SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ निर्गत्य विनोदनार्थं वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदरक्रीडारागिणीभिश्चाष्टापदपरिचयचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभाषितपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिश्यमानमार्गः क्रीडापर्वतर्मणिमन्दिरमगात् । । गते च तस्मिन्गन्धर्वराजपुत्री विसर्म्य सकलसखीजनं परिजनं च परिमितपरिचारिकाभिरनुगम्यमाना प्रासादमारुरोह । तत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः परिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैकाकिनी तस्मिन्काले 'चपले, किमिदमारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्वराजपुत्रि, कथमेतद्युक्तम्' इत्युपालब्धेव विनयेन, 'अयमसावव्युत्पन्नो बालभावः क्व गतः' इत्युपहसितेव मुग्धतया, 'स्वैरिणि, मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामन्त्रितेव कुमारभावेन, 'भीरु, नायं कुलकन्यकानां क्रमः' इति गर्हितेव महत्त्वेन, 'दुर्विनीते, रक्षाविनयम्' इति तर्जितेवाचारेण, 'मूढे, मदनेन लघुतां नीतासि' इत्यनुशासितेवाभिजात्येन, 'कुतस्तवेयं तरलहृदयता' इति धिकृतेव धैर्येण, ‘स्वच्छन्दचारिणि, अप्रमाणीकृताहं त्वया' इति निन्दितेव कुलस्थित्यातिगुर्वी लज्जामुवाह । *********** बाररक्षानियुक्ता तया प्रेषिताभिः प्रतीताभिर्वीणावादिनीभिर्वेणुवाद्य वंशवायं तत्र निपुणाभिर्दक्षाभिर्गीतं गानं तल्लक्षणा या कला विज्ञानं तत्र कुशलाभिर्दक्षाभिः । दुरोदरेति । दुरोदरक्रीडा द्यूतक्रीडा तस्यां राग अनुरागो विद्यते यासा ताभिः । अष्टापदः शारिफलं तत्र यः परिचयस्तस्मिंश्चतुराभिः । चित्रेति । चित्रकर्मालेख्यकर्मतत्र कृतो विहितः श्रमो याभिः । सुभाषितानि सूक्तानि तेषां पाठिकाभिः । एवंविधाभिः कन्यकाभिरनुगम्यमानः । अत्र कलानां भिन्नभिन्नाश्रयत्वसूचनार्थं चकारः । कीदृशो नृपश्चन्द्रापीडः । पूर्वदृष्टेन केयूरकेणोपदिश्यमानः प्रदर्यमानो मार्गः पन्था यस्य सः । क्रीडापर्वतमणिमन्दिरमगाद् गतवान् । भावशबलानि व्यञ्जयन्नाह - गते चेति । तस्मिंश्चन्द्रापीडे गते सति गन्धर्वराजपुत्री कादम्बरी सकलसखीजनं समग्रवयस्याजनं परिजन परिच्छदलोकं च विसर्ग्य गृहे गम्यतामित्यादिश्य परिमितपरिचारिकाभिः स्तोकपरिच्छदस्त्रीभिरनुगम्यमाना प्रासादो देवभूपानां गृहं तमारुरोहारूढवती । तत्र मणिमन्दिरे शयनीये शय्यायां निपत्य पतनं कृत्वा विरहव्याकुलचित्तत्वेन शयनाभावाद्दूरस्थिताभिर्दविष्ठदेशावस्थायिनिभिर्विनयनिभृताभिर्मर्यादावतीभिः एवंविधाभिः परिचारिकाभिर्विनोद्यमाना विनोदविषयीक्रियमाणा कुतोऽपि प्रत्यागता पश्चादागता चेतना यस्याः सा । चन्द्रापीडदर्शनान्मन्मथेन चैतन्यमपहृतं तत्प्रत्यागतमिति भावः । सैवंविधैकाकिनी तस्मिन्काले स्वात्मानं संबुध्याह - चपलेति । हे चपले चञ्चले, किमिदमारब्धं प्रस्तुतमिति लज्जया त्रपया निगृहीतेव निरुत्तरीकृतेव । हे गन्धर्वराजपुत्रि, कथमेतत्पूर्वोक्तं युक्तं न्याय्यमित्युपालब्धेव विनयेन । उपालम्भस्तिरस्कारविशेषः । अयमसौ अव्युत्पन्नो बालभावः शिशुभावः क्व गत इत्युपहसितेव हास्यगोचरीकृतेव मुग्धतया । हे स्वैरिणि स्वेच्छाचारिणि, एकाकिनी यथेष्टमविनयं मा कुर्वित्यामन्त्रितेव निमन्त्रितेव कुमारभावेन बालभावेन । हे भीरु, कुलकन्यकानामयं न क्रम इति गर्हितेव निन्दितेव महत्त्वेन गरिम्णा । दुर्विनीते, अविनयं रक्षेति तर्जितेवाचारेण । हे मूढे, मदनेन कंदर्पण लघुतां तुच्छतां नीतासि प्रापितासीत्यनुशासितेवानुशिक्षितेवाभिजात्येन भूमिकानुसारितया । कुतस्तवेयं तरलहृदयतेति धिकृतेव धैर्येण । हे स्वच्छन्दचारिणि, अहं त्वयाऽप्रमाणी - - - - - - - - - - -- टिप्प० -1 यौवनकालिकशृङ्गारविषयकभावानभिज्ञः । 2 आमन्त्रणपूर्वकमुपदिष्टेव, इत्यर्थः । 3 कौलीन्येन । पाठा० - १ विनोदार्थम्. २ गृहम्. ३ सकलं. ४ ततः. ५ अदूरस्थिताभिः. ६ विधृताभिः. ७ परिचयचतुराभिरुपास्यमानापि. ८ लघुतां नीतासि मदनेनेति शापितेव. ९ तरलता. (406 ( कादम्बरी ।। कथायाम्
SR No.002411
Book TitleKadambari Part 01
Original Sutra AuthorN/A
AuthorHitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2005
Total Pages494
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy