________________
समचिन्तयच्चैवम् - ‘अगणितसर्वशङ्कया तरलहृदयतां दर्शयन्त्याद्य मया किं कृतमिदं मोहोन्धया । तथा हि, अदृष्टपूर्वोऽयमिति साहसिकतया मया न शङ्कितम् । लघुहृदयां मामयं कलयिष्यतीति निर्हीकया नाकलितम् । कास्य चित्तवृत्तिरिति मया न परीक्षितम् । दर्शनानुकूलाहमस्य नेति वा तरेलया न कृतो विचारक्रमः । प्रत्याख्यानवैलक्ष्यान्न भीतम् । गुरुजनान्न त्रस्तम् । लोकापवादान्नोद्विग्नम् । तथा च महाश्वेतीतिदुःखितेति दाँक्षिण्यया नापेक्षितम् । आसन्नवर्तिसखीजनोऽप्युपलक्षयतीति मन्दया न लक्षितम् । पार्श्वस्थितः परिजनः पश्यतीति नष्टचेतनया न दृष्टम् । स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं विभावयेयुः, किमुतानुभूतमदनवृत्तान्ता महाश्वेता सकलकलाकुशलाः सख्यो वा राजकुलसंचारचतुरो वा नित्यमिङ्गितज्ञः परिजनः । ईदृशेष्वतिनिपुणतरदृष्टयोऽन्तःपुरदास्यः । सर्वथा हतास्मि मन्दपुण्या । मरणं मेऽद्य श्रेयो न लज्जाकरं जीवितम् । श्रुत्वैतद्वृत्तान्तं किं वक्ष्यत्यम्बा, तातो वा, गन्धर्वलोको वा । किं करोमि । कोऽत्र प्रतीकारः । केनोपायेन स्खलितमिदं प्रच्छादयामि । कस्य वा चापलमिदमेतेषां दुर्विनीतानामिन्द्रियाणां कथयामि । क्व वान
1
-
***********
-
कृतेति निन्दितेव कुलस्थित्यातिगुर्वीमतिमहतीं लज्जां त्रपामुवाह धारयामास । समिति । एवमग्रे वक्ष्यमाणं समचिन्तयदध्यायत् । एवंशब्दवाच्यमाह - अगणितेति । अगणिताः सर्वाः समग्राः शङ्का यया सा तया । किं कुर्वन्त्या । तरलहृदयतां चञ्चलचित्ततां दर्शयन्त्या प्रकाशयन्त्या अद्य मोहान्धया मयेदं किं कृतं किं विहितम् । तदेव दर्शयति तथा हीति । अदृष्टपूर्वोऽनवलोकितपूर्वोऽयं चन्द्रापीड इति साहसिकतया साहसयुक्तया मया न शङ्कितम् । तथा मां लघुह्रदयां तुच्छचित्तामयं कलयिष्यतीति निर्हीकया निर्लज्जया नाकलितम् । तथा कास्य चित्तवृत्तिरिति मया न परीक्षितं परीक्षा न कृता । तथा दर्शनानुकूला दर्शनयोग्याहमस्य नेति वा मया तरलया चपलया विचारक्रमो न कृतो न विहितः । तथा प्रत्याख्यानं प्रतिषेधस्तज्ञ्जनितं यद्वैर्लक्ष्यं तस्मान्न भीतं न त्रस्तम् । तथा गुरुजनात्पूज्यजनान्न त्रस्तं चकितम् । तथा लोकापवादाज्जनप्रवादान्नोद्विग्नं नोद्वेगं प्राप्तम् । तथा च महाश्वेतातिदुःखितेति दाक्षिण्यया गतानुकूलतया नापेक्षितमपेक्षा न कृता । तथासन्नवर्ती समीपवर्ती सखीजनोऽप्यालीजनोऽप्युपलक्षयति ज्ञास्यति । भविष्यति वर्तमानः । इति मन्दया मूर्खया न लक्षितं न ज्ञातम् । तथा पार्श्वस्थितः समीपस्थः परिजनं परिच्छदः पश्यत्यवलोकयतीति नष्टचेतनया मया न दृष्टम् । तथा स्थूलबुद्धयोऽपि तादृशीं विनयच्युतिं संभावयेयुः विभावनां कुर्युः । अनुभूतोऽनुभवं नीतो मदनवृत्तान्तो यया सैवंविधा महाश्वेता सकलकलाकुशलास्तस्याः सख्यो वयस्या वा राजकुले संचारः संचरणं तत्र चतुरोऽभिज्ञो नित्यमिङ्गितज्ञ इङ्गितं शरीरचेष्टा तदभिज्ञः परिजनो वा । ईदृशेषु कार्येष्वतिनिपुणतरा दृष्टयो यासां ता अन्तःपुरदास्यः । एतासां किमुत भण्यते । एताः पराभिप्रायं विदन्त्येवेति भावः । अतः सर्वथा मन्दपुण्याहं हतास्मि । मे मम मरणमद्य श्रेयः । लज्जाकरं त्रपाजनकं जीवितं न श्रेयः । एतद्वृत्तान्तमुदन्तं श्रुत्वाकर्ण्याम्बा माता, तातः पिता वा, गन्धर्वलोकः स्वजनवर्गो वा, किं वक्ष्यति कथयिष्यति । अहं किं करोमि किमनुतिष्ठामि । कोऽस्मिन्विषये प्रतीकारः प्रतिक्रिया । केनोपायेन प्रपञ्चेनेदं स्खलितं दुश्चेष्टितं प्रच्छादयाम्यावृणोमि । एतेषां दुर्विनीतानामिन्द्रियाणां करणानां चापलं चाञ्चल्यं कस्य वा कथयामि निवेदयामि । क्व वानेन
टिप्प० - 1 लज्जा, वैयाकुली वा । 2 'निर्दाक्षिण्यया' दाक्षिण्य ( औदार्य) रहितया मया, इत्यर्थः ।
टिप्प० - १ अगणितसर्वशङ्काम्. २ मोहान्धया हताशया. ३ मां लोकः ४ मूढया. ५ तरलतया. ६ दुःखिता. ७ निर्दाक्षिण्यायाः ८ निपुणदृष्टय. ९ एतम्.
कादम्बर्याः स्वविकारैर्मनश्चिन्ता
पूर्वभागः ।
407