________________
राजपुत्र, निपुणेयम्, न त्वयान्येन वा लोलापि प्रतारयितुं शक्यते । एषापि बुध्यत एवैतावतीर्वक्रोक्तीः । इयमपि जानात्येव परिहासजल्पितानि । अस्या अपि राजकुलसंपर्कचतुरा मतिः । विरम्यताम् । अभूमिरेषा भुजङ्गभङ्गिभाषितानाम् । इयमेव हि वेत्ति मञ्जुभाषिणी कालं च कारणं च प्रमाणं च विषयं च प्रस्तावं च कोपप्रसादयोः' इति ।
अत्रान्तरे चागत्य कञ्चुकी महाश्वेतामवोचत् - 'आयुष्यमति, देवश्चित्ररथो देवी च मदिरा त्वां द्रष्टुमाह्वयते' इति । एवमभिहिता च गन्तुकामा ‘सखि, चन्द्रापीडः क्वास्ताम्' इति कादम्बरीमपृच्छत् । असौ तु ननु पर्याप्तमेवानेकस्त्रीहृदयसहसावस्थानमनेनेति मनसा विहस्य, प्रकाशमवदत् - 'सखि महाश्वेते, किं त्वमेवमभिदधासि । दर्शनादारभ्य शरीरस्योप्यहं न विभुः, किमुत भैवनस्य परिजनस्य वा । त्रासौ रोचते प्रियसखीहृदयाय वा तत्रायमास्ताम्' इति तच्छ्रुत्वा महाश्वेतावदत् - ‘अत्रैर्वै त्वत्प्रासादसमीपवर्तिनी प्रमदवने क्रीडापर्वतकमणिवेश्मन्यास्ताम्,' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तँयैव सह
-
***********
त्वयान्येन वा त्वद्व्यतिरिक्तपुंसा लोलापि चपलापि प्रतारयितुं न शक्यते न पार्यते । एषेति । एतावतीर्वक्रोक्तीरेषापि बुध्यते जानाति । इ॒यमपि परिहासजल्पितानि जानात्येव । अस्या अपि राजकुलेन संपर्कः संबन्धस्तेन चतुरा चार्थयुक्ता मतिर्बुद्धिः । अतो विरम्यतां मन क्रियताम् । नर्मालापभाषणादिति शेषः । भुजंगाः कामिनस्तेषां भङ्गिभाषितानां वक्रोक्तीनामेषाऽभूमिरस्थानम् । इयमेव हि मञ्जुभाषिणी मनोज्ञालापिनी कोपप्रसादयोः कालं समयं कारणं निमित्तं प्रमाणं तद्व्यवस्थापकं पञ्चावयवं वाक्यं विषयं गोचरं प्रस्तावमवसरं च वेत्ति जानातीति ।
I
अत्रान्तरे चेति । अस्मिन्समये कञ्चुक्यागात्य महाश्वेतामित्यवोचदित्यब्रवीत् । इतिशब्दवाच्यमाह - आयुष्मतीति । हे आयुष्म, देवः पूज्यश्चित्ररथाभिधो नृपो देवी च राज्ञी मदिराभिधा त्वां भवतीं द्रष्टुं विलोकयितुमाह्वयत आह्वानं करोति । एवंप्रकारेणाभिहितोक्ता संती गन्तुकामा इति कादम्बरीमपृच्छत् । इतीति किम् । हे सखि कादम्बरि, चन्द्रापीडः क्वास्तां क्व तिष्ठतु । असौ त्विति । असौ कादम्बरी मनसा विहस्येति प्रकाशं प्रकटमवदत् । इतिद्योत्यमाह - पर्याप्तेति । अनेनं कृत्वा पर्याप्तमेव परिपूर्णमेव । स्वेर्व्यां प्रकटयत्याह - अनेकेति । अनेका याः स्त्रियस्तासां हृदयानि चेतांसि तेषां सहस्रं तल्लक्षणमवस्थानमावासः । अवस्थानावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्बसंक्रान्तिवशात्प्रागेव दर्शितमित्यनुनयमाह - किं त्विति । त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीरस्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते । यत्रेति । यस्मिन्स्थलेऽसौ चन्द्रापीडः । पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभवति तत्रायमास्तां तिष्ठतु । एतत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्चेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्रमदवनेऽन्तः पुरोपवने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी
टिप्प० - 1 स्त्रीत्वेन अगभीरबुद्धिरपि । 2 वस्तुतस्तु - 'न पर्याप्तमनेकस्त्रीहृदयसहसावस्थानेन ?' इत्येव पाठः । स्त्रीहृदयसहसरूपेण अवस्थितिस्थानेन किम् न पर्याप्तम् ? अर्थात् हृदयसहसरूपं स्थानमस्य किं न यथेष्टं जातमिति काकुः । भावे प्रत्ययः । 3 समर्थेत्याशयः ।
पाटा० - १ न पर्याप्तमनेकस्त्रीदय सहसावस्थानेन. २ अप्ययमेव प्रभुः ३ भवनस्य ४ अस्मै ५ महाश्वेता तदत्रैव. ६ च ७ तया सहैव.
(कादम्बर्या स्वविकारजा चिन्ता
पूर्वभागः ।
405