह कादम्बर्या क्रीडालापभाषिता जहसुरङ्गनाः । परिहासस्तु तस्य नर्मभाषितमाकर्ण्य जगाद - 'धूर्त -
*********** कर्णपरम्परया परिजनोऽपि सेवकजनोऽप्येवमामन्त्रयते । एवं कथयतीत्यर्थः । बहिरपि जना एवं कथयन्ति । दिगन्तरेष्वपि परदेशेष्वप्ययमालापो वर्तत एव । अस्माभिरप्येतत्पूर्वोक्तमाकर्णितमेव श्रुतमेव । तदेव दर्शयन्नाह - यथेति । किलेति सत्ये । देव्याः कादम्बर्यास्ताम्बूलदायिनी तमालिकां कामयमानः प्रार्थयमानः परिहासनामा शुको मदनपरवशो गतान्यतीतान्यपि दिनान्यहानि न वेत्ति न जानाति । तदयमिति । तदिति हेत्वर्थे । अयं वामाचारो विरुद्धाचरणः परित्यक्तनिजकलत्रो निस्त्रपो निर्लज्जस्तया सह तावदास्तां तिष्ठतु, देव्यास्तु कादम्बर्याः कथमेतद्युक्तं न्याय्यम् । इमा चपलां चञ्चला दुष्टदासी यन्न निवारयति न निषेधति । अथवेति पक्षान्तरे । देव्यापि प्रथममेव निःस्नेहता निष्प्रेमता कथितैवोक्तैव । किं कुर्वन्त्या देव्या । इमां वराकी कालिन्दीमीदृशाय दुर्विनीताय विहगाय प्रयच्छन्त्या प्रददत्या । किमिदानीमियं करोतु । न किमपि कर्तुं समर्था । यद्यस्माद्धेतोरेतत्सापल्यकरणं नारीणां स्त्रीणां प्रधान मुख्य कोपकारणम् । अग्रणीमुख्यो विरागस्य विरक्तताया हेतुः । परं परिभवस्थानं मुख्यं पराभवगृहम् । इयमेव कालिन्येव केवलमतिधीरा । अस्मिन्नर्थे हेतुमाह - यदिति । यद्यस्मात्कारणादनया कालिन्या अनेन दौर्भाग्यगरिम्णा शुकेन कृत्वा जातमुत्पन्नं वैराग्यं यस्याः सैवंविधया विषं नास्वादितं न भक्षितम् । अनलो वह्निर्वा नासादितो न गृहीतः । अनशनं प्रायो वा नाङ्गीकृतम् । योषितां लघिम्नः कारणं नह्येकमपरमस्ति । यदि चेति । इयं कालिन्दीदृशेऽपराधेऽप्यनुनीयमाना प्रसन्नीक्रियमाणा । अनेन शुकेन प्रत्यासत्तिं संबन्धमेष्यति गमिष्यति, तदेमां धिक् । अनयालं कृतम् । दूरतो वर्जनीया त्याज्येयम् । अभिभवेन निरस्या दूरीकरणीया । क एनां पुनरालापयिष्यति । को वावलोकयिष्यति । को वास्याः कालिन्या नामाभिधानं ग्रहीष्यतीत्येवं पूर्वोक्तप्रकारेणाभिहितवति कथितवति तस्मिन्राज्ञि सर्वास्ता अङ्गनाः कादम्बर्या सह जहसुर्हसितवत्यः । कीदृश्यः । क्रीडालापेन नालापेन भाषिता वासिताः । परीति । परिहासः शुकस्तु तस्य चन्द्रापीडस्य नर्मभाषितमाकर्ण्य श्रुत्वा जगादोवाच । हे धूर्त राजपुत्र, निपुणाभिज्ञेयम् । टिप्प० - 1 अनेन दौर्भाग्यस्य गरिम्णा (गुरुतया), 1 2 ‘एवंविधम्' इत्यपि पाठः । एवंविधमपरं नास्तीति तदर्थः । 3 'भाविताः' इत्येव । नालापेन भाविताः संजाततदनुगुणभावोदया इत्यर्थः । पाठा० - १ अप्येवं मन्त्रयति एवम्; अपि मन्त्रयते बहिः. २ एवम्. ३ वाहिनीं. ४ तरलिकाम्. ५ निस्त्रपया. ६ अतिनिःस्नेहता. ७ इयं तपस्विनी. ८ एवंविधम्; एवम्. ९ तेन सह. १० निरस्याम्. ११ भाविता.
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
-
404
कादम्बरी।
कथायाम्